मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
वेदविरुक्तिवादः 469
उपयुक्ताकीर्णकरद्रव्यस्य विहिते स्थले ।
प्रक्षेपः प्रतिपत्तिस्सा ह्युपयुक्तस्य संस्क्रिया ॥
उत्पत्तिराप्तिर्विकृतिस्संस्कृतिश्च परं भवेत् ।
आधानाधीत्यवघातप्रोक्षणानीत्युदाहृतिः ॥
यत्स्यात्पशुपुरोडाशप्रभृतिष्वंशभेदतः ।
दृष्टार्थं चाप्यदृष्टार्थमाश्रयीत्युच्यते हि तत् ॥
नित्यकाम्यविभेदेन तथा कर्म विभज्यते ।
सर्वस्यैव च काम्यत्वे कामना न भवेद्यदि ॥
सर्वोऽपि वैदिकः पन्थाः भवेदत्तजलाञ्जलिः ।
सर्वस्यापि च नित्यत्वे त्वशक्त्या स्यादवत्सलः ॥
तत्र नित्यं तु शक्याङ्गं काम्यमुक्ताङ्गकं मतम् ।
नित्यकाम्यस्वरूपैक्ये विनियोगपृथक्त्वतः ॥
फलार्थं क्रियमाणेऽपि नित्यं भवति तन्त्रतः ।
नित्येन काम्यसिद्धिं तु कल्पकाराः प्रचक्षते ॥
पापक्षयफलं नित्यं काम्यं चापि क्वचिद्यदा ।
आरब्धे कामनाहानावुक्ताङ्गशक्तिसंभवे ॥
प्रत्यवायपरीहारफलं तन्नित्यमित्यपि ।
अपरे प्राहुरनयोर्विशेषस्सूक्ष्म इष्यते ॥
नित्यं सामान्यफलतः काम्यं फलविशेषतः ।
प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ॥
470 मानमेयरहस्यश्लोकवार्त्तिके
नैमित्तिकं कर्मभेदं प्रायश्चित्तादिलक्षणम् ।
प्राहुः परे तत्तु कर्म काम्यमेवेति केचन ॥
6 प्रवर्तको नैव लिड्स्यात् तद्व्यापारोऽपि नेष्यते ।
तदर्थभेदो नाज्ञादिः न कार्यं नेष्टहेतुता ॥
अभिधाभावनैवेष्टा लिङाद्यभिहिता तु या ।
सैव प्रवर्तनाभिख्या प्रेरणेति च गीयते ॥
अर्थात्मा भावना त्वन्या सर्वाख्यातेषु दृश्यते ।
कृतिः प्रयत्नो व्यापार इत्यादिर्व्यपदेशभाक् ॥
निजार्थात्तु लिङर्थोऽसौ विलक्षणतया मतः ।
ज्ञापकव्यापार एषः स तु कारकसंश्रितः ॥
प्रवर्तनस्मृतिः प्राप्ते प्रैष इत्यभिधीयते ।
अप्राप्ते प्रेषणं सर्वं विधित्वं प्रतिपद्यते ॥
विधिः प्रवर्तकत्वाख्यस्वरूपानुपपत्तितः ।
स्वर्गं साध्यतया यागं साधनत्वेन बोधयेत् ॥
भवितुर्भवनानुकूलो भावयितुर्भवेत् ।
व्यापारो भावना सैषा शाब्दी चार्थीति भिद्यते ॥
आद्या प्रवर्तनाभिख्या लिङाद्यभिहितोदिता ।
नञ्संव्यवहारे तु बोध्यते सा निवर्तना ॥
पुंप्रवृत्त्यनुकूलात्मा व्यापारः शब्दगोऽग्रिमः ।
पुंनिवृत्त्यनुकूलात्मा व्यापारोऽनन्तरो मतः ॥
वेदनिरुक्तिवादः 471
प्रवृत्तिस्तु भवेदार्थी भावनाऽऽख्यातबोधिता ।
तदभावो निवृत्तिस्तु नञा योगे तु बुद्ध्यते ॥
प्रयोजनेच्छाजनितः पुंव्यापारोऽत्र चादिमः ।
