मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 507, कुल 672 में से
संदर्भ में पढ़ेंविशेषतोऽतिदेशोऽथ प्रावर्तिष्टास्य कर्मणः ।
इदं प्रकृतिरित्यादिनिर्णयोऽष्टमलक्षणे ॥
सामसंस्कारमन्त्राणामूहः प्रकृतिगामिनाम् ।
विकृतावन्धथाकृत्वा संबन्धो नवमे मतः ॥
प्रत्याम्नान द्वारलोप पर्युदासनिषेधतः ।
विकृतौ प्राकृताङ्गानां निवृत्तिर्बाधलक्षणे ॥
तन्त्रं त्वनेकोद्देशेनानुष्ठानं सकृदिष्यते ।
अन्यार्थानुष्ठितेनान्यस्योपकारः प्रसञ्जनम् ॥
एकादशद्वादशयोः प्रमेयार्थाविमौ मतौ ।
कालसंख्यामन्त्ररूपनिमित्तफलकर्तृभिः ॥
सकृद्विशेषाग्रहणेऽनुष्ठानं तन्त्रमित्यपि ।
सप्तस्वेकविधेनापि विशेषग्रहणे सति ॥
सकृदेव ह्यनुष्ठानं प्रसङ्ग इति वोच्यते ।
एषोऽतिदेशषट्कार्थः प्रत्यध्यायं निरूपितः ॥
(95) वेदानिरुक्तिवादः
1 मन्त्रब्राह्मणयोर्वेदनामधेयमिति स्मृतम् ।
कर्तव्यार्थस्मारकत्वं मन्त्रलक्षणमुच्यते ॥
परप्रत्यायनार्थास्तु मन्त्रा निगदसंज्ञिताः ।
विधायकपदव्यूहः ब्राह्मणं परिकीर्त्यते ॥