सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

शब्दप्रामाण्यवादः 42
पदानां सन्निधिर्वाक्यं तद्राशिः ग्रन्थ इष्यते ।
इति कौमारिलमतं अथ प्राभाकरं पुनः ॥
4 गुरुर्लौकिकशब्दानामनुमानत्वमिच्छति ।
सर्वशब्दानुमानत्ववादिनः कणभोजिनः ॥
अत्र लौकिकवाक्यानां व्यभिचाराभिमानतः ।
अर्थासंस्पर्शितां शब्दस्याहुः केचित्पुराविदः ॥
5 अत्र प्रतिब्रुवाणानामभिप्रायोऽयमुच्यते ।
विवक्षितार्थविज्ञानमिन्द्रियार्थनिबन्धनम् ॥
तस्य ज्ञानं च वाक्येन लिङ्गभूतेन गम्यते ।
ज्ञात्वैवार्थं ब्रवीतीति य एवमवधारितः ॥
तस्य ज्ञानेन नियतं वाक्यं ज्ञानानुमापकम् ।
ज्ञानं चार्थविनाभावि तेनार्थेऽपि विनिश्चयः ॥
ततोऽर्थे निश्चिते पश्चात्सोऽर्थो वाक्येन गम्यते ।
तस्यां दशायां वाक्यस्य तस्य स्यादनुवादता ॥
वाक्यार्थस्यानुमानेन व्यभिचारभये गते ।
अभिधत्ते पुनर्वाक्यमनुवाद इति स्थितम् ॥
6 नान्तरीयकताऽभावाच्छब्दानां वस्तुभिस्सह ।
नार्थसिद्धिस्ततस्ते हि वक्तृभिप्रायसूचकाः ॥
इति कीर्तिवचोमूलो विचारोऽत्रावधार्यताम् ।
व्यवहाराविसंवादान्मानतेन्द्रियलिङ्गयोः ॥

428 मानमेयरहस्यश्लोकवार्तिके
आप्तवादाविसंवादाच्छब्दः प्रामाण्यमृच्छति ।
पूर्वं वाक्यं लिङ्गभूतं वक्तुर्ज्ञानावधारणे ॥
वक्तृज्ञानप्रसूतं हि वाक्यं तत्कार्यमिष्यते ।
कार्यात्कारणसिद्धिश्च सर्वेषामपि सम्मता ॥
ततश्च पुंवाक्यमात्रं न शास्त्रमभिधीयते ।
नन्वर्थ एव प्रथमं पुंवाक्येनावगम्यते ॥
अन्यथा तु कथं वक्तुः धीर्विशिष्टाऽनुमीयते ।
अर्थेनैव विशेषो हि निराकारतया धियाम् ॥
नचाप्रतीतेनार्थेन विशेषो ह्यवगम्यते ।
अत्र ब्रूते यथार्थत्वशङ्कयाऽर्थो न निश्चितः ॥
अनिश्चितो नहि ज्ञात इति तात्पर्यसंग्रहः ।
वाक्याद्वाक्यार्थानुमानवादिनस्सौगतानुगाः ॥
वैशेषिकाश्च गुरवः वक्तृज्ञानानुमाविदः ।
तत्रापि गुरवो लोकवाक्यमात्रानुमाविदः ॥
अपौरुषेयमेवैकं शास्त्रं वाक्यचयात्मकम् ।
तत्रापि चोदना शास्त्रं नाभिधेति विनिर्णयः ॥
आप्तवादाविसंवादसामान्यादनुमानतः ।
अभिन्नत्वमनूद्येत्थं दूषितं श्लोकवार्तिके ॥
आप्तवादाविसंवादादत्रचेदनुमानता ।
निर्णयस्तावता सिद्धयेद्बुद्धयुत्पत्तिर्न तत्कृता ॥