अनिष्टद्वेषजनितः तदभावोऽन्तिमो मतः ॥
7 साध्यं च साधनं चेतिकर्तव्यत्वमिति क्रमात् ।
किं केन कथमित्येवमाकांक्षात्रयपूरकम् ॥
शाब्दी प्रवृत्तिलिङ्ग्स्तोत्रैस्त्र्यंशा भवति भावना ।
आर्थी तु स्वर्गयागाङ्गैः त्र्यंशेति परिनिष्ठितम् ॥
अङ्गताग्राहकं मानं षड्विधं श्रुतिरादिमम् ।
लिङ्गं वाक्यं प्रकरणं स्थानं सह समाख्यया ॥
निरपेक्षः कण्ठरवः श्रुतिः लिङ्गं समर्थता ।
समभिव्याहृतिर्वाक्यं पदयोऽशेषिशेषयोः ॥
प्रक्रिया ह्युभयाकांक्षा स्थानं सादेश्यमिष्यते ।
समाख्या यौगिकश्शब्दः तेषां भेदान् प्रचक्ष्महे॥
विभक्त्येकाभिधानैकपदभेदात्त्रिधा श्रुतिः ।
शब्दार्थसामर्थ्यभेदाल्लिङ्गं द्विविधमुच्यते ॥
इतिकर्तव्यताकाङ्क्षा द्वेधा प्रकरणं हि तत् ।
करणानुग्राहकं तदितिकर्तव्यतोच्यते ॥
महाप्रकरणं तत्र फलभावनया युतम् ।
अवान्तरप्रकरणमङ्गभावनया युतम् ॥
472 मानमेयरहस्यश्लोकवार्तिके
श्रुत्यादिसमवाये तु पारदौर्बल्यमिष्यते ।
बोधे विलम्बाविलम्बौ बलाबलनियामकौ ॥
8 समग्राङ्गोपदेशोऽस्ति यत्र सा प्रकृतिर्मता ।
चोदकाद्यत्र न प्राप्तिरङ्गानां साऽथवा मता ॥
वैकृतस्य विधेः काचिदाकांक्षा चोदको मतः ।
चोदकादङ्गसम्बन्धः प्रकृतौ नास्ति कश्चन ॥
तत्प्रतिद्वन्द्विभूता या विकृतिस्सा निरूप्यताम् ।
उपदेशो वाक्यमित्थं कुर्यादित्येवमादिकम् ॥
अतिदेशस्त्विदं तद्वत्कुर्यादित्येवमादिकम् ।
प्राकृतात्कर्मणो यत्र तत्समानेषु कर्मसु ॥
धर्मप्रदेशो येन स्यात्सोऽतिदेश इति स्थितिः ।
निष्कर्षस्तु प्रकृत्यङ्गसजातीयपदार्थगा ॥
या विकृत्यङ्गता तस्याः ग्राहकं वाक्यमिष्यते ।
अन्तर्नीतोपकारस्य पदार्थस्यैव सा मता ॥
उत्कर्षोऽप्राकरणिकनिवेशोऽत्रावगम्यते ।
अपकर्षोऽप्रकृततः प्रकृते संगमो मतः ॥
9 स्वप्रयोज्यत्वसहितसामानाधिकरण्यतः ।
फलेच्छया विशिष्टा या कृतिस्साऽधिक्रियोच्यते ।
अधिकारो विधेः पुंसा संबन्धः प्राच्यसम्मतः ।
कर्मण्यैश्वर्यबोधो यः सोऽधिकारोऽधुनोरितः ॥
10 प्रयोगे श्रुत्यर्थपाठस्थानमुख्यप्रवृत्तयः ।
षडेतानि प्रमाणानि पौर्वापर्यात्मनि क्रमे ॥
श्रुतिः क्त्वाथादिशब्दस्स्यादर्थस्तु स्यात्प्रयोजनम्
पाठो मन्त्रब्राह्मणयोः स्थानं तादृगुपस्थितिः ॥
प्रधानक्रमतोऽङ्गानां क्रमो मुख्यक्रमो मतः ।
सैषा प्रवृत्तिः प्रथमक्रमतोऽनन्तरक्रमः ॥
11 प्रयोगसमवेतार्थस्मृतिर्भवति मन्त्रतः ।
तस्मात् स्मृतेर्हि नियमः नादृष्टफलकल्पना ॥
तच्छाब्दबोधहेतुत्वे तत्प्रामाण्ये विवक्षिते ।
