मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
२ मानमेयरहस्यश्लोकवार्तिके
यस्मिन् लोकाः प्रसीदन्ति ताताम्बातपसां निधौ।
स व्यातानीत् मानमेयरहस्यश्लोकवार्तिकम् ॥
३ शास्त्रेषु विस्तृतांशस्य गतार्थत्वान्न विस्तरः ।
सुखबोधाय सारांशः संक्षेपेण प्रदर्श्यते ॥
कुतो वा नूतनं वस्तु वयमुत्प्रेक्षितुं क्षमाः ।
वचोविन्यासवैचित्र्यमात्रमत्र विमृश्यताम् ॥
प्रायः प्रागनुभूतेषु सर्वेष्वपि च वस्तुषु ।
अपूर्वरचने तत्र तुष्यन्ति हि सुमानुषाः ॥
प्रज्ञाविवेकं लभते विभिन्नागमदर्शनैः ।
कियद्वा शक्यमुन्नेतुं स्वयत्नमनुधावता ॥
तत्तदुत्प्रेक्षमाणानां पुराणैरागमैर्विना ।
अनुपासितवृद्धानां विद्या नातिप्रसीदति ॥
संकेताद्वा वासनया तथा मीमांसयाऽपि वा ।
कस्मैचिद्रोचते किंचित् मध्यस्थमनसामपि ॥
सर्वसिद्धान्तसारार्थचिन्ताचातुर्यशालिनाम् ।
न कश्चिदपराधो नः निगूढार्थनिवेदनात् ॥
प्रकाश्यते च प्रायेण स्वाभिप्रायो निबन्धृभिः ।
अत्र त्वस्मदभिप्रायः सर्वाभिप्रायसंग्रहः ॥
प्रज्ञाप्रासादमारुह्य ह्यशोच्यः शोचतो जनान् ।
भूमिस्थानिव शैलस्थः सर्वान् प्राज्ञोऽनुपश्यति ॥
शास्त्रारम्भः
4 मेयं मानाधीनमपि तदेवादौ निरूप्यते ।
प्रोपसर्गप्रयोगस्तु प्रमाभ्रमविवेकतः ॥
विज्ञानाद्वैतसिद्धान्ते प्रविवेको न कश्चन ।
तथाऽसत्ख्यातिसिद्धान्ते व्यवहारो ह्युपप्लवः ॥
मानाधीना मेयसिद्धिः मानसिद्धिश्च¹ लक्षणात्
तल्लक्षणप्रमाणाभ्यां वस्तुसिद्धिरितीर्यते ॥
ज्ञातं सम्यगसम्यग्वा यन्मोक्षाय भवाय वा ।
तत्प्रमेयमिहाभीष्टं न प्रमाणार्थमात्रकम् ॥
इति न्यायविदः प्राहुः प्रमाणपरिनिष्ठिताः ।
काणादास्तु पदार्थज्ञाः प्रमेयपरिनिष्ठिताः ॥
प्रमेयं च प्रमाणं च प्रयोजनमिति त्रिभिः ।
विभागैः प्रविभक्तोऽयं प्रबन्ध इति हि क्रमः ॥
(2) शास्त्रारम्भः.
