मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 532, कुल 672 में से
संदर्भ में पढ़ेंवाक्यज्ञाने हि वाक्यार्थविज्ञानमवकल्पते ।
ततः प्रस्तूयते वाक्यचिन्ता प्राच्यविचिन्तिता ॥
(100) वाक्यवादः.
1 अथात्र वैयाकरणसम्प्रदायस्य संग्रहः ।
एष वाक्यपदीयाख्यग्रन्थसारः प्रकाश्यते ॥
अखण्डं वाक्यमित्येके सखण्डमिति चापरे ।
संघातवर्तिनी जातिः एकोऽनवयवः स्वनः ॥
तथा बुद्ध्यनुसंहारोऽखण्डं त्रेधा विकल्प्यते ।
क्रमस्संघात आख्यातशब्द आद्यपदं तथा ॥
पृथक्सर्वपदं चेति सखण्डं पञ्चधा मतम् ।
अष्टौ वाक्यविकल्पास्ते शाब्दिकाचार्यसम्मताः ॥
2 स्फोटवादोऽखण्डपक्षः स्फोटश्शब्दः ध्वनिः पुनः ।
तद्गुणः दीपरुचिवत् स्वरव्यञ्जनलक्षणः ॥
बाह्य आभ्यन्तरश्चेति स स्फोटो द्विविधो मतः ।
जातिव्यक्तिप्रभेदेन बाह्यो द्विविध इष्यते ॥
संघातवर्तिनी जातिः बाह्यः प्रथम ईरितः ।
एकोऽनवयवश्शब्दः द्वितीयो व्यक्तिलक्षणः ॥
यदन्तरश्शब्दतत्त्वं तु नादैरेकं प्रकाशितम् ।
स स्यादाम्यन्तरः स्फोटः तदर्थोऽप्यस्ति चान्तरः ॥