मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 515, कुल 672 में से
संदर्भ में पढ़ें10 प्रयोगे श्रुत्यर्थपाठस्थानमुख्यप्रवृत्तयः ।
षडेतानि प्रमाणानि पौर्वापर्यात्मनि क्रमे ॥
श्रुतिः क्त्वाथादिशब्दस्स्यादर्थस्तु स्यात्प्रयोजनम्
पाठो मन्त्रब्राह्मणयोः स्थानं तादृगुपस्थितिः ॥
प्रधानक्रमतोऽङ्गानां क्रमो मुख्यक्रमो मतः ।
सैषा प्रवृत्तिः प्रथमक्रमतोऽनन्तरक्रमः ॥
11 प्रयोगसमवेतार्थस्मृतिर्भवति मन्त्रतः ।
तस्मात् स्मृतेर्हि नियमः नादृष्टफलकल्पना ॥
तच्छाब्दबोधहेतुत्वे तत्प्रामाण्ये विवक्षिते ।
विनियोजकवाक्येषु मन्त्राणां वेदवर्तिनाम् ॥
पदार्थविधया शाब्दबोधस्य करणत्वतः ।
धर्मे प्रमाणं मन्त्रास्स्युः इति केचित्प्रचक्षते ॥
धर्मानुष्ठानोपयोगिज्ञानहेतुत्वमेव चेत् ।
धर्मे मतं प्रमाणत्वं मन्त्राणामिदमक्षतम् ॥
12 नामधेयो विधेयार्थपरिच्छेदक इष्यते ।
मत्वर्थलक्षणापत्तिः वाक्यभेदभयं तथा ॥
तत्प्रख्यशास्त्रं तेनैव व्यपदेश इति क्रमात् ।
चतुर्विधं निमित्तं स्यादेके पञ्चविधं विदुः ॥
पञ्चमं तूत्पत्तिशिष्टगुणप्राबल्यमुच्यते ।
उद्भिच्चित्राऽग्निहोत्रं च श्येनेनेति चतुर्विधा ॥
M.R. 60