1 विषयश्च फलं चैव संबन्धश्चाधिकार्यपि ।
प्रेक्षावतां प्रवृत्त्यङ्गमनुबन्धचतुष्टयम् ॥
अभिधेयादयश्शास्त्रे कथ्यन्ते प्रथमं बुधैः ।
न निश्चीयन्त एवैते कृत्स्नशास्त्रश्रुतेः पुरा ॥
प्रेक्षावतां प्रवृत्त्यङ्गं स्यात्तथाप्यर्थसंशयः ।
अनर्थसंशयो दृष्टः निवृत्त्यङ्गं परीक्षकैः ॥
4 मानमेयरहस्यश्लोकवार्तिके
2 तेष्वनर्थेष्वशक्यानुष्ठानं प्रथममुच्यते ।
यथा च तक्षकमणिः ज्वरपीडां हरेदिति ॥
विफलं तु द्वितीयं स्यात् काकदन्तपरीक्षणम् ।
तृतीयं चानभिमतं जननीपाणिपीडनम् ॥
असंबद्धं तुरीयं स्यात् जरद्गववचो¹ यथा ।
संभावितेनाप्येकेन प्रवृत्तिः प्रतिबध्यते ॥
इति धार्मोत्तरं वर्त्म न्यायबिन्दुमुखे स्थितम् ।
न्यायवार्तिकतात्पर्यटीकारम्भेऽपि सूचितम् ॥
व्यतिरेकदृशः केचित् केचिदन्वयदृष्टयः ।
प्राचीनाः प्रायशः पूर्वे पराचीनाः परे मताः ॥
ततोऽभिधेयसम्बन्धकथनं स्यादिहादितः ।
तच्चाभिधेयसम्बन्धसमर्थनमपीष्यते ॥
3 प्रमाणनयतत्त्वाख्यालोकालंकारमूलके ।
रत्नाकरावतारेऽस्य निदानं विदितं यथा ॥
शास्त्रादावभिधेयार्थो दुर्निंरूपोऽभिधित्सितः ।
सोऽसंबद्धोऽथ संबद्धः नाद्यः प्रागेकवाक्यतः ॥
सर्वशास्त्रार्थसंदर्भगर्भाविर्भावसंभवात् ।
कृतं शास्त्रेण शेषेण बहलक्लेशकारिणा ॥
¹ जरद्गवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति मद्रकाणि ।
तं ब्राह्मणी पृच्छति पुत्रकामा राजन् रुमायां लवणस्य कोऽर्घः ॥
शास्त्रारम्भः 5
नान्त्यश्शब्दाभिसंबन्धे विकल्पानुपपत्तितः ।
संयोगाद्यास्तु संबन्धाः नैव संभावनापदम् ॥
तादात्म्यं वा तदुत्पत्तिः वाच्यवाचकताऽथवा ।
स्यादाद्यपक्षे प्रायेण जगतो मिश्ररूपता ॥
क्षुरमोदकशब्दाभ्यां स्यातां पाटनपूरणे ।
द्वितीयपक्षोऽपि मिथोऽनुपलम्भपराहतः ॥
तृतीयोऽपि स्वरूपं वा भिन्नो वेति विकल्प्यते ।
आद्ये नाधिकमुक्तं स्यात् अन्त्ये नित्योऽथवेतरः ॥
नित्यश्चेन्नित्यतापत्तिः एतत्संबंधिनोरपि ।
अनित्यश्चेत्स्वरूपं चेत् नाधिकं स्यादितीरितम् ॥
भिन्नश्चेदनवस्था स्यात् तादात्म्यादिविकल्पतः ।
सर्वेषामपि नित्यत्वं क्षणभङ्गपराहतम् ॥
दुर्ग्रहश्चापि संकेत: स्वरसक्षणभङ्गिनी ।
विकल्पयोनयश्शब्दा विकल्पाइशब्दयोनयः ॥
कार्यकारणता तेषां नार्थं शब्दाः स्पृशन्त्यमी ।
इति प्राचामुक्तिरेषा सकलार्थप्रदर्शिनी ॥
अतोऽभिधेयसंबन्धभङ्गुरः शास्त्रडम्बरः ।
सोऽयं सौगतसिद्धान्तः शास्त्रारम्भप्रभञ्जकः ॥
4 क्षेप्तुं वादानवमादीन् दृश्यते किल वार्तिके ।
सिद्धे शब्दार्थसंबन्ध इति वाररुचं वचः ॥
6 मानमेयरहस्यश्लोकवार्तिके
