सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

तत्र पुंयत्नानंघृत्वमास्त यद्यपि यः पुनः ।
उच्चारणे स्वातन्त्र्यस्याभावस्साऽपौरुषेयता ॥
5 वेदतः पौरुषेयत्वशङ्का वेदेन शाम्यति ।
हेत्वन्तरसमुद्भूता हेत्वन्तरनिवारिता ॥
युगान्तेऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः ।
लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा ॥
धर्ममूलं वेदमाहुः ग्रन्थराशिमकृत्रिमम् ।
तद्विदां स्मृतिशीले च साध्वाचारं मनःप्रियम् ॥
यावत्प्रभावाः श्रूयन्ते ऋष्याद्या वेदराशिषु ।
तादृशा एव सृज्यन्ते वेदान् दृष्ट्वा स्वयंभुवा ॥
अनधीत्यैव वेदानाभाविर्भावयितृत्वतः ।
तपसा प्राप्य संस्कारात्तत्सूक्तत्वादिसंभवः ॥
तपःप्रभावान्मन्त्राणां ऋषिदर्शनसंस्कृतेः ।
शक्तिराधीयते काचित् यथाऽस्माकमधीतितः ॥
अर्थावबोधकत्वं तु शब्दशक्त्याऽन्यशब्दवत् ।
ऋषिदर्शनतोऽधीतेरपि शक्त्यन्तरोद्भवः ॥
अपूर्वकार्यनिष्पत्तावुपकुर्यादिदं ततः ।
काठकादिसमाख्याया निमित्तं चेदमेववा ॥
प्रकृष्टं वा प्रवचनं तत्सिद्धा वेदनित्यता ।
मन्त्रब्राह्मणयोर्वेदनामधेयं च विश्रुतम् ॥
M.R. 57

450 मानमेयरहस्यश्लोकवार्तिके
6 हितानुशासनं वाक्यं विधिरत्र विवक्षितः ।
लिङ्वाच्योऽपूर्व इत्यत्र ख्यातो व्युत्पत्त्यसंभवः ।
विमर्शात्सिद्धिरितिचेत् विमर्शः स्मृतिरेव हि ।
अस्तु वा कार्य एवादौ व्युत्पत्तिः व्यवहारतः ॥
अन्वयव्यतिरेकाभ्यां शब्दशक्तिर्विविच्यते ।
प्रयुज्यन्ते सिद्धपराः वक्तृभिर्हि कथा यथा ॥
प्रतिष्ठा देशभेदश्च छागादिर्वा घृताञ्जनम् ।
यातनासाधनत्वं च गृह्यते विध्यपेक्षितम् ॥
प्रतीता देवताप्रीतिः अपूर्वमुपकल्प्यताम् ।
लिङो वाच्यतया द्वारं स्वरूपाद्वा किमन्यतः ॥
विग्रहो हविरादानं युगपत्कर्मसन्निधिः ।
प्रीतिः फलप्रदानं च देवतानां न विद्यते ॥
इति वादो भवेदर्थचार्वाकमतिमूलकः ।
अनचिद्देवतापक्षे शाब्दमार्गक्रमस्त्वयम् ॥
किमर्थं किं केन कथं वेति स्याद्धि चतुर्विधा ।
आकाङ्क्षा तत्रचाद्यायाः पूर्तिस्स्वर्गादिना मता।
देवतां प्रीणयेदित्येतया शाम्यत्यनन्तरा ।
ज्योतिष्टोमेनेति नामधेयात्केनेति शाम्यति ॥
कथमित्यस्य शान्तिस्तु समानैवोभयोरपि ।
विशेषतश्च पुरुषः चोदनाशब्दसूचितः ॥

वेदवैलक्षण्यवादः 451

श्रुतिस्स्मृतिर्ममैवाज्ञा यस्तामुल्लङ्घ्य वर्तते ।
आज्ञाच्छेदी मम द्रोहीत्येवं भगवतोदितम् ॥
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः॥
7 श्रुतिमूलतयैवैताः स्मृतयो यान्ति मानताम् ।
श्रुत्यैव निर्णये किंवा स्मृतिभिश्चेति चेन्न तत् ॥
दुर्बोधा वैदिकाश्शब्दाः प्रकीर्णत्वाच्च ये खिलाः ।
तज्ज्ञैस्त एव स्पष्टार्थाः स्मृतितन्त्रे प्रतिष्ठिताः॥
इति प्राह मरीच्याख्यः देवलस्य वचः पुनः ।
सत्यप्यस्मिन् धर्मशास्त्रे गृह्यापेक्षां प्रदर्शयेत् ॥
मन्वादयः प्रयोक्तारो धर्मशास्त्रस्य कीर्तिताः ।
तत्प्रयुक्तप्रयोक्तारः गृह्यकारास्तु मन्त्रतः ॥
वेदा अनन्तास्संकीर्णाः विकीर्णाश्च क्वचित्तथा ।
उत्सन्नाश्च कदाचित्स्युः मन्वाद्याः कृत्स्नवेदिनः ॥
8 श्रुतिस्मृतिविरोधे तु विकल्पं केचिदूचिरे ।
भ्रमसंभवतः श्रुत्या स्मृतिबाधं परे विदुः ॥
विरोधे तत्त्वविषये बाध एव विवक्षितः ।
विकल्पासंभवाद्वस्तुष्विति विद्वद्विनिश्चितः ॥