वाक्यार्थश्चान्य एवेति ज्ञातः पूर्वतरं ततः ॥
तत्रचेदाप्तवादेन सत्यत्वमनुमीयते ।
वाक्यार्थप्रत्ययश्चात्र कथं वाऽनुमितिस्त्विति ॥
7 अलंकारविदः प्राहुश्शब्दानां विषयो द्विधा ।
प्रतिपाद्योऽनुमेयश्च प्रथमोऽपि द्विधा मतः ॥
वाच्यो व्यङ्ग्यश्चेति ततः विवक्षालक्षणः परः ।
विवक्षाविषयत्वे तु शब्दानां लिङ्गता मता ॥
व्यङ्ग्यस्वरूपे विषये शाब्दता स ध्वनिर्मतः ।
असौ वादः पूर्वमुक्तवादसंस्कारमूलकः ॥
(88) शब्दप्रमाणपरिकरः.
1 आप्तवाक्यं तु शब्दः स्यादाप्तत्वमिदमुच्यते ।
प्रतारणाद्यप्रयोज्यहिताहितमनीषयोः ॥
प्रयोजकत्वमाप्तत्वं समानं वेदलोकयोः ।
इति कैश्चिन्निरुक्तं स्यात् अन्यैरपरथा यथा ॥
यदनाप्तानुच्चरितं वाक्यं शब्द स्स इष्यते ।
प्रमाणं तल्लोकवेदसाधारणमिति स्थितम् ॥
2 अर्थावबोधकशब्द इत्याहुस्स्फोटवादिनः ।
श्रोत्रग्राह्यश्शब्द इति तत्प्रतिद्वन्द्विदृष्टिः ॥

430 मानमेयरहस्यश्लोकवार्तिके
३ आप्तवाक्यं शब्द इति प्राहुर्न्यायविशारदाः ।
आप्तो यथार्थवक्तेति पौरुषेयत्वसिद्धये ॥
वेदानां प्रोच्यते, तेन प्रामाण्यं परतो मतम् ।
पदज्ञानं तु करणं द्वारं तत्र पदार्थधीः ॥
शाब्दबोधः फलं तत्र शक्तिधीस्सहकारिणी ।
आसत्तियोग्यताऽऽकाङ्क्षा तात्पर्यज्ञानमिष्यते ॥
कारणं, सन्निधानं तु पदस्यासत्तिरुच्यते ।
पदार्थे तत्र तद्वत्ता योग्यता परिकीर्तिता ॥
यत्पदेन विना यस्यानुभावकता भवेत् ।
साऽऽकाङ्क्षा वक्तुरिच्छा तु तात्पर्यं परिकीर्तितम् ॥
इति न्यायविदां मार्गः वैदिकानां पुनस्त्वसौ ।
परस्परापेक्षितत्वमाकाङ्क्षा स्यात्पदार्थयोः ॥
तात्पर्यविषयार्थानां बाधाभावो हि योग्यता ।
पदजन्या पदार्थानामासत्तिः स्यादुपस्थितिः ॥
तत्तदर्थप्रतीतीच्छा तात्पर्यं वक्तृरवस्थिता ।
वेदेऽपीच्छासमाकारः व्यापारोऽभ्युपगम्यते ॥
शरीरवादे प्रागुक्ता तन्त्रवार्तिकपद्धतिः ।
तन्निर्णयाय मीमांसा न्यायनिर्णयलक्षणा ॥
लोके तु वक्तुरिच्छेयं ज्ञेया प्रकरणादिना ।
लौकिकोऽलौकिकश्चेति शब्दोऽतो द्विविधो मतः॥

शब्दप्रमाणपरिच्छेदः 43
4 शब्दार्थयोस्तु संबन्धो वृत्तिस्सा हि चतुर्विधा ।
मुख्या गौणी लाक्षणिकी तात्पर्यं चेति भेदतः ।
मुख्या वृत्तिश्शक्तिरेषा सा पदार्थान्तरं मता ।
जातावेव हि शक्तिस्स्यात् व्यक्तिधीस्तुल्यवित्तिचितः
आक्षेपाद्वा स चाक्षेपः लक्षणा लिङ्गमेव वा ।
अर्थापत्तिः कुब्जशक्तिरित्येवं हि विकल्प्यते ॥
या स्वरूपसती शाब्दबोधे शक्तिः प्रयोजिका ।
व्यक्तिनिष्ठा कुब्जशक्तिरिति प्राभाकरा विदुः ॥
5 अवस्थानेऽपि चैकत्र मुख्यवृत्तेरसौ पुनः ।
तात्पर्यवृत्तिरन्यत्र दूरे संक्रमतेऽन्यथा ॥
सामान्यतः प्रयोगेऽपि विशेषावगतिः कथम् ।
तात्पर्यवृत्तिरभिधावृत्तेरपि बलीयसी ॥
यत्परस्स हि शब्दार्थ इति तस्माद्विदुर्बुधाः ।
प्रवृत्तिस्सर्वशास्त्राणां यस्मात्तात्पर्यनिर्णये ॥
पदार्थपर्यवसितोऽभिधाव्यापार इष्यते ।
तथापि तात्पर्यवृत्तिरपर्यवसिता मता ॥
अपर्यवसिता वृत्तिर्यत्र तत्रैकवाक्यता ।
सा पर्यवसिता या स्यात्पदे वाक्ये च केवले ॥
गुणसंबन्धतो गौणी लक्षणा शक्ययोगतः ।
तात्पर्यशक्तिः तात्पर्यनिर्णयात्सा बलीयसी ॥