शब्दे चार्थे च संबन्धे नित्य एवेति तद्वचः ।
व्याख्यातं भाष्यकारेण पतञ्जलिमहर्षिणा ॥
औत्पत्तिकस्तु शब्दस्यार्थेन संबन्ध इत्यपि ।
जैमिनिसूत्रयामास शब्दार्थान्वयनित्यताम् ॥
नित्याश्शब्दार्थसंबन्धाः समाम्नाता महर्षिभिः ।
सूत्राणां सानुसन्त्राणां भाष्याणां च प्रणेतृभिः ॥
इति वाक्यपदीयेऽपि प्राह भर्तृहरिः स्वयम् ।
यश्शब्दाद्वैतसिद्धान्तप्रतिष्ठापनदेशिकः ॥
5 सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्य चित् ।
यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते ॥
सिद्धार्थं सिद्धसंबन्धं श्रोतुं श्रोता प्रवर्तते ।
ग्रन्थादौ तेन वक्तव्यस्संबन्धः सप्रयोजनः ॥
संबन्धोऽस्ति च नित्यश्चेत्युक्तमौत्पत्तिकादिना ।
अप्रामाण्यनिरासार्थं, तद्द्वयं नेष्यते परैः ॥
वाच्यवाचकसंबन्धनिषेधे लोकबाधनम् ।
विरोधश्च स्ववाक्येन न हि संबन्धवर्जितैः ॥
प्रतिज्ञार्थं पदैः शक्यः प्रतिपादयितुं परः ।
तस्माद्गमकतारूपः वृद्धेभ्यस्त्विह शिक्ष्यते ॥
इति कौमारिले श्लोकवार्तिके चोपबृंहणम् ।
अत एव हि शब्दादेर्नित्यताऽस्थापि सूरिभिः ॥
मङ्गलविचारः
6 जात्याख्यस्यातिरिक्तस्य नित्यस्यापि च वस्तुनः
स्वीकारोऽपि च शिक्षायै स्यात्प्रपञ्चापलापिनाम् ।
कर्मैकं बुद्धिरप्येका जगत्येकस्सितो गुणः ।
वर्णोऽप्येको गकारादिरिति वादा अपीदृशाः ॥
तस्मादादौ शास्त्रकृतामर्थसम्बन्धसूचनम् ।
साधने पर्यवसितं शास्त्रारम्भोऽयमुच्यते ॥
इदानींतनशास्त्रेषु तद्विशेषविचिन्तना ।
प्रवर्तते युक्तिमूला सति कुड्येऽनुलेपवत् ॥
(3) मङ्गलविचारः.
1 प्रारिप्सितसमाप्त्यर्थं शिष्टाः कुर्वन्ति मङ्गलम् ।
आचारानुमितश्रुत्या तद्धेतुत्वं हि मीयते ॥
प्रमिते साधनत्वेऽस्मिन् श्रुत्यैव निरपेक्षया ।
व्यभिचारः परीहार्यः क्वचिच्चित्रादिनीतितः ॥
फलानन्तर्यनियमो यदि हेतुत्वमिष्यते ।
व्यभिचारस्य शङ्कैव न हि स्यादवकाशिनी ॥
तत्स्यादारब्धकर्माङ्गं प्रागनुष्ठानदर्शनात् ।
विघ्नध्वंसस्तदत्यन्ताभावो वा द्वारमिष्यते ॥
समाप्यतामिदं कर्म निर्विघ्नमिति कामना ।
यदा श्रुतित एव स्यात् तदा द्वारत्वनिर्णयः ॥
8 मानमेयरहस्यश्लोकवार्तिके
संशयो निश्चयो वाऽत्र विघ्नज्ञानं प्रवर्तकम् ।
समाप्तिकामो विघ्नज्ञः सोऽधिकार्यत्र बोध्यते ॥
२ प्रधानं मङ्गलं केचित् अदृष्टद्वारतः पुनः ।
फलं समाप्तिः तत्कामो ह्यधिकारीति जानते ॥
३ प्रारिप्सितं निमित्तं स्यादाविघ्नेन समापनम् ।
प्रचयश्च फलं चेति केचिन्नैमित्तिकं विदुः ॥
मङ्गलाचरणे तस्मात्काम्यशङ्का व्यपोद्यते ।