452 मानमेयरहस्यश्लोकवार्तिके

स्मृतिद्वयविरोधे तु व्यवस्था स्यात्परिग्रहात् ।
मन्वादीनां स्मृतिष्वेव केचिच्छ्लोका अपस्मृतिः ।
इति शाबरसिद्धान्तः कुमारिलमतं त्विदम् ।
बुद्धागमः पाञ्चरात्रागमाद्यास्स्युरपस्मृतिः ॥
इति विज्ञायते तत्र प्रत्युक्तिरियमुच्यते ।
नच क्वचित् स्मृतेर्बाधे सर्वानार्श्वाससंभवः ॥
बाधकादर्शनाद्धेतुदोषक्लृप्तेरयोगतः ।
परिग्रहविशेषेण श्रुतिमूलत्वकल्पनात् ॥
विस्रम्भहेतुस्संवादः क्वचिद्वाह्यागमेऽस्त्यपि ।
भूयश्श्रुतिविरोधेन वैदिकैरपरिग्रहः ॥
9 पाञ्चरात्रागमस्त्वेकायनवेदान्तमूलकः ।
श्रुतिमूलमिदं तन्त्रं प्रमाणं कल्पसूत्रवत् ॥
वेदत्वं नात्र संदिग्धं यं वाकेष्विति च स्मृतेः ।
ऋग्वेदपाठे पठितं व्रतमेतत्सुदुश्चरम् ॥
इति सेश्वरमीमांसासंप्रदायस्य संग्रहः ।
असौ नातीव विच्छिन्नोऽनूद्यते च परैरपि ॥
इत्थं हि शतदूषण्यां तृतीये भङ्गे ईर्यते ।
सोऽनुवादो दैवविदः इति माण्डूक्यकारिका ॥
भवेद्वाऽप्यथवाऽन्यद्वा विपश्चिद्भिः विमृश्यताम् ।
विचारस्यावश्यकत्वं न्यायशुद्धौ समर्थितम् ॥

10 ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः ।
पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥
इत्येतत्कोशसंत्यागाभिप्रायं नार्थगोचरम् ।
निष्पन्नयोगपुरुषविषयं वा विदुर्बुधाः ॥
शास्त्रज्ञानं बहुक्लेशं बुद्धेश्चलनकारणम् ।
उपदेशाद्धरिं बुध्वा विरमेत्सर्वकर्मसु ॥
इत्येतत्तीव्रसंयोगवतामेवाविपश्चिताम् ।
अलसानामास्तिकानां विस्रम्भायेति निर्णयः ॥
(92) शास्त्रवादः
1 चोदना चोपदेशश्च विध्युद्देशो विधिस्तथा ।
नियोगो वेद आदेशः शास्त्रं चैकार्थवाचिनः ॥
प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा ।
पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते ॥
शासनाच्छंसनाच्चैव शास्त्रमित्यभिधीयते ।
पुराणे इतिच प्राह श्रीपराशरमाधवः ॥
2 सूत्रं तु त्रिविधं प्रायः पूर्वाचार्यैर्निरूपितम् ।
उपदेशात्मकं त्वाद्यं व्याख्यानं तदनन्तरम् ॥
उपपादनशास्त्रं स्यात्तृतीयं न्यायपूर्वकम् ।
अथ शब्दानुशासनमथ योगानुशासनम् ॥