432 मानमेयरहस्यश्लोकवार्तिके
तां लक्षणां केचिदाहुः बोध्यसंबन्धरूपतः ।
असतोऽपि हि शब्दोत्थज्ञानगोचरतेष्यते ॥
तथाऽगृहीतसंबन्धाः पदार्था एव सर्वशः ।
आगमार्थं बोधयन्तः बलीयांसो भवन्ति हि ॥
नियमस्मरणापेक्षाल्लिङ्गात्प्रबल आगमः ।
विशेषतश्च वेदस्य निर्दोषत्वाद्वलिष्ठता ॥
अव्युत्पन्नशब्दराशिः स्वस्वरूपं हि बोधयेत् ।
अतश्च देवताशब्दः स्वरूपे पर्यवस्यति ॥
6 अभिधेयेन संबन्धात्सादृश्यात्समवायतः ।
वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता ॥
भर्तृमित्रवचस्त्वेतत् अपरैष्षड्विधा मता ।
जहदादिविभेदेन त्रिविधा नव्यवैदिकैः ॥
7 पदार्थबोधनं शब्दशक्तिजन्यत्वतः पदैः ।
पार्थसारथ्यादिबुधैः अभिधानमितीर्यते ॥
संस्कारोद्बोधनद्वारा पदार्थानां तु बोधनम् ।
तत्स्यात् स्मरणमेवेति चिदानन्दादयो विदुः ॥
पदार्था एव वाक्यार्थं पुनस्संसर्गलक्षणम् ।
बोधयेयुर्लक्षणया तात्पर्यानुपपत्तितः ॥
मीमांसाशास्त्रनिष्णात़ाः नव्याः प्राहुर्बुधोत्तमाः ।
तस्मान्नानापदार्थानुरक्तो वाक्यार्थ इष्यते ॥

शब्दविभागः 433
पदार्थमूलो नामूलो नच संकेतमूलकः ।
विस्तरोऽस्य त्वन्विताभिधाने चाभिहितान्वये ॥
(89) शब्दविभागः.
1 ऋऌक्सूत्रे महाभाष्ये शब्दभेदो निरूपितः ।
चतुष्टयी हि शब्दानां प्रवृत्तिरिह जायते ॥
जातिशब्दाः क्रियाशब्दाः गुणशब्दाः तथा परे ।
यदृच्छाशब्दसंज्ञाः स्युः ते च डित्थादयो मताः ॥
ये प्रवृत्तिनिमित्तं तदर्थस्थमनपेक्ष्य च ।
प्रयोक्तृभिप्रायमात्रात्प्रवर्तन्ते हि ते पुनः ॥
शब्दस्वरूपमेवात्र निमित्तमिति निर्णयः ।
अथचालंकारिकोक्तो विभागस्त्वपरो यथा ॥
2 चतुर्धा वाचकश्शब्दः जातिवाचक आदिमः ।
द्वितीयो गुणवाची स्यात् तृतीयः कर्मवाचकः ॥
द्रव्यवाची तुरीयः स्यात् तेषां विवरणं त्विदम् ।
अनुप्राणनहेतुर्यः धर्मः तस्य हि वाचकः ॥
जातिवाचक इत्युक्तः तत्रानुप्राणनं पुनः ।
विशेषतो याऽऽकाङ्क्षा स्यात् शान्तिस्तस्या इतीर्यते
जातिः प्राणप्रदात्रीति चात एवाभिधीयते ।
अर्थस्यानुप्राणितस्य सिद्धधर्मो विशेषणम् ॥
M.R. 55