समाप्तिकामना तु स्यादधिकारिविशेषणम् ॥
४ परे त्वदृष्टद्वारेण मङ्गलस्य फलं विदुः ।
विघ्नसंसर्गविरहं समाप्तिस्तु ततः फलम् ॥
५ चतुर्षु पक्षेष्वेतेषु कंचित्स्वीकृत्य सूरयः ।
विवदन्ते गुरुलघुविमर्शनविचक्षणाः ॥
प्रथमं परिगृह्णन्ति पक्षं प्राञ्चस्तु तार्किकाः ।
नव्यनैयायिकानां तु तुरीयः पक्ष ईप्सितः ॥
६ आद्यपक्षे व्यभीचारं नास्तिकादिनिबन्धने ।
अन्यथासिद्धिमपि वा विघ्नध्वंसेन ते विदुः ॥
७ न मङ्गलं महाभाष्ये दृश्यते नापि पाक्षिले ।
न शाबरे शाङ्करे वा तथेदानींतने क्वचित् ॥
मङ्गलं न निबध्नन्ति ग्रन्थे केचिद्विपश्चितः ।
कुर्वन्तो वा न कुर्वन्तो न हि तद्वेदितुं क्षमम् ॥
सिद्धान्तविचारः 9
माण्डूक्यगौडपादीयभाष्ये श्रीमति शाङ्करे ।
यथाबलं नमस्कारो व्यवहार इतीरितः ॥
8 निबध्नतामयं भावश्शिष्याणां शिक्षणं तथा ।
महिष्ठमङ्गलावाप्तिः स्वकृतस्यानुकीर्तनात् ॥
9 दण्ड्यादिभिर्महाकाव्यारम्भस्याङ्गमितीरितम् ।
सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम् ॥
आशीर्नमस्क्रिया वस्तुनिर्देशो वाऽपि तन्मुखम् ।
तदाहुः मङ्गलं काव्यस्यैवाङ्गमिति केचन ॥
10 तन्मानसं वाचिकं च कायिकं चेत्यपि त्रिधा ।
समष्टिव्यष्टिरूपेण सर्वत्रास्तीति केचन ॥
एवं मङ्गलतत्त्वार्थविचारो मङ्गलात्मकः ।
मङ्गलाचारयुक्तानां विनिपातं निवारयेत् ॥
(4) सिद्धान्तविचारः.
1 प्रामाणिक इति ज्ञातो ह्यर्थः सिद्धान्त इष्यते ।
आवापोद्वापभेदानामिदानीमपि दर्शनात् ॥
2 अभिमानैकमूलत्वात् अन्योन्यं च विरोधतः ।
न कश्चिद्यदि सिद्धान्तः नैवं तत्सिद्धयसिद्धितः ॥
सिद्धान्ताभाव एवायं प्रामाणिक इतीष्यते ।
नेष्यते वा द्विधाऽप्येवं सिद्धः सिद्धान्तसंग्रहः ॥
M.R. 2
10 मानमेयरहस्यश्लोकवार्तिके
3 सर्वं शून्यमिति प्राहुः केचिद्विज्ञानमित्यपि ।
अपोहवादिनस्सर्वं व्यावृत्तिरिति मेनिरे ॥
4 सर्वं सदित्येकमिति संख्येकान्तेषु चादिमः ।
शून्याद्वैतं सदद्वैतं विज्ञानाद्वैतमेव च ॥
शब्दाद्वैतं तथा कालाद्वैतमित्यादि विस्तरः ।
सर्वं नित्यमनित्यं च द्विसंख्येकान्तवादिनाम् ॥
ज्ञाता ज्ञानं ज्ञेयमिति त्रिसंख्येकान्तवादिनाम् ।
मानं मेयं मितिर्मातेत्याहुरेवं ततः परे ॥
रूपं संज्ञा च संस्कारः वेदनाऽनुभवस्त्विति ।
पञ्च स्कन्धा इति प्राहुः सौत्रान्तिकमुखाः परे ॥
जीवो धर्मोऽप्यधर्मश्च पुद्गलः काल एवच ।
आकाश इति षड्द्रव्यं षडभिज्ञाः प्रचक्षते ॥
एवं सप्तादिसंख्यानामेकान्ता अपि सम्मताः ।
ततश्च षष्टितन्त्रं यत्संदृष्टं कपिलादिभिः ॥