454 मानमेयरहस्यश्लोकवार्तिके
इत्याद्यारम्भकं शास्त्रमुपदेशात्मकं मतम् ।
धर्मं व्याख्यास्याम इति तथाऽथो यज्ञमित्यपि ।
तथाऽथातो दर्शपूर्णमासावित्यादि यत्पुनः ।
एवमाद्यारम्भशास्त्रं भवेद्व्याख्यानलक्षणम् ॥
अथातो धर्मजिज्ञासाऽथातो ब्रह्मेतिपूर्वकम् ।
जिज्ञासाघटितं शास्त्रं न्यायशास्त्रं प्रचक्षते ॥
यथोपदेशं च तथा यथामूलं यथामति ।
बोद्धव्यमिति भेदेन शास्त्रभेदः प्रवर्तते ॥
3 पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥
याज्ञवल्क्यस्मृतिस्त्वित्थं, तथैव ह्याश्वमेधिके ।
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ॥
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ।
इतिच श्रूयते, तत्राप्यधिकं राणके यथा ॥
आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः ।
अर्थशास्त्रं तुरीयं स्यात् विद्या ह्यष्टादश स्मृताः ।
4 विभजन्ते त्रिधा केचित् मन्त्रब्राह्मणमादिमम् ।
इतिहासपुराणं च द्वितीयं परिकीर्तितम् ॥
धर्मशास्त्रं तृतीयं स्याद्विषयाणां व्यवस्थया ।
यज्ञो मन्त्रब्राह्मणस्य विषयस्सर्वसम्मतः ॥

शास्त्रवादः 455
इतिहासपुराणस्य लोकवृत्तं हि गोचरः ।
धर्मशास्त्रे पुनर्लोकव्यवहारव्यवस्थितिः ॥
अपवर्गपरीक्षायामैकाश्रम्यस्य खण्डने ।
गौतमीयन्याभाष्ये एवं वात्स्यायनोऽब्रवीत् ॥
धर्मशास्त्रं तु सकलं पूर्वभागोपबृंहणम् ।
पुराणं चोपनिषदामिति केचिद्विविश्चते ॥
पुराणं धर्मशास्त्रं च सर्वं सर्वोपबृंहणम् ।
तत्स्मृत्यनवकाशेति बादरायणनिर्णयः ॥
5 आन्वीक्षकी त्रयी वार्ता दण्डनीतिश्च शाश्वती ।
विद्याश्चतस्र एवैता लोकसंस्थितिहेतवः ॥
आन्वीक्षकीत्यात्मविद्या धर्माधर्मौ त्रयीस्थितौ ।
अर्थानर्थौ च वार्तायां दण्डनीतौ नयानयौ ॥
इति कामन्दकी प्राहाथात्मविद्या विचार्यते ।
प्रदीपस्सर्वविद्यानामुपायस्सर्वकर्मणाम् ॥
आश्रयस्सर्वधर्माणां विद्योद्देशे प्रकीर्तिता ।
इत्युक्त्याऽऽन्वीक्षकी विद्यैवात्मविद्येति तन्मतम् ॥
एतमर्थं मनुरपि सप्तमे प्राह तद्यथा ।
त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् ॥
आन्वीक्षकीं चात्मविद्यां वार्तारम्भांश्च लोकतः ।
सत्यप्येवं मनोर्व्याख्याकाराणां हृदये पुनः ॥

456 मानमेयरहस्यश्लोकवार्तिके
आन्वीक्षिक्या विभेदेन त्वात्माविद्या प्रतीयते ।
विस्तरस्यानवसराद्विमृशन्तु बुधास्त्विदम् ॥
6 अस्त्यत्र कश्चिद्विशेषः विद्याधीरोदितो यथा ।
विद्यास्थानेषु धर्म्येषु गणितो न्यायविस्तरः ॥
स चाक्षपाद एवेति नियन्तुं नैव शक्यते ।
नच सर्वं सूत्रबद्धं विद्यास्थानमितीष्यते ॥
नचैक एव ह्येकस्य विद्यास्थानस्य सूत्रकृत् ।
नचास्ति राज्ञामाज्ञाऽत्र सूत्रकृदृषिरित्यपि ॥
सूत्रकृद्यदि सर्वज्ञः ऋषिसकल इष्यते ।
वार्तिकादेरनारम्भप्रसङ्गो दुर्निवारणः ॥
धर्मं व्याख्यातुकामस्य षट्पदार्थोपवर्णनम् ।
सागरं गन्तुकामस्य हिमवद्भ्रमनोपमम् ॥
कणान्वा भक्षयेत्कामं माहिषाणि दधीनि वा ।
युक्तियुक्तं तु गृह्णीमः नतु तद्वाक्यगौरवात् ॥
स्मृतिसूत्रप्रवाहोऽयमनादिर्धर्ममण्डले ।
यथालोकं यथावेदं लौकिके वैदिकेऽपि वा ॥
यो वक्ता स परिग्राह्यः प्राक्तनोऽद्यतनोऽपिवा ।
तदर्वाग्भिः तथाऽऽचार्यैः प्रमाणादिविचारणा ॥
प्रणिन्ये बहुधां तैस्तैः यथेष्टं मतमास्थितैः ।
इत्यादिः विस्तरो न्यायपरिशुद्धावुदीक्ष्यताम् ॥