विनियोजकवाक्येषु मन्त्राणां वेदवर्तिनाम् ॥
पदार्थविधया शाब्दबोधस्य करणत्वतः ।
धर्मे प्रमाणं मन्त्रास्स्युः इति केचित्प्रचक्षते ॥
धर्मानुष्ठानोपयोगिज्ञानहेतुत्वमेव चेत् ।
धर्मे मतं प्रमाणत्वं मन्त्राणामिदमक्षतम् ॥
12 नामधेयो विधेयार्थपरिच्छेदक इष्यते ।
मत्वर्थलक्षणापत्तिः वाक्यभेदभयं तथा ॥
तत्प्रख्यशास्त्रं तेनैव व्यपदेश इति क्रमात् ।
चतुर्विधं निमित्तं स्यादेके पञ्चविधं विदुः ॥
पञ्चमं तूत्पत्तिशिष्टगुणप्राबल्यमुच्यते ।
उद्भिच्चित्राऽग्निहोत्रं च श्येनेनेति चतुर्विधा ॥
M.R. 60
474 मानमेयरहस्यश्लोकवार्तिके
क्रमेणोदाहृतिरियं वैश्वदेवं तु पञ्चमम् ।
तत्प्रख्यशास्त्रानामत्वं पञ्चमस्येतरे विदुः ॥
यागेनानेन यक्ष्येऽहं तेन याजय मामिति ।
नाम्ना विनैवमादिर्हि व्यवहारो न सिद्ध्यति ॥
मीमांसाविधिवाक्यार्थज्ञानानुष्ठानलक्षणे ।
त्रिविधे व्यवहारेऽस्मिन् सर्वस्मिन्नाम कारणम्
13 निषेधस्तु भवेद्वाक्यं यत्पूरुषनिवर्तकम् ।
प्रवर्तनारोधिनी तु नञर्थस्स्यान्निवर्तना ॥
तदन्यमात्रसंकोचपरता पर्युदासता ।
तन्मात्रसंकोचपर उपसंहार इष्यते ॥
उभयत्र हि सामान्यं विशेषे पर्यवस्यति ।
व्यापारस्तूपसंहारः विधिप्रत्ययसंश्रितः ॥
धातुनामान्यतरयुग्व्यापारस्त्वपरो मतः ।
उपाध्यसंकरन्यायात्समावेशः द्वयोः क्वचित् ॥
14 स्तुतिनिन्दाऽन्यतरतत्परं वाक्यमिहेष्यते ।
अर्थवाद इति प्राज्ञैः तत्प्रभेदश्चतुर्विधः ॥
स्तुतिर्निन्दा परकृतिः पुराकल्प इति क्रमात् ।
अथ केचिद्विवक्षात्श्चान्यथा प्रविविश्वते ॥
विरोधे गुणवादस्स्यादनुवादोऽवधारिते ।
भूतार्थवादस्तद्धानादर्थवादस्त्रिधेत्यपि ॥
सामान्यनिरुक्तिवादः 47
अग्निर्हिमस्येतिवाक्यं मन्त्रत्वेन समर्थितम् ।
अर्थवादेऽनुवादस्य नोदाहरणमर्हति ॥
प्राशस्त्यादिमतिस्त्वर्थवादादेव नियम्यते ।
प्राशस्त्यादिस्ततो धर्मः नियमादृष्टसाधनम् ॥
सोऽर्थवादो धर्मशाब्दबोधे विध्येकवाक्यतः ।
धर्मे प्रमाणमथवा निरुक्तज्ञानकारणम् ॥
15 यदिभागे च साकाङ्क्षमेकार्थमविभागतः ।
तदेकवाक्यं द्विविधं पदवाक्यविभेदतः ॥
स्वजन्योपस्थितौ स्वार्थे विषये पदपूर्वकम् ।
स्वजन्यबोधे विषये स्वार्थे स्याद्वाक्यपूर्वकम् ॥
एकानेकार्थभेदेन स भेदः परिभाष्यते ।
सार्थवादोत्पत्तिविधिप्रयोगविधिभेदतः ॥
इत्थं पञ्चविधे वेदे प्रधानार्थानुबन्धिनाम् ।
निरुक्तिसंग्रहो ज्ञेयः सामान्यांशोऽथ लिख्यते ॥
(96) सामान्यानिरुक्तिवादः.