संख्येकान्तानुरोधेन तत्सांख्यं प्रथितं भुवि ।
सांख्या हि तत्त्वगणनापरायणतया स्थिताः ॥
प्रबोधचन्द्रोदयोक्तिरप्येवं तत्र साक्षिणी ।
ज्ञानप्रधानं यच्छास्त्रं तत्सांख्यमिति केचन ॥
तपःप्रधानं शास्त्रं तु पातञ्जलमिति स्थितम् ।
यमादयस्तपोरूपास्तत्रैव हि विशोधिताः ॥
इत्थं संख्येकान्तवादो हेतुसाध्याविशेषतः ।
प्रत्यक्षादिप्रमाणानां विरोधाच्च न युज्यते ॥
इत्यक्षपादमुनिना दूषितो न्यायदर्शने ।
संख्याविवादः प्रथमः तदधीनं हि लक्षणम् ॥
5 इत्यालोच्यापरे प्राज्ञाः नयसंस्कृतमानसाः ।
तस्मिन् संख्यां परित्यज्य तत्त्वे संख्यां न्यवेशयन् ॥
ततस्तत्त्वसमासस्तु पञ्चविंशतिधा कृतः ।
कार्यकारणयोरैक्यं तथा वै धर्मधर्मिणोः ॥
अभेद इति सिद्धान्ताद् द्विसंख्येकान्त एव सः ।
षट्त्रिंशत्संख्यतत्त्वानि विदुश्शैवागमानुगाः ॥
वैशेषिकादयस्सप्त षोडशेति च मन्वते ।
पदार्थतत्त्वविज्ञानान्निःश्रेयसमसूत्रयत ॥
यतो विवेककाष्ठैव फलं मानवजन्मनः ।
तयोपादित्सितजिहासितयोर्हि विनिश्चयः ॥
ततश्शास्त्रोपयुक्तानां पदार्थानां परीक्षणम् ।
समस्य च विभज्यापि पदार्थानां परीक्षणम् ॥
इति द्विधा प्रवृत्तं स्याच्छास्त्रमित्यवधार्यते ।
6 पदमेव पदार्थं तं मन्यन्ते ये च शाब्दिकाः ॥
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।
विवर्ततेऽर्थभावेन वेति ये वा विदुः परे ॥
2 मानमेयरहस्यश्लोकवार्तिके
वाक्यं वाऽप्यथ वाक्यार्थं प्रतिभां येऽपि मन्वते ।
तादृग्वादानिरोधाय पदार्थ इति शिक्ष्यते ॥
अतः पदार्थशास्त्रं वा तर्कशास्त्रमपीति वा ।
प्रख्यायते च तच्छास्त्रं संस्कारस्थैर्यसिद्धये ॥
7 तत्र बाह्यार्थमात्रस्य तत्त्वं लौकायता विदुः ।
तथैवान्तरमात्रस्य योगाचारा विजानते ॥
बाह्यमाभ्यन्तरं चेति कापिलाद्याः विदुः परे ।
पातञ्जलास्त्वीश्वराख्यं पुंविशेषं विजानते ॥
तच्च तत्त्वान्तरमिति प्रायेणेश्वरवादिनः ।
द्रव्यं पदार्थः केषांचित् सर्वं द्रव्यात्मकं यतः ॥
महासामान्यमन्यैस्तु द्रव्यं सदिति चोच्यते ।
गुणः पदार्थः केषां चित् गुणवृन्दं यतोऽखिलम् ॥
द्रव्यं गुण इति द्वेधा पदार्थ इति केचन ।
द्रव्याद्रव्यविभागोऽपि मतेऽस्मिन् पर्यवस्यति ॥
संयोगान्तर्गतः कर्मपदार्थ इति भूषणः ।
केचित्कर्मानुजानन्तो बहुधाऽत्र विशेरते ॥
जातिः पदार्थः केषां चित् सर्वं जात्यात्मकं विदुः ।
अपोहवादिनस्सौत्रान्तिकाः व्यावृत्तिवादिनः ॥
द्रव्यं गुणः कर्म चेति केषां चित्रिविधो मतः ।
त्रयाणामर्थ इत्याख्यां कणादश्चाप्यसूत्रयत् ॥