7 उक्तानुक्तदिरुक्तादिचिन्ता यत्र प्रवर्तते ।
ग्रन्थं तं वार्तिकं प्राहुर्वार्तिकज्ञा मनीषिणः ॥
शास्त्रैकदेशसंबद्धं शास्त्रकार्यान्तरे स्थितम् ।
आहुः प्रकरणं नाम ग्रन्थभेदं विपश्चितः ॥
एवं च सूत्रभाष्यादिग्रन्थानां लक्षणं पुनः ।
सर्वत्र विदितं तस्माद्दिङ्मात्रमिह सूचितम् ॥
संसारमोचकाः शाक्यभिक्षुनिर्ग्रन्थकादयः ।
सम्मता आगमाभासा इति वैदिकनिर्णयः ॥
(93) मीमांसावादः.
1 धर्मे प्रमीयमाणे तु वेदेन करणात्मना ।
इतिकर्तव्यताभागं मीमांसा पूरयिष्यति ॥
मीमांसाशास्त्रसारार्थसंग्रहोऽतो विलिख्यते ।
दृश्यन्ते विबुधाः प्रायः हंसभ्रमरवृत्तयः ॥
मान्बधेत्यादिसूत्रेण जिज्ञासार्थे विवक्षिते ।
मानेस्सनि विचारोऽर्थः मीमांसापदबोधितः ॥
सच लाघवतर्काख्यः वेदवाक्यार्थगोचरः ।
परीक्षाशास्त्रमेवैतन्नानुशासनलक्षणम् ॥
तृतीयसूत्रे स्पष्टार्थपरीष्टिपदयोगतः ।
जिज्ञासापदसत्त्वार्थः व्याख्यात इति गम्यताम् ।

458 मानमेयरहस्यश्लोकवार्तिके
न्यायवार्तिकतात्पर्यटीकावाक्यं निशम्यताम् ।
मीमांसासंज्ञकस्तर्कस्सर्वो वेदसमुद्भवः ॥
सोऽतो वेदः रुमाप्राप्तकाष्ठादिलवणात्मवत् ।
यः पूजितविचारोऽसौ मीमांसाशब्दितस्त्विति ॥
कालादनादेर्मीमांसा प्रवृत्ता लोकतः पृथक् ।
संजग्राह पुनः न्यायान् तादृशान् जैमिनिर्मुनिः ॥
नह्येकस्तूपसंहर्तुंमियतो न्यायसंचयान् ।
समर्थः पुरुषो लोक इत्युक्तं तन्त्रवार्तिके ॥
विचारात्पूर्वमेवात्र प्राप्तमध्ययनं विधेः ।
अतोऽनधीतवेदस्य विचारश्शास्त्रवारितः ॥
2 स्वाध्यायविधिवाक्यार्थः प्रथमं प्रविभज्यते ।
प्रवृत्तं शास्त्रमेतद्धि तादृग्विधिनिबन्धनम् ॥
तदर्थपूर्वपक्षांशसिद्धान्तांशप्रकाशकम् ।
कारिकायुगलं ह्येतत्प्राच्यैर्विलिखितं बुधैः ॥
विनाऽपि विधिना दृष्टलाभान्न हि तदर्थता ।
कल्प्यस्तु विधिसामर्थ्यात् स्वर्गो विश्वजिदादिवत्
लभ्यमाने फले दृष्टे नादृष्टफलकल्पना ।
विधेस्तु नियमार्थत्वान्नानर्थक्यं भविष्यति ॥
तत्रार्थकर्माध्ययनं सम्मतं सक्तुहोमवत् ।
भवेदध्यापनविधिप्रयुक्तं च स्वरूपतः ॥