1 मन्त्रब्राह्मणपर्याप्ताखण्डोपाधिर्हि वेदता ।
मन्त्रत्वं ब्राह्मणत्वं चाखण्डोपाधिरितीष्यते ॥
ऋक्त्वं पादव्यवस्थावन्मन्त्रत्वमिति निर्णयः ।
मन्त्रत्वैकाधिकरणगीतित्वं सामता मता ॥
पुरोनुवाक्या पूर्वार्धे देवतायाः प्रकाशकः ।
मन्त्रो याज्या तूत्तरार्धे देवतायाः प्रकाशकः ॥
प्रगीतमन्त्रसाध्येन्द्रदेवतादिगुणाभिधा ।
स्तोत्रं शस्त्रं त्वप्रगीतमन्त्रसाध्यतथाऽभिधा ॥
स्तोत्रस्य साधनीभूताः ऋचस्स्तोत्रीयसंज्ञिताः ।
स्तोमाः त्रिवृत्तादिसंख्याविशेषाः ज्योतिराह्वयाः ॥
२ अङ्गत्त्वं तु परोद्देश्यकृतिकारकरूपतः ।
विहितत्वं तदन्तःस्थोद्देश्यताकारकत्वयोः ॥
एकस्योपस्थापको यस्स शब्दश्श्रुतिरीर्यते ।
सा द्वितीयादिरूपेति नव्यतर्कपरिष्कृतिः ॥
विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ।
तत्रचान्यत्रच प्राप्तौ परिसंख्येति गीयते ॥
विधिरुक्तोऽथ नियमः पक्षेऽप्राप्तांशपूरकः ।
अन्यव्यावृत्तिफलकः परिसंख्येति कीर्त्यते ॥
प्राप्ताप्राप्तविवेकेन परिसंख्या द्विधेष्यते ।
पञ्चपञ्चनखेत्याद्येमामगृभ्णन्नितीतरा ॥
श्रुतार्थस्य परित्यागादश्रुतार्थस्य कल्पनात् ।
प्राप्तस्य बाधादित्याद्या परिसंख्या त्रिदूषणा ॥
अन्त्यायामश्वरशनाऽङ्गत्त्वं स्वार्थो विधीयते ।
नेयं त्रिदोषेति केचिदेषाऽपीतीतरे विदुः ॥
3 देवतोद्देशतो द्रव्यत्यागो यागो निरुच्यते ।
दानं स्वस्वत्वमुन्मृद्य परस्वत्वप्रकल्पनम् ॥
प्रक्षेपसहितो यागो होम इत्यभिधीयते ।
यथेष्टविनियोगस्य योग्यत्वं स्वत्वमुच्यते ॥
देवतातत्वं त्यज्यमानद्रव्योद्देश्यत्वमिष्यते ।
अथवा विधिवाक्यस्थशब्दत्वसमवृत्तिमान् ॥
अखण्डोपाधिरथवा तच्छब्दप्रतिपाद्यता ।
प्रतिग्रहीतृत्वयोगे सैव स्यात्सम्प्रदानता ॥
अव्यक्तिरुत्पत्तिवाक्ये देवतानभिबोधनम् ।
तथाऽवदीयमानत्वं हविष्टुमिति भाष्यते ॥
4 क्रत्वनुष्ठाप्यता यत्र क्रत्वर्थत्वं तदुच्यते ।
फलानुष्ठाप्यता यत्र सोच्यते पुरुषार्थता ॥
फलस्य पुरुषार्थत्वव्यवहारस्तु भक्तितः ।
विधानमप्रवृत्तस्य प्रवर्तनमितीरितम् ॥
उपादानमनुष्ठानमननुष्ठितगोचरम् ।
अनुष्ठानोद्देश्यतया विहितं स्यात्प्रयोजकम् ॥
विधेयत्वेन विहितं प्रयोज्यमिति निर्णयः ।
प्रधानमिह विध्यादिरङ्गं विध्यन्त उच्यते ॥
दक्षिणा नाम तद्द्रव्यं यत्स्यादानतिसाधनम् ।
सा चैकस्मिन् क्रतावेका वशीकरणमानतिः ॥
478 मानमेयरहस्यश्लोकवार्तिके
सामान्यतो निरुक्तीनां संग्रहोऽयं विबुध्यताम् ।
आनन्त्यानवकाशाभ्यां संक्षेपरुचयो बुधाः ॥
(97) दोषनिरुक्तिवादः.