यत्स्यात्तद्वाचकश्शब्दः गुणवाचक उच्यते ।
तादृशो यस्साध्यधर्मः तद्वाची कर्मवाचकः ॥
एतत्त्रितयसंयुक्तं वस्तु द्रव्यमितीर्यते ।
तद्वाचको द्रव्यवाचीत्येवं प्राज्ञैरनूदितम् ॥
जातिस्सामान्यमित्याद्या जातिमात्रस्य वाचकाः।
व्यक्तिस्स्वरूपमित्याद्या व्यक्तिमात्रस्य वाचकाः॥
गोघटाश्वादयो जातिविशिष्टव्यक्तिवाचकाः ।
गुणादिवाचकाश्शब्दाः द्रव्यपर्यन्तबोधकाः ॥
असौत्रोऽपि च मत्वर्थीयादिस्तद्गुणवाचिनः ।
निष्कर्षप्रतिरुद्धायाः शक्तेरुत्तम्भको मतः ॥
वैभवात्क्वचिदायातः भूरिकेवलदर्शनात् ।
नचेत्तेषामसाधुत्वप्रसङ्गो दुर्निवारणः ॥
गुणैकनियतास्तावद्गन्धरूपरसादयः ।
गन्धत्वाद्यवच्छिन्नगन्धादिगुणवाचिनः ॥
तेषां न द्रव्यपर्यन्ता वृत्तिः क्वचन दृश्यते ।
न गन्धः पद्ममित्यस्ति सामानाधिकरण्यधीः ॥
सामान्यतश्च शब्दानांमर्था अपि चतुर्विधाः ।
मुख्यो गौणो लाक्षणिकस्तात्पर्यार्थ इति श्रुताः॥
स्याद्वाचको लाक्षणिको व्यञ्जकश्चेति च त्रिधा ।
इतिचाप्यपरैरालंकारिकैः प्रविभज्यते ॥

शब्दविभागः 435
3 नामाख्यातनिपातोपसर्गभेदैः चतुर्विधम् ।
पदं विभज्यते शास्त्रे सर्वस्मिन् पदवेदिभिः ॥
4 प्रादयो ह्युपसर्गास्स्युः निपाताश्चादयो मताः ।
तिङन्तास्त्वाख्यातसंज्ञाः सुबन्ता नामसंज्ञिताः ॥
उपसर्गा निपाताश्च वाचका द्योतका इति ।
मतद्वयं, वाचकत्वं शक्तिस्स्यात्सामुदायिकी ॥
विशेषणं द्योतकत्वं तच्च शक्त्यपवादनम् ।
सर्वं सर्वार्थशक्तं चेदपवादो ह्यपेक्ष्यते ॥
तदा पदान्तरं तत्स्यात् अन्वाख्यानमनर्थकम् ।
उक्ते विशेषणं, किंचिदुच्यमानविशेषणम् ॥
तेन शक्त्यपवादोऽयं भवेदर्थापवादवत् ।
चादयो वाचकाः प्राद्या द्योतका इति तार्किकाः ।
सर्वेऽपि द्योतका एवेत्याहुश्शाब्दिककोविदाः ।
मीमांसकास्तु मध्यस्थाः चिन्तनश्रमभीरवः ॥
5 नैयायिकविभागोऽपि किंचिदत्र निरूप्यते ।
प्रकृतिः प्रत्ययश्चेति निपातश्चेति स त्रिधा ॥
निरुक्ता प्रकृतिर्द्वेधा नामधातुविभेदतः ।
यत्प्रातिपदिकं प्रोक्तं तन्नाम्नो नातिरिच्यते ॥
रूढं च लक्षकं चैव योगरूढं च यौगिकम् ।
तच्चतुर्धा परैरूढयौगिकं मन्यतेऽधिकम् ॥

436 मानमेयरहस्यश्लोकवार्तिके
6 अम्बाम्बेति यदा बालश्शिक्षमाणः प्रभाषते ।
अव्यक्तं तद्विदां तेन व्यक्ते भवति निर्णयः ॥
एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते ।
तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते ॥
नापभाषतवै न म्लेच्छतवै इति यद्यपि ।
निषेधो वर्ततेऽथापि प्रमादो धीमतामपि ॥
कल्पसूत्रस्मृतिग्रन्थमीमांसागृह्यकारिणः ।
शिष्टाः दृष्टाः प्रयुञ्जानाः अपशब्दाननेकंशः ॥
शब्दशास्त्रप्रवक्तारस्त्रयोऽपि मुनयः पुनः ।
शास्त्र एव स्खलन्तीति विवृतं तन्त्रवार्तिके ॥
अन्तो नास्त्यपशब्दानामतिहासपुराणयोः ।
मरणान्तो व्याधिरसौ यद्व्याकरणमुच्यते ॥
इति चौशनसाः प्राहुरिति प्राह बृहस्पतिः ।
दुष्टग्रहगृहीतो वा भीतो वा राजदण्डतः ॥
पितृभ्यामभिशस्तो वा कुर्याद्व्याकरणे श्रमम् ।
वृत्तिः सूत्रं तिलाः माषाः कपत्री कोद्रवौदनः ॥
अजडाय प्रदातव्यं जडीकरणमुत्तमम् ।
इत्थं शङ्कासंग्रहोऽथ समाधेरपि संग्रहः ॥
रूपान्तरेण देवास्ते विचरन्ति महीतले ।
ये व्याकरणसंस्कारपवित्रितमुखा नराः ॥

यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम् ।
तावुभौ पुरुषौ लोके पङ्क्तिपावनपावनौ ॥
वरं हि जातास्तिमयः गभीरे हि जलाशये ।
न मानवाः व्याकरणशुद्धिहीनमुखा भुवि ॥
ऐन्द्रं चान्द्रं च माहेशं दौर्गं कौमारमेवच ।
कालापं चैवाऽऽपिशलं कातन्त्रादिकमुच्यते ॥
अष्टादश पुराणानि चाष्टौ व्याकरणानि च ।
ज्ञात्वा सत्यवतीसूनुश्चक्रे भारतसंहिताम् ॥
7 ननुचाशक्तिजा दोषाः प्रमादजनिताश्च ये ।
परिहर्तुमशक्यत्वान्न निषेध्या इति त्वसत् ॥
प्रमादमेव मा कार्षीः सामर्थ्याय यतस्व च ।
एवमर्थो निषेधोऽयं नाद्रियेतान्यथा ह्यसौ ॥
अन्ये सुखमुखारूढाः न क्लेशेन विवक्षवः ।
शक्ताश्चैवाप्रमत्ताश्च वदेयुरनिवारिताः ॥
अशक्तैर्नाशिताश्चान्ये दाक्षिण्याद्यनुवर्तनात् ।
जानन्तोऽपि प्रयुञ्जीरन् यदि शास्त्रं न वारयेत् ॥
तत्कथं नाम यत्किञ्चित् स्यादपभ्रंशकारणम् ।
दूरात्परिहरेयुस्तदिति यत्नो नियम्यते ॥
रीतिरेषा निषेधेषु चान्येषु परिगृह्यताम् ।
प्रमादश्चाप्यशक्तिश्च न पुरस्कृत्यतां बुधैः ॥

आर्याश्च म्लेच्छभाषाभ्यः कल्पयन्तः स्वकं पदम्
पदान्तराक्षरोपेतं कल्पयन्ति कदांचन ॥
तस्माद्ये याज्ञिकैर्यैषां वैद्यैर्वार्था निरूपिताः ।
तेषां त एव शब्दानांमर्थाः मुख्या नचेतरे ॥
8 भेदो नाम पदार्थानामवच्छेदः परस्परम् ।
संसर्गोऽपि पदार्थानामन्योन्येनानुरञ्जनम् ॥
स्वप्राधान्यात्पदार्थानां धर्मावेतावुभावपि ।
धर्मिभेदेन भिद्येते न ह्येकत्वमुपाश्रितम् ॥
अर्थैकत्वादेकवाक्यमित्यत्रेदं विचिन्तितम् ।
भाष्यवार्तिकयोः पूर्वमीमांसायां विलोक्यताम् ।
9 नाम्नां द्विधैव संबन्धः सर्ववाक्येष्ववस्थितः ।
सामानाधिकरण्येन षष्ठ्या वा प्रतिपाद्यते ॥
सामानाधिकरण्यं च धर्मः शब्दगतः स्थितः ।
तस्य तात्पर्यविषयोऽप्यर्थस्ताच्छब्द्यमश्नुते ॥
सामानाधिकरण्यं तत्तादात्म्यमिति कीर्त्यते ।
विरोधैकान्तसिद्धान्ते तत्स्वरूपैक्यलक्षणम् ॥
तद्धि तावद्धर्मधर्मिजातिव्यक्त्यादिषूच्यते ।
धर्मधर्मिविभेदे तु सर्वथा नैक्यसंभवः ॥
धर्मभेदे तदायत्तो धर्मिभेदः व्यवस्थितः ।
स सिद्धान्तस्सौगतानामिति धीमद्भिनिश्चितः ॥