४. मेय-भाग: परापर सामान्य, शक्ति, सादृश्य, संख्या व मोक्ष-मीमांसा उपसंहार

मीमांसावादः 4

विधेयं चोपनयनमङ्गमध्यापनस्य च ।
प्रभाकरस्याभिमतमेतदर्थचतुष्टयम् ॥
गुणकर्मत्वध्ययनमवघातादिवन्मतम् ।
नियमोऽत्र विधेयस्स्यात्प्रयुक्तं स्वविधेर्बलात् ॥
स्वस्योपनयनं चाङ्गमेवमर्थचतुष्टयम् ।
कुमारिलस्याभिमतं ज्ञानान्तत्वं समं द्वयोः ॥
तत्रौपनिषदानां तु मतं स्याद्भाट्टसम्मतम् ।
विशेषस्स्यादुभयतो ह्यक्षरग्रहणान्तता ॥
अलौकिकं चाहवनीयादिवद्गुरवो विदुः ।
आचार्यकं भट्टपादा लौकिकं तद्विजानते ॥
गुरोराचारमाश्रित्य वर्तन्तेऽन्तेनिवासिनः ।
यान्यस्माकमिति श्रुत्या तदेतदभिधीयते ॥
अध्यापयेदिति विधिप्रयुक्तेऽध्ययनक्रमे ।
अष्टवर्षादिनिर्देशात स्पष्टा शूद्रानधिक्रिया ॥
नियमस्य विधेयत्वेऽप्यधिकारो नियम्यते ।
उपनीतो हि विद्यार्थी विद्या हि पुमपेक्षिणी ॥
अन्यथाऽनुपपन्नो हि विधिस्यादग्निविद्ययोः ।
कल्पकः, क्लृप्तनिर्वाहे कल्पना गौरवाऽऽहता ॥
३ चोदनालक्षणः कार्यं धर्मो वेदार्थ इत्यतः ।
वेदार्थः कार्यरूपस्स्यादिति व्याख्या गुरोर्मता

60 मानमेयरहस्यश्लोकवार्तिके
प्रमाणं च स्वरूपं च धर्मस्यादौ निरूप्यते ।
श्रुत्यर्थाभ्यामिति व्याख्या भट्टपादस्य सम्मता ॥
मानाधीना मेयसिद्धिर्मानासिद्धिश्च लक्षणात् ।
तल्लक्षणप्रमाणाभ्यां वस्तुसिद्धिरितीर्यते ॥
द्रव्यक्रियागुणादीनां धर्मत्वं स्थापयिष्यते ।
तेषामैन्द्रियकत्वेऽपि न ताद्रूप्येण धर्मता ॥
अतएवातिदेशेऽपि विवादोऽस्त्यर्थकार्ययोः ।
तस्य तत्त्वं चातिदेशपारायणनिरूपितम् ॥
अन्यत्र ह्यन्यदीयस्य देशोऽतीदेश उच्यते ।
अन्यस्मिन्नन्यताऽभावादित्यप्येष निरूपितः ॥
शास्त्रेऽस्मिन् लक्षणपदं प्रमाणाध्याययोर्मतम् ।
चोदनालक्षणः शेषलक्षणं चेति दर्शनात् ॥
किमाद्यपेक्षितैः पूर्णस्समर्थः प्रत्ययो विधौ ।
तेन प्रवर्तकं वाक्यं ग्रन्थेऽस्मिन् चोदनोच्यते ॥
चोदना चोपदेशश्च विध्युद्देशो विधिस्तथा ।
नियोगो वेद आदेशः शास्त्रं चैकार्थवाचिनः ॥
प्रवर्तेऽहमिति ज्ञानं येन शब्देन जन्यते ।
स चोदनोच्यते यद्वा प्रवर्तनफला मतिः ॥
यश्चोदनालक्षणस्स्यात्स धर्म इति योजना ।
धर्मस्वरूपतात्पर्यवचनव्यक्तिलक्षणा ॥

स चोदनालक्षणः स्याद्यो धर्म इति योजना।
धर्मप्रमाणतात्पर्यवचनव्यक्तिरुच्यते ॥
तादृग्लक्षण एव स्याद्धर्म इत्थंविवक्षया।
निराकरणमिष्टं स्याद्वेदाप्रामाण्यवादिनाम् ॥
धर्मे तु चोदनैव स्याल्लक्षणं त्वितिकल्पनात् ।
मानान्तरस्य व्यावृत्तिस्तथा बुद्धागमस्य च ॥
चोदनालक्षणो ह्यर्थो धर्म एवेति योजना ।
वेदार्थस्य विचारेऽस्मिन् शास्त्रे धर्मं प्रसञ्जयेत् ।
4 इत्थं ह्युपोद्घातवादः वृत्तो मुख्यार्थसंग्रहात् ।
वर्तिष्यते तर्कपादवादोद्देशार्थसंग्रहः ॥
नित्ये शब्दार्थसंबन्धे तत्प्रामाण्यव्यवस्थितिः ।
इति शब्दार्थसंबन्धवादे नित्यत्वसाधनम् ॥
भवेद्बुद्धस्मृतिरपि प्रमाणमिति शङ्कया ।
बाधिता स्मृतिमात्रस्य स्मृतिवादे प्रमाणता ॥
सर्वज्ञवादे सार्वज्ञ्यं न कस्यापीति साध्यते ।
धर्मे बुद्धादियोगीन्द्रप्रत्यक्षत्वनिवृत्तये ॥
स्वतः प्रामाण्यवादोऽपि वेदप्रामाण्यसिद्धये ।
प्रामाण्यं कारणगुणसंवादार्थक्रियादिभिः ॥
अनपोदितमेवार्थतथात्वं विषयाश्रितम् ।
तत्स्वतो गृह्यत इति विषयीकरणं हि तत् ॥