1 प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः ।
अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ॥
श्रौतव्यापारनानात्वे शब्दानामतिगौरवम् ।
एकोक्त्यवसितानां तु नार्थाक्षेपो विरुध्यते ॥
वाक्यार्थविधिरन्याय्यः श्रुत्यर्थविधिसंभवे ।
पदान्तरार्थो वाक्यार्थः समानार्थोऽपरो मतः ॥
विधिर्लघ्वर्थविषयः शान्ताकांक्षो भवेद्यदि ।
भारो लाघवतर्काख्यमीमांसाया न युज्यते ॥
करोत्यपरपर्यायभावना त्वेककर्मिका ।
अतस्त्वनेकोद्देश्यत्वे वाक्यभेदः प्रवर्तते ॥
विधेयतोद्देश्यता चाप्येका कृतिनिरूपिता ।
अतो विधेयभेदेऽपि तद्भेदो दुर्निवारणः ॥
वाक्यभेदो वाक्यदोषः पददोषस्तु लक्षणा ।
पदवाक्यसमावेशे गुणे त्वन्याय्यकल्पना ॥
विधेयमात्रं वोद्देश्यमात्रं स्वरसवाहतः ।
समर्पयेदेकपदं स चैकप्रसरो मतः ॥
तदङ्गलक्षणः कश्चिद्वाक्यभेदः प्रकीर्त्यते ।
अंशभेदे वाक्यभेदः कश्चिद्गौरवलक्षणः ॥
त्रिकद्वयसमावेशात्कश्चिद्वैरूप्यलक्षणः ।
उद्देश्यत्वानुवाद्यत्वप्रधानत्वत्रिकं क्वचित् ॥
उपादानविधेयत्वगुणत्वत्रितयं क्वचित् ।
मानान्तरेण सिद्धस्य या स्यान्निर्दिश्यमानता ॥
विधेयस्यान्वयित्वेन तदुद्देश्यत्वमुच्यते ।
मानान्तरेण सिद्धस्य पुनश्च श्रूयमाणता ॥
भवेत्तदनुवाद्यत्वं प्रधानत्वं गुणान्वयः ।
पुंसाऽनुष्ठायिमानत्वमुपादेयत्वमिष्यते ॥
अप्राप्तत्वयुता वाक्यवेद्यता स्याद्विधेयता ।
गुणत्वं विहितत्वं स्यादाङ्गत्वेन च कर्मणः ॥
यद्वृत्तयोगः प्राथम्यं द्वयमुद्देश्यलक्षणम् ।
तद्वृत्तमेवकारश्च स्यादुपादेयलक्षणम् ॥
येषामाख्यातशब्दानां यदप्याद्युपबन्धनात् ।
विधिशक्तिः प्रणश्येत्तु ते सर्वत्राभिधायकाः ॥
२ विरोधे तुल्यबलयोर्विकल्पः परिगृह्यते ।
गत्यन्तरे च न सति सैषा ह्यगतिका गतिः ॥
प्रामाण्यस्य परित्यागः त्वप्रामाण्यस्य कल्पना
त्यक्तमानत्वोपगमोऽत्यक्तप्रामाण्यवर्जनम् ।
प्रत्येकमेते दोषास्स्युः चत्वारश्शास्त्रयोर्द्वयोः।
प्रयोगभेदात्तेन स्याद्विकल्पो ह्यष्टदोषभाक् ॥
प्रतिपत्तिरनुष्ठानं अपूर्वं च फलं तथा ।
बाधस्तेषां कोटियुग्मे इति वा दोषचिन्तना ॥
3 अथ प्रमाणयोर्बाध्यबाधकत्वव्यवस्थितिः ।
अनन्यथासिद्धतैव बाधकत्वे प्रयोजिका ॥
अन्यथासिद्धता या तु सा बाध्यत्वप्रयोजिका ।
उभयं सावकाशत्वानवकाशत्वमूलकम् ॥
अन्यथासिद्धता नाम माने विषयसत्यताम् ।
अन्तरेणात्मलाभस्स्यादवकाशो द्विधा मतः ॥
आद्यो द्विचन्द्रादिवत्स्यात् अप्रमाणपदार्हता ।
विषयान्तरलाभोऽन्त्यः भवेत् होमविधाविव ॥
प्राप्तबाधोऽप्राप्तबाध इति स द्विविधो मतः ।
आद्यः प्रमेयापहारः यो दाशमिक इष्यते ॥
अन्त्यो मूलोच्छेदरूपः तार्तीयीकस्स इष्यते ।
साधारणस्य शास्त्रस्य विशेषविषयादिना ॥
संकोचः क्लृप्तरूपस्य प्राप्तबाधोऽयमुच्यते ।
कल्प्यस्य क्लृप्तशास्त्रेण शैघ्यान्मूलनिकृन्तने ॥
फलापहारादप्राप्तबाध एषोऽभिधीयते ।
अथ तस्य प्रपञ्चोऽयं विदितो लोकवेदयोः ॥
न्यायनि॒रुक्तिवादः 481
बाध्यतेऽनन्यथासिद्धेनान्यथासिद्धतास्पदम् ।
तथा निरवकाशेन सावकाशं विशेषतः ॥
नैमित्तिकेन नित्यं च क्रत्वर्थं पुरुषार्थतः ।
पूर्वं परेणातिदिष्टमुपदिष्टेन बाध्यते ॥
सफलं निष्फलेनापि ह्यदृष्टं चापि दृष्टतः ।
बाध्यते चाप्युपादेयमनुपादेयतावता ॥
श्रौतेन बाध्यते स्मार्तं प्रबलेनापि दुर्बलम् ।
प्रधानेनाङ्गभूतं च लाघवेनापि गौरवम् ॥
अपेक्षितविधानेन विधानमनपेक्षितम् ।
भूयसा चाल्पबाधस्स्यात् रूढ्या योगः प्रबाध्यते
एवमाद्यवगन्तव्यं नास्त्यन्तो विस्तरस्य हि ।
सिद्धानुगममात्रं तु कर्तुं युक्तं परीक्षकैः ॥
एवं दोषनिरुक्तीनां सरणिः स्यात्प्रदर्शिता ।
अथ न्यायनि॒रुक्तीनां सरणिश्च प्रदर्श्यते ॥
(98) न्यायनि॒रुक्तिवादः.