संस्थानमेव सामान्यं तेषामभिमतं भवेत् ।
परे द्रव्याद्रव्ययोश्च भेदाभेदं विदुर्बुधाः ॥
प्रायोऽनेकान्तवादोऽयं वैशेषिकविदूषितः ।
विशेषसमवायौ तु बहुभिर्हि बहिष्कृतौ ॥
अभावाभ्युपगन्तारः दृश्यन्ते बहवो बुधाः ।
विशिष्य तत्तद्वादेषु तत्त्वं स्पष्टं भविष्यति ॥
8 अथ नैरात्म्यसिद्धान्तः किंचिदत्र प्रदर्श्यते ।
पदार्थानां स्वतो रूपं न किंचिद्यवतिष्ठते ॥
इदं वस्तुबलायातं यद्वदन्ति विपश्चितः ।
यथायथाऽर्थाश्चिन्त्यन्ते विशीर्यन्ते तथातथा ॥
बुद्ध्या विविच्यमानायां स्वभावो नावधार्यते ।
अतो निरभिलप्यास्ते निःस्वभावाश्च दर्शिताः ॥
विवक्षामात्रतन्त्राः स्युश्शब्दाः तेऽर्थानिबन्धनाः ।
वस्तुव्यवस्थापनाय व्यवहारा न हीशते ॥
यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥
इत्याहुरपरे प्राज्ञाः ते वै शाब्दिकसौगताः ।
विचित्राः पुमभिप्रायाः वर्तन्ते देशकालयोः ॥
9 विशेषवादिनः केचित्केचित्सामान्यवादिनः ।
तदैक्यवादिनः केचित्केचित्तद्भेदवादिनः ॥
14 मानमेयरहस्यश्लोकवार्तिके
साधने बाधने चापि न च तत्र बलाबलम् ।
कदाचिन्निश्चितं कैश्चित्तस्मान्मध्यस्थता वरम् ॥
इत्यन्यानन्यते तत्र स्तो न स्तश्चेति कीर्त्यते ।
इति तादात्म्यमिच्छन्ति कुमारिलमुखाः परे ॥
10 अनात्मवादिनः केचित्केचिदात्मैकवादिनः ।
अद्वैतवादिनः केचित्केचित्तु द्वैतवादिनः ॥
जीवैकवादिनः केचित्केचिद्ब्रह्मैकवादिनः ।
तादात्म्यवादिनः केचित्केचित्तद्भेदवादिनः ॥
स्याद्भावाभावयोरेवं कार्यकारणयोरपि ।
स्यान्नित्यानित्ययोश्चैवं तथा वै मानमेययोः ॥
स्याद्द्रव्याद्रव्ययोरेवं तथा वै धर्मधर्मिणोः ।
एषैव रीतिस्सर्वेषु चित्रा मानुषशेमुषी ॥
11 सदसत्सदसच्चेति यस्य पक्षो न विद्यते ।
उपालम्भश्चिरेणापि तस्य वक्तुं न शक्यते ॥
परस्परं मत्सरिणः प्रवादास्सकला अपि ।
इच्छन् सर्वत्राविशेषं आर्हतोऽपक्षपात्यसौ ॥
स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् ।
परस्परं विरुद्ध्यन्ते तैरयं न विरुध्यते ॥
एवं हि स्वस्वसिद्धान्तसमुत्कर्षं विदुः क्रमात् ।
सौगता आर्हताश्चापि तथौपनिषदा अपि ॥
चार्वाकदर्शनम्
एवं स्वीयोत्कर्षवादं सर्वे दार्शनिका विदुः ।
सर्वत्रैतादृशी रीतिरित्येषा दिक्प्रदर्शिता ॥
(5) चार्वाकदर्शनम्
1 तत्र लौकायतं लोकसिद्धं व्याख्यानपेक्षितम् ।
तथापि संगतिज्ञप्त्यै प्राचामुक्तिरनूद्यते ॥
लौकायतं शास्त्रमेव प्रमाणं सर्वथा मतम् ।
पुमर्थौ यत्रार्थकामौ प्रत्यक्षैकप्रमाणता ॥
प्रत्यक्षाल्लोकशब्दार्थादधिकं च तदायतम् ।