462 मानमेयरहस्यश्लोकवार्तिके
अर्थान्यथात्वमितरत् परतस्तद्धि गृह्यते ।
हेतुदोषादिसंवादबाधकप्रत्ययादितः ॥
निरालम्बनवादो यश्शून्यवादस्य चाङ्कुरः ।
निराकृतो यतो ह्यर्थसद्भावे धर्मचिन्तना ॥
पदस्याथ पदार्थस्य वाक्यवाक्यार्थयोरपि ।
सत्यत्वे धर्मचिन्ताऽतः स्फोटवादो निराकृतः ॥
जातेराकृतिवादे तु पदार्थत्वव्यवस्थितौ ।
अनित्यव्यक्तिसङ्गत्या नाप्रामाण्यप्रसञ्जनम् ॥
अपोहरूपा जातिश्चेत्सा भवेत्तुच्छलक्षणा ।
अतो निराकृतोऽपोहवादो वस्तुत्वसिद्धये ॥
प्रपञ्चः परमाणूनां पुञ्जश्चेत्स्यादतीन्द्रियः ।
सङ्गतिग्रहणासिद्ध्या वनवादो निराकृतः ॥
वेदाप्रामाण्यशङ्का स्यात्संकेतस्सङ्गतिर्यदि ।
तन्निरीश्वरवादोऽतः संबन्धाक्षेपदूषणे ॥
अपरोक्षविरुद्धेति शङ्का चित्रादिचोदना ।
चित्राक्षेपपरीहारे यथावद्विनिवारिता ॥
यज्ञायुध्यादिवत्स्वर्गगमनं त्वसमञ्जसम् ।
इतिशङ्काव्यवच्छित्यै चात्मवादोऽवतारितः ॥
स्याद्यदा क्षणिकश्शब्दः न शक्तोऽर्थावधारणे ।
निर्मूला वेदधीस्तस्मादुदिता वेदनित्यता ॥

मीमांसावादः 463
धर्मसंस्थापनायैव भावनार्थव्यवस्थया ।
प्रतिभावाक्यवाक्यार्थवादाद्या विनिवारिताः ॥
वेदस्यापौरुषेयत्वं स्थापयित्वा परिष्कृता ।
चोदनालक्षणो धर्म इति सिद्धान्तपद्धतिः ॥
5 वृत्तिकारमतं चापि भाष्ये बहुलमुज्झितम् ।
भाष्यकारमतं चापि वार्तिके प्रायशस्तथा ॥
दूषितं चापि बहुशः प्रभाकरगुरोर्मतम् ।
भट्टपादस्य सिद्धान्ताः राणकेऽपि प्रदूषिताः ॥
राणके मातुलसुतापरिणीत्यादिसाधनम् ।
शास्त्रदीपप्रकाशे तु शङ्करेण प्रदूषितम् ॥
सोमेश्वरो ह्यन्यथयत् यद्वार्तिककृतां मतम् ।
तदुद्धूष्य पुनः सोऽहं प्रकृतिं स्वामथानयम् ॥
इतिबालप्रकाशोक्तिश्शाङ्करी परिदृश्यते ।
तस्माद्युक्तिप्रधानेयं मीमांसेत्यवधार्यताम् ॥
युक्त्यैव ह्यागमस्यापि प्रामाण्यादि प्रसाध्यते ।
युक्तिशास्त्रं न्यायशास्त्रं मानशास्त्रमिदं स्थितम् ।
सर्वत्र सूत्रकर्त्तारस्सर्वज्ञाः ऋषयस्त्विति ।
न निर्बन्धो वार्तिकादेरनारम्भप्रसङ्गतः ॥
व्युत्पाद्यन्ते सहस्रं हि न्यायाश्शास्त्रे यथातथम् ।
तत्तन्न्यायावगृहीतोऽर्थः चोदनालक्षणो मतः ॥