1 स्यादेकाङ्गानुवादेन ह्यङ्गयोश्चोद्यमानयोः ।
अन्तराले विधानं यत् स संदंश इतीर्यते ॥
धर्मविप्रतिषेधस्तु यदि स्यादङ्गमुख्ययोः ।
प्रधानानुग्रहो न्याय्यः सोमस्स्यात्तेन पर्वणि ॥
M.R. 61
परस्परापेक्षतायामुपक्रमनयान्वयः ।
परस्परानपेक्षत्वे त्वपच्छेदनयान्वयः ॥
भूयोऽनुग्रहनीतिस्तु संख्यावैषम्यगोचरा ।
विरोधाधिकृतिन्यायः प्राबल्यात्परबाधकः ॥
२ दृष्टार्थत्वे संभवति नादृष्टार्थत्वमिष्यते ।
प्रयाजशेषप्रक्षेपः प्रतिपत्तिरतो मता ॥
वाजिनेऽप्यनुनिष्पन्नप्रतिपत्तिरितीष्यते ।
अतोऽध्ययनमन्त्रादेः दृष्टार्थत्वव्यवस्थितिः ॥
वचनेन विरोधे तु न हि न्यायः प्रवर्तते ।
घटं पटयितुं नेष्टेऽप्यागमानां सहस्रकम् ॥
आनर्थक्यप्रतिहतौ विपरीतं बलाबलम् ।
रूपे श्रुतेऽपि दध्नेतिवाक्यं गुणविधिर्मतः ॥
दुर्बलस्य प्रमाणस्य बलवानाश्रयो यदा ।
तदापि विपरीतत्वं शिष्टाकोपे यथोदितम् ॥
अत्यन्तबलवन्तोऽपि पौरजानपदा जनाः।
दुर्बलैरपि बाध्यन्ते प्रबलैः पार्थिवाश्रितैः ॥
स्वरूपतः प्रकरणे स्थानाच्च बलवत्यपि ।
पूषानुमन्त्रणे लिङ्गसमाश्रितसमाख्यया ॥
बाध्यते हि प्रकरणमुपजीव्यविरोधतः ।
कल्प्योपकारापूर्वाङ्गात्प्राक्प्राकृतसमन्वयः ॥
न्यायनिरुक्तिवादः 48
फलं तस्य च संबन्धः कल्प्यौ विश्वजिति क्रतौ ।
रात्रिसत्रेष्वर्थवादफलसंबन्धकल्पना ॥
प्रसक्तस्य प्रतिषेधे तदन्यत्राप्रसङ्गतः ।
संप्रत्ययश्शिष्यमाणे परिशेष इतीर्यते ॥
३ सामान्यविधिरस्पष्टस्संह्रियेत विशेषतः ।
स्पष्टस्य तु विशेषेण नोपसंहार इष्यते ॥
शब्दोपात्तविशेषेऽर्थे संकोचश्चेदसौ नयः ।
शब्दोपात्तविशेषान्यविषये यदि विश्रमः ॥
गोबलीवर्दनीतिस्स्यात् वैयर्थ्यविनिवृत्तये ।
तथैवोत्सर्गापवादः विरोधविनिवृत्तये ॥
तद्धितेन चतुर्थ्या वा मन्त्रलिङ्गेन वा पुनः ।
देवतासङ्गतिस्तत्र दुर्बलं तु परंपरम् ॥
इष्टा शीघ्रप्रवृत्तित्वायोगाद्रूढिर्बलीयसी ।
अश्वकर्णादिशब्देषु विपरीतं बलाबलम् ॥
पदान्तरं प्रयुक्तं चेद्यौगिकार्थविशेषकम् ।
रूढिशक्तेर्भञ्जकं स्याद्यथा चाग्रसरोरुहम् ॥
सर्वत्र यौगिकैश्शब्दैर्द्रव्यमेवाभिधीयते ।
न हि संबन्धवाचित्वं संभवत्यतिगौरवात् ॥
सर्वाण्येव हि शास्त्राणि स्वप्रदेशान्तरैस्सह ।
एकवाक्यतया युक्तमुपदेशं प्रतन्वते ॥
उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥
4 यो नाम वेदतात्पर्यनिर्णयाय विरच्यते ।
न्यायाख्यस्सोऽधिकरणमिति व्यवहृतं बुधैः ॥
विषयो विशयश्चैव विचारो निर्णयस्तथा ।
प्रयोजनं च पञ्चाङ्गं प्राञ्चोऽधिकरणं विदुः ॥
सङ्गतिर्विषयश्चैव संशयोत्थानकारणम् ।
संशयस्य प्रकारश्च तदर्था च विचिन्तना ॥
तस्यां फलफलित्वं च न्यायौ द्वौ पूर्वपक्षयोः ।