शब्दविभागः 439
तादात्म्यं तु विदुः केचित् ये भेदाभेदलक्षणम् ।
जातिव्यक्त्यादिषु तथा तादात्म्यमुपयन्ति ते ॥
अनेकान्तविदस्ते स्युः भाट्टास्तन्मार्गयायिनः ।
भर्तृप्रपञ्चादयश्च तन्मार्गस्य प्रवर्तकाः ॥
धर्मधर्म्यादिषु भिदावादिभिस्तार्किकैः मतः ।
धर्म्यैक्ये धर्मयोर्भेदः धर्मैक्येऽपि च धर्मिणोः ॥
विशिष्टयोरप्यभेदः तथा शुद्धविशिष्टयोः ।
तत्सिद्धान्ते तु तादात्म्यं वदितुं बहुधोचितम् ॥
सामानाधिकरण्येन चैवं तादात्म्यलक्षणम् ।
ऐक्यं त्रिधा विशुद्धैक्यं विशिष्टैक्यं भिदाऽभिधा ॥
अखण्डरसवस्त्वैक्यं चतुर्धाचोपपादितम् ।
सत्यादिशोधकवचस्स्वतद्व्यावृत्तिमार्गतः ॥
तत्त्वमस्यादिवाक्येषु चान्वयेनोपलक्षणात् ।
सर्वं खल्विदमित्यादौ मिथ्यार्थारोपणेन तु ॥
ज्योतींषि विष्णुरित्यादौ बाधया चोपपादितम् ।
ययाकयाऽपि विधया निर्विशेषं सुरक्षितम् ॥
ऐक्याध्यासापवादाश्च विशेषणविशेष्यता ।
सामानाधिकरण्यं च चतुर्धेत्यप्यवादिषुः ॥
विप्रो ब्राह्मण इत्यादौ विशुद्धैक्यं व्यवस्थितम् ।
इदं रजतमित्यादौ अध्यासस्स्याद्विवक्षितः ॥

देह आत्मेत्यादिदेशे त्वपवादः प्रकीर्त्यते ।
नीलमुत्पलमित्यादौ स्याद्विशेषणतेति च ॥
सविशेषब्रह्मविदः तत्त्वत्रयविदश्च ये ।
सर्वत्र तेषां तादात्म्यं विशिष्टाद्वैतलक्षणम् ॥
अविरोधान्तरङ्गत्वजातिभोगाद्यभेदतः ।
एकोक्तिरपृथक्सिद्धेः देशकालदशादिभिः ॥
परिणामविदो ये च भेदाभेदविदोऽपि च ।
अनेकान्तविदां तेषां तत् भेदाभेदलक्षणम् ॥
संप्रदायप्रभेदेन विवक्षाभेदतोऽपिवा ।
वेदान्तिनां भिदा तत्र विश्रुतेत्युपरम्यते ॥
10 चतुर्विधस्तथा भेदः पूर्वस्त्वात्यन्तिको मतः ।
औपाधिको द्वितीयस्स्यात् तृतीयः पारिणामिकः ।
वैवर्तिकश्चतुर्थस्स्यात् अभेदोऽपि चतुर्विधः ।
अखण्डत्वं च तादात्म्यं वैशिष्ट्यं चौपचारिकम् ।
अतश्च बाधाद्ब्रह्मैक्यात् आत्मत्वादुपचारतः ।
तच्चतुर्धा जगद्ब्रह्मसामानाधिकरण्यगीः ॥
स्वभावाच्च विवर्ताच्च संकल्पात्परिणामतः ।
चतुर्विधं कारणत्वं वादिभिस्तैर्विकल्प्यते ॥
तथा कूटस्थशब्दार्थः चतुर्धा परिदृश्यते ।
कूटस्थो निर्विकारस्स्यात्तथा साधारणोऽपिचं ॥

वेदवादः 44
मायाध्यक्षोऽथवा ज्ञेयः राशिवत्स्थित एववा ।
योगवृत्त्यैव कूटस्थपदमेवं विकल्प्यते ॥
(90) वेदवादः.
1 कूटस्थनित्यवर्णानां राशिर्वेदोऽभिधीयते ।
क्रमः प्रवाहानित्यस्स्यादिति मीमांसका विदुः ॥
क्रमावच्छिन्नवर्णौघस्सदा सर्वज्ञबुद्धिगः ।
कूटस्थनित्यं वेदाख्यं तत्त्वं श्रीमध्वसम्मतम् ॥
सृष्टिकाले च वर्णानामुत्पत्तिं प्रलये पुनः ।
विनाशं केचिदिच्छन्ति सैषा कल्पान्तनित्यता ॥
वर्णस्याशुविनाशोऽपि क्रमे स्वातन्त्र्यभङ्गतः ।
वेदनित्यत्ववादस्स्यादिति साधारणी सृतिः ॥
2 अथान्येषां वैदिकानामभिप्रायस्य संग्रहः ।
अयमेषः तत्त्वविद्भिः विनिर्णीतः प्रकाश्यते ॥
वेदो हि नित्योऽभिप्रायः कश्चित्स्यात्पारमेश्वरः ।
श्रुतिस्स्मृतिर्ममैवाज्ञेत्यादि मानं परश्शतम् ॥
तदभिव्यञ्जके वाक्ये वेदशब्दः प्रयुज्यते ।
प्रयुज्यते चाप्यर्थे हि वेदविच्छास्त्रविद्यथा ॥
यज्ञेन वाच इतिच बह्वृचैः पठ्यते श्रुतिः ।
हृदयेनाभ्यनुज्ञात इत्येषा मानवी स्मृतिः ॥