464 मानमेयरहस्यश्लोकवार्तिके
इत्थं संक्षेपतस्तर्कपादवादार्थसंग्रहः ।
कृतोऽथाध्यायसारांशोद्धारः सम्यक् वितन्यते ॥
(94) अध्यायार्थसंग्रहः
1 धर्मधीर्मानभेदाङ्गप्रयुक्तिक्रमकर्तृभिः ।
सातिदेशविशेषोहबाधतन्त्रप्रसक्तिभिः ॥
अमानस्य निरूप्यत्वायोगात्प्राथम्ययोगिना ।
प्रमाणलक्षणेनात्राभावि द्वादशलक्षणे ॥
वेदार्थभेदाभावे स्यादङ्गत्वादिरयुक्तिमान् ।
शास्त्रार्थभेदचिन्ताऽथ शब्दभेदादिमानतः ॥
सिद्धे भेदे शेषशेषिभावबोधनलक्षणम् ।
श्रुतिलिङ्गादिमानेन प्रवृत्तं शेषलक्षणम् ॥
प्रावर्तिष्ठाथ जिज्ञासा शेषाणामेव शेषिभिः ।
प्रयोज्यत्वाय तुर्येऽस्मिन् क्रत्वर्थपुरुषार्थयोः ॥
प्रयुक्तेषु पदार्थेषु श्रुत्यर्थादिप्रमाणतः ।
अनुक्रान्तः पञ्चमे चाव्यवधानात्मकः क्रमः ॥
सक्रमे चापि शास्त्रार्थे स्थापितेऽथ निरूपितः ।
तत्प्रयोक्ता चोपदेशषट्केऽस्मिन् षष्ठलक्षणे ॥
2 अथोपदिष्टे प्रकृतिविचारे विकृतौ पुनः ।
सामान्यतोऽतिदेशोऽत्र सप्तमे स्थापयिष्यते ॥

विशेषतोऽतिदेशोऽथ प्रावर्तिष्टास्य कर्मणः ।
इदं प्रकृतिरित्यादिनिर्णयोऽष्टमलक्षणे ॥
सामसंस्कारमन्त्राणामूहः प्रकृतिगामिनाम् ।
विकृतावन्धथाकृत्वा संबन्धो नवमे मतः ॥
प्रत्याम्नान द्वारलोप पर्युदासनिषेधतः ।
विकृतौ प्राकृताङ्गानां निवृत्तिर्बाधलक्षणे ॥
तन्त्रं त्वनेकोद्देशेनानुष्ठानं सकृदिष्यते ।
अन्यार्थानुष्ठितेनान्यस्योपकारः प्रसञ्जनम् ॥
एकादशद्वादशयोः प्रमेयार्थाविमौ मतौ ।
कालसंख्यामन्त्ररूपनिमित्तफलकर्तृभिः ॥
सकृद्विशेषाग्रहणेऽनुष्ठानं तन्त्रमित्यपि ।
सप्तस्वेकविधेनापि विशेषग्रहणे सति ॥
सकृदेव ह्यनुष्ठानं प्रसङ्ग इति वोच्यते ।
एषोऽतिदेशषट्कार्थः प्रत्यध्यायं निरूपितः ॥
(95) वेदानिरुक्तिवादः
1 मन्त्रब्राह्मणयोर्वेदनामधेयमिति स्मृतम् ।
कर्तव्यार्थस्मारकत्वं मन्त्रलक्षणमुच्यते ॥
परप्रत्यायनार्थास्तु मन्त्रा निगदसंज्ञिताः ।
विधायकपदव्यूहः ब्राह्मणं परिकीर्त्यते ॥

466 मानमेयरहस्यश्लोकवार्तिके
हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः ।
परक्रिया पुराकल्पः व्यवधारणकल्पना ॥
उपमानं दशैते तु विधयो ब्राह्मणस्य हि ।
2 इति प्राचां विभागस्स्यादर्वाचामथचोच्यते ।
धर्मः प्रयोजनयुतो ह्यर्थस्स्याद्वेदबोधितः ।
सर्वस्यापिच वेदस्य धर्मे तात्पर्यमिष्यते ॥
विधिर्मन्त्रो नामधेयः निषेधश्च ततःपरः ।
अर्थवाद इति स्पष्टः वेदराशिर्हि पञ्चधा ॥
अज्ञातार्थज्ञापको यो वेदराशिर्विधिर्मतः ।
विध्यर्थवादमन्त्राश्च स्मृत्याचारौ च नाम च ॥
वाक्यशेषश्च सामर्थ्यं धर्ममानमितीरितम् ।
तत्र कर्मोत्पत्तिवाक्यं फलवाक्यं गुणश्रुतिः ॥
फलाय गुणवाक्यं च वाक्यं सगुणकर्मणः ।
फलवद्गुणवाक्यं चेत्येवं वाक्यं हि षड्विधम् ॥
आद्यो धात्वर्थमात्रस्य विधिरित्युच्यते बुधैः ।
अन्योद्देशेन धात्वर्थविधिस्तु स्यादनन्तरः ॥
तथा धात्वर्थमुद्दिश्य तृतीयोऽन्यविधिर्मतः ।
अन्योद्देशेनान्यविधिः चतुर्थ इति गीयते ॥
पञ्चमो गुणसंयुक्तधात्वर्थविधिरुच्यते ।
अन्योद्देशेन षष्ठस्स्याद्विशिष्टविधिरेवचेत् ॥

