मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 488, कुल 672 में से
संदर्भ में पढ़ेंमहाजनगृहीतत्वं पित्राद्यनुगमादि च ।
तेऽपि द्वीपान्तराक्षेपं वदन्त्येव स्वदर्शने ॥
संप्रदायविरुद्धं तद्वचनं ह्यवधार्यते ।
बुद्धोपदिष्टो धर्मोऽयं अनित्यं सर्वसंस्कृतम् ॥
क्षणिकास्सर्वसंस्काराः अस्थिराणां कुतः क्रियाः ।
बुद्धिबोध्यं त्रयादन्यत् संस्कृतं क्षणिकं च तत् ॥
नच शब्दार्थसंबन्धकूटस्थत्वमनिच्छताम् ।
नित्यता व्यवहारस्य निराधाराऽवकल्पते ॥
शब्दादिषु विनश्यत्सु व्यवहारः क्व वर्तताम् ।
२ स्थितैषां धर्मतेत्येतत् अर्थशून्यमतो वचः ॥
एषेत्यपि न निर्देष्टुं शक्या क्षणविनाशिनी ।
किमुत स्थितया साकं एषेत्यस्यैकवाक्यता ॥
तस्मान्नागमनित्यत्वं शब्दानित्यत्ववादिनाम् ।
नच पुंवचनं सर्वं सत्यत्वेनावगम्यते ॥
वागिह श्रूयते यस्मात्प्रायादनृतवादिनी ।
तस्मादपौरुषेयैव नित्या भवति नेतरा ॥
३ यद्धेतुदर्शनं तन्त्रवार्तिके विशदीकृतम् ।
तदेव चाप्युदयनः व्याचख्यौ कुसुमाञ्जलौ ॥
सम्यङ्निरूपिता न्यायपरिशुद्धौ पदव्यसौ ।
तत्संक्षेपोऽप्यत्र किंचित्क्रियते सुधियां कृते ॥