442 मानमेयरहस्यश्लोकवार्तिके
हृदयं वेद इतिच भाष्यं मेधातिथोरिह ।
महतां हृदयं वेद इत्यप्याह कुमारिलः ॥
महत्परिग्रहो ह्येष विशेषो ह्यागमान्तरात् ।
एकस्य प्रतिभानं तु कृतकान्न विशिष्यते ॥
अपिचोदयनाचार्यैः यन्न्यायकुसुमाञ्जलौ ।
उत्पत्तितो वाऽभिव्यक्तितो वाऽभिप्रायतोऽपिवा
अनवच्छिन्नवर्णानां नैरर्थक्यमितीरितम् ।
तत्र नैयायिकमतमुत्पत्तिपदसूचितम् ॥
मीमांसकमतं चाथाभिव्यक्तिरिति कथ्यते ।
अस्वातन्त्र्यं हि रचनाविशेषे हि तदाशयः ॥
अथाभिप्रायत इति तदौपनिषदं मतम् ।
सर्वार्थसिद्धौ वेदान्ताचार्योक्तिरवबुध्यताम् ॥
एतदेवहि वेदस्यापौरुषेयत्वनित्यते ।
प्राक्प्रागुच्चारणाधीनोच्चार्यमाणत्वमेव तत् ॥
नह्येकरूपवाक्यस्य प्रवाहानादितां विना ।
प्रतिपद्यामहे वेदवाक्येष्वन्यामनादिताम् ॥
प्रतिकल्पं चैकरूपाभिसन्धिः परमेश्वरः ।
वाक्यं वदत्येकरूपमिति वेदस्य नित्यता ॥
नैतावताऽऽज्ञारूपत्वं वेदवाक्ये विहन्यते ।
द्योतयत्येव हि विभोरभिप्रायं सनातनम् ॥

अन्यथा करणे शक्तोऽप्येतं नान्यथयत्यसौ ।
धाता यथा पूर्वमिति स्वयमेवोपदिश्यते ॥
अव्यवस्थितशङ्काऽपि दूरेणोत्सार्यते ततः ।
सर्वेभ्यो वत्सलतरं शास्त्रमित्यपि कीर्त्यते ॥
वर्णं पदं वा वाक्यं वा स्फोटं तदतिरेकि वा ।
तत्त्वान्तरं वेति बुधाः जानते ये तु वैदिकाः ॥
प्रमाणानि पुनर्यानि ज्ञायन्ते तत्र भूरिशः ।
सर्वेषामत्र तात्पर्यमिति सामान्यनिर्णयः ॥
३ नित्यत्वादेरसिद्धत्वात्, अभ्युपेत्योच्यतेऽथवा ।
सुतरामप्रमाणत्वं वक्तृप्रामाण्यवर्जनात् ॥
परिग्रहाच्च महतां प्रामाण्यमिह दुर्वचम् ।
ज्ञापकश्चायमप्यर्थः कारके संगतिः कुतः ॥
कोऽयं महाजनो नाम किमाचारः किमास्पदः ।
किंसंख्यः किंसमाचार इति व्याख्यातुमर्हसि ॥
महाजनगृहीतत्वं पित्राद्यनुगमादि च ।
बौद्धाः द्वीपान्तरापेक्षं वदन्त्येव स्वदर्शने ॥
प्रमाणान्तरदृष्टं हि शब्दोऽन्यं प्रापयेत्सदा ।
स्मृतिवच्च स्वयं तस्य प्रामाण्यं नोपपद्यते ॥
नूनं तत्रानुभूतोऽसावित्याप्तोक्तिनिबन्धना ।
बुद्धिरस्साक्षाददृष्टेऽपि युक्ताऽर्थे पुरुषोक्तिः ॥