वेदनिरुक्तिवादः 46
एवं विधिप्रकारस्स्यात् षड्विधोऽर्थविभेदतः ।
उत्तरोत्तरतः पूर्वपूर्वं लघ्विति निर्णयः ॥
विधिश्चतुर्विध इति विभक्तः प्रायशो बुधैः ।
3 उत्पत्तेर्विनियोगस्य तत्प्रयोगाधिकारयोः ॥
कर्मस्वरूपमात्रस्य बोधको विधिरादिमः ।
कर्मस्वरूपनिष्ठा या त्वज्ञातज्ञाप्यतात्मिका ॥
विधेयता स्यात्तच्छालिबोधस्य जनको ह्यसौ ।
अङ्गप्रधानसंबन्धबोधकस्स्यादनन्तरः ॥
प्रयोगप्राशुभावस्य तृतीयो बोधको मतः ।
कर्मजन्यफलस्वाम्यबोधकोऽधिकृतेर्विधिः ॥
एवंविधविभागस्य निदानमवधार्यताम् ।
उत्पत्तिविधिराद्यो यः स द्वितीये विचार्यते ॥
विनियोगविधिस्त्वन्यः यस्तृतीये विचार्यते ।
चतुर्थे पञ्चमे चैव प्रयोगविधिचिन्तनम् ॥
अधिकारविधिस्त्वन्यः यष्षष्ठाध्यायगोचरः ।
एवं प्रमेयवैविध्याच्चातुर्विध्यं प्रकल्पितम् ॥
चतुष्टयेऽपि चैकस्मिन् क्वचित्किंचिद्विवक्षितम् ।
एवं द्वयं त्रयं वापि क्वचिच्चापि चतुष्टयम् ॥
प्रवर्तनालक्षणस्य विधेस्त्रेधा विधेयता ।
यागत्वरूपेणाद्या स्यादिष्टहेतुतयाऽपरा ॥

आकाङ्क्षाक्रमयोगेन त्रयस्ते क्रमयोगिनः ॥
शब्दान्तराभ्याससंख्यानामधेयगुणैस्सह ।
अन्यत्प्रकरणं चेति प्रमाणं कर्मभेदकम् ॥
कालो देशो निमित्तं च फलं संस्कार्यमेवच ।
सहकार्यनुपादेयपञ्चकं प्रक्रियान्तरे ॥
4 परोद्देशप्रवृत्तस्य नरस्य कृतिकारकम् ।
अङ्गं स्याद्द्रव्यजात्यादिसिद्धोऽप्यङ्गं ततो भवेत्
इतिकर्तव्यत्वता तु तादृक्पुंकृतिसाध्यता ।
सा द्विधा संनिपत्यारादुपकारकभेदतः ॥
विधीयमानव्रीह्यादिद्रव्याद्युद्दिश्य या क्रिया ।
तत्संनिपत्योपकारकाङ्गं सर्वार्थमेव तत् ॥
अथवाऽङ्गिस्वरूपस्य निष्पादकमितीर्यते ।
द्रव्याद्यनुद्दिश्य यत्स्यात्तदारादुपकारकम् ॥
अदृष्टार्थं फलापूर्वोत्पत्तावेवोपयुज्यते ।
अथवाोत्पत्त्यपूर्वीयशक्तिसंपादकं हि तत् ॥
5 कर्म द्विधा ह्यर्थकर्म गुणकर्मेति भेदतः ।
अर्थकर्म भवेदात्मगतापूर्वस्य कारणम् ॥
परं संस्कारजनकं तच्च द्विविधमिष्यते ।
यथोपयुक्तोपयोक्ष्यमाणसंस्कारभेदतः ॥