सामग्री पर जाएँ
सर्वकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 469, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 469

शब्दप्रामाण्यवादः 42
पदानां सन्निधिर्वाक्यं तद्राशिः ग्रन्थ इष्यते ।
इति कौमारिलमतं अथ प्राभाकरं पुनः ॥
4 गुरुर्लौकिकशब्दानामनुमानत्वमिच्छति ।
सर्वशब्दानुमानत्ववादिनः कणभोजिनः ॥
अत्र लौकिकवाक्यानां व्यभिचाराभिमानतः ।
अर्थासंस्पर्शितां शब्दस्याहुः केचित्पुराविदः ॥
5 अत्र प्रतिब्रुवाणानामभिप्रायोऽयमुच्यते ।
विवक्षितार्थविज्ञानमिन्द्रियार्थनिबन्धनम् ॥
तस्य ज्ञानं च वाक्येन लिङ्गभूतेन गम्यते ।
ज्ञात्वैवार्थं ब्रवीतीति य एवमवधारितः ॥
तस्य ज्ञानेन नियतं वाक्यं ज्ञानानुमापकम् ।
ज्ञानं चार्थविनाभावि तेनार्थेऽपि विनिश्चयः ॥
ततोऽर्थे निश्चिते पश्चात्सोऽर्थो वाक्येन गम्यते ।
तस्यां दशायां वाक्यस्य तस्य स्यादनुवादता ॥
वाक्यार्थस्यानुमानेन व्यभिचारभये गते ।
अभिधत्ते पुनर्वाक्यमनुवाद इति स्थितम् ॥
6 नान्तरीयकताऽभावाच्छब्दानां वस्तुभिस्सह ।
नार्थसिद्धिस्ततस्ते हि वक्तृभिप्रायसूचकाः ॥
इति कीर्तिवचोमूलो विचारोऽत्रावधार्यताम् ।
व्यवहाराविसंवादान्मानतेन्द्रियलिङ्गयोः ॥

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 469, कुल 672 में से · SarvaKosh