इति बार्हस्पत्यसूत्रभाष्यकृद्भिरुदीरितम् ॥
इति सर्वार्थसिद्धौ श्रीवेदान्तार्यैरनूदितम् ।
एतेन सूत्रभाष्यादिसंप्रदायोऽपि गम्यते ॥
2 तत्र चत्वारि भूतानि भूमिवार्यनलानिलाः ।
चतुर्भ्यः खलु भूतेभ्यः चैतन्यमुपजायते ॥
किण्वादिभ्यस्समेतेभ्यः द्रव्येभ्यो मदशक्तिवत् ।
अहं स्थूलः कृशो गौरः इति साक्षात्प्रतीतितः ॥
देहे स्थौल्यादियोगाच्च स एवात्मा न चापरः ।
बुद्धेश्च देहधर्मत्वे देहस्य क्षणिकत्वतः ॥
तस्या आशुविनाशोऽपि सम्यगेवोपपद्यते ।
बुद्धेर्नित्यात्मधर्मत्वे स्याद्बुद्धिरपि शाश्वती ॥
16 मानमेयरहस्यश्लोकवार्तिकें
बुद्ध्यन्तरेण नाशादिकल्पनं दुरुपद्रवम् ।
तथा बुद्धेर्गुणत्वं वा द्रव्यत्वं कैश्चिदिष्यते ॥
तद्भूतस्पन्दधीवादमसत्कर्तुमिति स्थितम् ।
आत्मनो द्रव्यता कैश्चिदिष्यते नित्यताऽऽप्तये ॥
पर्य्यायतस्त्वितरथा क्षणिको देहवद्भवेत् ।
नित्यसत्त्वा भवन्त्येके नित्यासत्त्वाश्च केचन ॥
विचित्राः केचिदित्यत्र तत्स्वभावो नियामकः ।
अग्निरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः ॥
केनेदं चित्रितं तस्मात् स्वभावात्तद्व्यवस्थितिः ।
तत्तथैव स्वीक्रियते यद्यथैव प्रतीयते ॥
प्रामाणिकं स्वरूपं यत् स्वभावस्स्यात्स एव हि ।
मृत्युरेवापवर्गस्स्यादिति वाचस्पतेर्मतम् ॥
न स्वर्गो नापवर्गो वा विद्यते पारलौकिकः ।
3 यदि गच्छेत्परं लोकं देहादेष विनिर्गतः ॥
कस्माद्भूयो न चायाति बन्धुस्नेहसमाकुलः ।
यावज्जीवं सुखं जीवेत् नास्ति मृत्योरगोचरः ॥
भस्मीभूतस्य देहस्य पुनरागमनं कुतः ।
यावज्जीवं चाग्निहोत्रं जुहुयादिति वै श्रुतिः ॥
ब्राह्मणस्य च देहोऽयं नोपभोगाय जायते ।
इह क्लेशाय महते प्रेत्यानन्तसुखाय च ॥
चार्वाकदर्शनम्
इत्यादि वचनं सर्वं स्मृतमास्थानिवृत्तये ।
शरीरमाद्यं धर्मस्य साधनं चापि कीर्तितम् ॥
महता पुण्यपण्येन क्रीतेयं कायर्नौस्त्वया ।
गन्तुं दुःखोदधेः पारं त्वर यावन्न भिद्यते ॥
आयुरारोग्यमैश्वर्यं योगाङ्गं चेति कीर्त्यते ।
अरोगदृढगात्रत्वं सुखमुत्साहकारणम् ॥
आत्मनां नित्यतायां तु नैवास्थायाः परिक्षयः ।
तस्माद्देहात्मसिद्धान्तः द्रुतं रागविभञ्जकः ॥
4 अभ्यास एव सर्वत्र सुखदुःखनियामकः ।
मनःप्रीतिकरः स्वर्गः नरकः तद्विपर्ययः ॥
देशकालदशाभिन्नस्वभावेन व्यवस्थितः ।
तस्यैव परिभाषेयं पापं पुण्यमिति द्विधा ॥
अग्नेश्शीतेन तोयस्य तृषा भक्तस्य च क्षुधा ।
क्रियते सुखकर्तृत्वं तद्विलोमस्य चेतरैः ॥
सुखाभावो दुःखमिति व्यवहारस्य गोचरः ।
आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः॥