44 मानमेयरहस्यश्लोकवार्तिके
नात्मीयादन्यदीयाद्वा प्रत्यक्षादेर्विना क्वचित् ।
वचसस्सत्यता दृष्टा तथा स्याच्चोदनास्वपि ॥
तेन सत्यपि विज्ञाने प्रतिभादेर्यथैव हि ।
स्वातन्त्र्यान्न प्रमाणत्वं तथा वेदेऽपि दृश्यताम् ॥
स्वर्गयागादिसंबन्धविषया चोदना मृषा ।
प्रत्यक्षाद्यगतार्थत्वात् ईदृग्बुद्धादिवाक्यवत् ॥
यद्वाऽऽप्तेनाप्रणीतत्वात् बालोन्मत्तादिवाक्यवत् ।
व्योमादिवच्च नित्यत्वात्प्रामाण्यस्य निराकृतिः ॥
यदिवा पुरुषाधीनप्रामाण्यास्सर्वचोदनाः ।
स्वतो वा न प्रमाणं स्युः वाक्यत्वात्पुरुषोक्तिवत् ॥
प्रामाण्यं वा नरापेक्षं सर्वशब्देषु गम्यताम् ।
शब्दैस्संबध्यमानत्वात् अप्रामाण्यं यथैव हि ॥
न स्याद्वक्तृगुणानां चेत् वचःप्रामाण्यहेतुता ।
तद्दोषैरप्रमाणत्वं किमित्यस्य भविष्यति ॥
ततश्च पुरुषाभावात्सति वा शुद्ध्यसंभवात् ।
निर्मूलत्वादप्रमाणत्वं चोदनायां न युज्यते ॥
एवंस्थिते तु वेदस्य सतिवाऽसतिवा नरे ।
प्रामाण्यं दुर्लभमिति शङ्कायामिदमुच्यते ॥
4 स्वतस्सर्वप्रमाणानां प्रामाण्यमिति गम्यताम् ।
नहि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यते ॥

तस्माद्बोधात्मकत्वेन बुद्धेः प्राप्ता प्रमाणता ।
अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते ॥
अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयैः ।
वस्तुत्वाद्विविधस्यात्र संभवो दुष्टकारणात् ॥
पौरुषेये तु वचने प्रमाणान्तरमूलता ।
तदभावे हि तद्दुष्येत् इतरन्न कदाचन ॥
कर्तृमत्त्वे तु वेदस्य सम्यङ्गिथ्यात्ववादिभिः ।
कर्ता गुणाश्च दोषाश्च महाजनपरिग्रहः ॥
एवमादि विना युक्त्या कल्प्यं, मीमांसकैः पुनः ।
इदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते ॥
तेन नाप्तोपदेशत्वं न स्यादागमलक्षणम् ।
नाप्तस्य संभवो वेदे, लोके नाप्तात्प्रमाणता ॥
स्वतः सर्वप्रमाणत्वं नचेत्स्याद्दोषदर्शनम् ।
तेनैव सर्वाक्षेपाणां निवारणमिति स्थितम् ॥
(91) वेदवैलक्षण्यवादः.
1 वेदाद्बुद्धागमस्यायं विशेषस्तन्त्रवार्तिके ।
निरूपितो विस्तरशः तत्संक्षेपोऽवधार्यताम् ॥
यदेव भवतां गोत्रं तदस्माकमपीतिवत् ।
आहुः स्वागमनित्यत्वं परवाक्यानुकारिणः ॥

महाजनगृहीतत्वं पित्राद्यनुगमादि च ।
तेऽपि द्वीपान्तराक्षेपं वदन्त्येव स्वदर्शने ॥
संप्रदायविरुद्धं तद्वचनं ह्यवधार्यते ।
बुद्धोपदिष्टो धर्मोऽयं अनित्यं सर्वसंस्कृतम् ॥
क्षणिकास्सर्वसंस्काराः अस्थिराणां कुतः क्रियाः ।
बुद्धिबोध्यं त्रयादन्यत् संस्कृतं क्षणिकं च तत् ॥
नच शब्दार्थसंबन्धकूटस्थत्वमनिच्छताम् ।
नित्यता व्यवहारस्य निराधाराऽवकल्पते ॥
शब्दादिषु विनश्यत्सु व्यवहारः क्व वर्तताम् ।
२ स्थितैषां धर्मतेत्येतत् अर्थशून्यमतो वचः ॥
एषेत्यपि न निर्देष्टुं शक्या क्षणविनाशिनी ।
किमुत स्थितया साकं एषेत्यस्यैकवाक्यता ॥
तस्मान्नागमनित्यत्वं शब्दानित्यत्ववादिनाम् ।
नच पुंवचनं सर्वं सत्यत्वेनावगम्यते ॥
वागिह श्रूयते यस्मात्प्रायादनृतवादिनी ।
तस्मादपौरुषेयैव नित्या भवति नेतरा ॥
३ यद्धेतुदर्शनं तन्त्रवार्तिके विशदीकृतम् ।
तदेव चाप्युदयनः व्याचख्यौ कुसुमाञ्जलौ ॥
सम्यङ्निरूपिता न्यायपरिशुद्धौ पदव्यसौ ।
तत्संक्षेपोऽप्यत्र किंचित्क्रियते सुधियां कृते ॥