निर्णयस्तत्फलं चेति दशाङ्गानीतरे विदुः ॥
वाक्यस्य विषयत्वं तु यत्कोट्योस्संशयीययोः ।
उपस्थापकशब्दाभ्यां घटितं सत् तथैवच ॥
सन्न्यायाधीनतात्पर्यनिर्णयादेककोटिकाम् ।
प्रमिति जनयेत् वाक्यं तत्त्वमित्यवधार्यते ॥
न्यायत्वं च निरुक्ताङ्गपञ्चकाद्यवबोधकम् ।
वाक्यजातं यथा न्यायवाक्यं शास्त्रान्तरे मतम् ॥
अनन्तराभिधाने या जिज्ञासा स्यात्प्रयोजिका ।
तद्धेतुज्ञानविषयसम्बन्धः सङ्गतिर्मता ॥
तां प्रसङ्ग उपोद्घातः हेतुताऽवसरस्तथा ।
निर्वाहकैक्यं कार्यैक्यमिति षोढा विदुः परे ॥
न्यायनिरुक्तिवादः ४८
अपवाद उपोद्घातः प्रसङ्गः प्रत्युदाहृतिः ।
दृष्टान्ताक्षेपातिदेशा इति मीमांसका विदुः ॥
पूर्वाधिकृतिसिद्धान्तन्यायं यत्रावलम्बते ।
उत्तराधिक्रियापूर्वपक्षस्तत्रापवादिकी ॥
उपोद्घातः प्रस्तुतार्थस्योपपादकता मतः ।
चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं विदुर्बुधाः ॥
उपोद्घातस्य चिन्तेयं यस्मान्निर्वाहिका स्थिता ।
तस्मात्तादर्थ्यताश्चिन्तैवोपोद्घात इतीर्यते ॥
स्मृतस्योक्तार्थसंबन्धादुपेक्षाया अनर्हता ।
प्रसङ्ग इति यत्प्राहुर्यस्मात्सैव हि सङ्गतिः ॥
तस्मादुपोद्घातमुखसङ्गतिभ्यः पृथक्कृतः ।
या सङ्गतिस्स प्रसङ्ग इति निष्कृष्टलक्षणम् ॥
पूर्वाधिकृतिसिद्धान्तन्यायस्याविषयीक्रियाम् ।
आलम्ब्य पूर्वपक्षस्योत्थाने स्यात्प्रत्युदाहृतिः ॥
पूर्वाधिकृतिसिद्धान्तन्यायसाधर्म्यसंश्रयात् ।
उत्तराधिक्रियापूर्वपक्षे दृष्टान्तसङ्गतिः ॥
पूर्वाधिकृतिसिद्धान्तन्यायस्यानुपपन्नताम् ।
शङ्कित्वा पूर्वपक्षस्योत्थाने त्वाक्षेपसंगतिः ॥
कृत्वा यत्राधिकाशङ्कां पूर्वमेवातिदिश्यते ।
संगतिः कथिता सद्भिः काचित्तत्रातिदेशिकी ॥
इत्थं संगतयस्सप्त मीमांसाशास्त्रसम्मताः ।
तत्सामान्यं विशेषाश्च संग्रहेण निरूपिताः ॥
5 अथार्हतानां सिद्धान्ते प्रमाणनयवादिनाम् ।
नयस्वरूपं संक्षेपादिङ्मात्रमुपदर्श्यते ॥
श्रुतप्रमाणविषयविशिष्टैकांशगोचरः ।
अंशान्तरोदासीन्येन परामर्शो नयो मतः ॥
नयेनेतरसिद्धान्ताविरोधं प्रतिपेदिरे ।
इतरांशानिषेधे तु नयाभास उदाहृतः ॥
सकलो विकलश्चेति चादेशो द्विविधस्ततः ।
नायं वस्तु नचावस्तु वस्त्वंशः कथ्यते बुधैः ॥
नासमुद्रस्समुद्रो वा समुद्रांशो यथैव हि ।
तन्मात्रस्य समुद्रत्वे शेषांशस्यासमुद्रता ॥
काला त्मरूप संबन्धाः संसर्गोपक्रिये तथा ।
गुणिदेशा र्थ शब्दाश्चेत्यष्टौ कालादयो मताः ॥
कालादिभिरभेदेन युगपत्प्रतिपादकम् ।
वचस्स्यात्सकलादेशः तदन्यद्विकलात्मकम् ॥
सप्तभङ्गी सम्मतैव प्रमाणनयवाक्ययोः ।
विस्तरस्त्ववगन्तव्यः प्रमाणनयलोकने ॥
(99) वाक्यार्थवादः.
1 अथ वाक्यार्थवादोऽयमेष संगृह्यते तथा ।
यदर्थस्सकलश्शब्दः यतो यात्राऽपि लौकिकी
वाक्यार्थवादः 487
जगत्यामिह याकाचित्प्रवृत्तिः परिदृश्यते ।
व्यापारोऽसौ क्रियारूपः सहि धात्वर्थलक्षणः ॥
क्रियैवोत्पादना भावो भावनेति च पठ्यते ।
चलनात्मा परिस्पन्दः गतिः कर्मेत्यपीर्यते ॥
व्यापारस्स तु वस्तूनां स्वभावादेव जायते ।
रजोगुणस्वभावोऽसौ क्षीरस्येवेति कापिलः ॥
तथात्वे कालदेशादिनियमानुपपत्तितः ।
स्वतन्त्रचेतनेच्छादिमूलस्स्यादिति वैदिकः ॥
अन्यथा सकलं शास्त्रं भवेदत्तजलाञ्जलि ।
विधानप्रतिषेधार्थं लौकिकं चाप्यनर्थकम् ॥
चेतनस्य स्वतन्त्रस्य ज्ञानेच्छादिनिबन्धनः ।
अस्ति ह्याभ्यन्तरः कश्चित्प्रयत्नः कृतिलक्षणः ॥
चेष्टादिलक्षणस्तेन बाह्यो व्यापार इष्यते ।
सर्वा प्रवृत्तिस्तन्मूलेत्येतदध्यक्षसुस्थितम् ॥
बुद्धिजन्या भवेदिच्छा हीच्छाजन्या भवेत्कृतिः ।
कृतिजन्या भवेच्चेष्टा चेष्टाजन्या भवेत्क्रिया ॥
2 रजोगुणस्वभावेन चेत्प्रवृत्तिर्भविष्यति ।
स्तनंधयप्रवृत्तिश्चाप्येवमायाऽऽपतिष्यति ॥
ततश्च वीतरागादिजन्मादर्शनलक्षणम् ।
श्रान्तं जन्मान्तरे लिङ्गं अश्रान्तो बाह्यडिण्डिमः ॥
488 मानमेयरहस्यश्लोकवार्तिके
पूर्वाभ्यासेन लोके स्युः हर्षशोकभयादयः ।
जातमात्रस्य ते दृष्टाः पूर्वाभ्यासनिबन्धनाः ॥
पद्मादिषु प्रबोधाद्याः विकारा भूतसंश्रयाः ।
शीतोष्णवर्षाकालादिनिमित्ता इति निश्चिताः ॥
अयस्कान्ताभिगमनमयसो यत्प्रदृश्यते ।
अन्यत्र वृत्त्यभावेन तत्स्वभावादिति स्थितम् ॥
प्रवृत्तिस्तार्किकैस्तस्माद्दोषादेवेति सूत्रितम् ।
तथैव लोकानुभवोऽप्यनुकूलोऽवकल्पते ॥
तत्र प्रवर्तकं ज्ञानं वैदिकं वाऽथ लौकिकम् ।
कीदृशं त्विति जिज्ञासा सामान्येन प्रवर्तते ॥
स्वतन्त्रा परतन्त्रेति प्रवृत्तिर्द्विविधा मता ।
आद्या भवतु रागेण विधिनैव त्वनन्तरा ॥
वैधविज्ञानवैमत्यात् विध्यर्थोऽपि विभिद्यते ।
ततो वाक्यार्थविमतिः सर्वे संगृह्यतेऽत्र तत् ॥
फलार्था हि क्रिया लोके पुरुषार्थं फलं मतम् ।
पुरुषश्च क्रियार्थस्स्यात् इत्येवं बद्धशृङ्खले ॥
चक्रेऽत्र कस्य प्राधान्यं कस्य वाक्यार्थतेतिच ।
प्रवर्तकं किमत्रस्यात् इति संशेरते बुधाः ॥
3 लिङ्गादिशब्द एवेति जरन्मीमांसका विदुः ।
तद्व्यापारात्मिका शब्दभावनेति कुमारिलाः ॥