5 प्रकृतिं तद्विकारान्वा देहान्तान् ये तु मन्वते ।
आत्मानमिति ते ख्याताः तौष्टिका इति कापिलैः॥
पञ्चेन्द्रियविरक्तास्ते प्रकृत्यादौ लयं गताः ।
भवामेति च तानेव त्वात्मेत्येवमुपासते ॥
M.R. 3
18 मानमेयरहस्यश्लोकवार्तिके
तत्त्वाभ्यासान्नास्मि न मे किंचिदित्येव केवलम्
ज्ञानमुत्पद्यते पश्चात् स्वयं सह विनश्यति ॥
विज्ञानघन एवैभ्यो भूतेभ्यश्च समुत्थितः ।
तानेवानुविनश्येदित्येव ब्राह्मणदर्शनम् ॥
येयं प्रेत इति श्रौते वचने नायमित्यपि ।
अनादिर्विचिकित्सेति सिद्धान्तः गीष्पतेरसौ ॥
विवृतं बहुधा सत्त्वं चैतन्यं नास्ति किंचन ।
इति श्रुतिः वाक्यपद्व्य(ख्यायां समुदाहृता ॥
6 मज्जामस्थामथ प्लीहां यकृतां शकृतामपि ।
पूर्णाः स्नायुसिरास्यूताः प्रजाश्चर्मप्रसेविकाः ॥
मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिसंहतिः ।
देहः पटलपर्यन्तबिन्दुवत् क्षणभङ्गुरः ॥
सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः ।
शरीरकस्यापि कृते नराः पापानि कुर्वते ॥
यदि नामास्य देहस्य यदन्तस्तद्बहिर्भवेत् ।
दण्डमादाय लोकोऽयं शुनः काकांश्च वारयेत् ॥
दिवं स्पृशति भूमिं च शब्दः पुण्येन कर्मणा ।
यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥
अकीर्तिर्यस्य कीर्त्येत लोके भूतस्य कस्य चित् ।
पतत्येवाधमान् लोकान् यावच्छब्दस्स कीर्त्यते ॥
सौगतदर्शनम्
नरः पतितकायोऽपि यशःकायेन जीवति ।
श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः ॥
परोपकारः पुण्याय पापाय परपीडनम् ।
इत्येव लक्षणं पुण्यपापयोस्सर्वसम्मतम् ॥
परश्शतैरेवमादिवचोभिरिह जीवता ।
आस्था निवर्तनीयाऽऽदौ आत्मन्याशुविनाशिनि
जगतामुपकाराय वर्तितव्यं कृतात्मना ।
इदमेव हि चार्वाकदर्शनं रागभञ्जकम् ॥
देहपर्यन्तात्मवाद इति तत्त्वविदो विदुः ।
7 स्थिरदेहविदोऽप्येके जीवन्मुक्तिं समाश्रिताः ।
ते रसेश्वरसिद्धान्तनिष्ठाः तद्धृदयं त्विदम् ॥
आकाशस्य स्थितिर्यावद्यावच्च जगतः स्थितिः ।
तावन्मम स्थितिर्भूयाज्जगत्पापानि निघ्नतः ॥
इति बुद्धेन कथितमिति भास्करभाषितम् ।
तत् स्थेयं पुरुषेणेह जगतामुपकुर्वता ॥
बाह्यं केवलमेतत्स्यात् बौद्धं केवलमान्तरम् ।
सिद्धान्तस्यास्य संक्षेपः तत्तदुक्त्या प्रकाश्यते ॥
(6) सौगतदर्शनम्.
1 आत्मग्रहो महामोहः प्रथमस्तन्निवृत्तितः ।
मम किं नाहमेवेति विरंस्यति ममग्रहः ॥
२० मानमेयरहस्यश्लोकवार्तिक
तस्मादादावहंकारममकारप्रहाणतः ।
नैरात्म्यदर्शनं सिद्धं निर्वाणद्वारमुत्तमम् ॥
आत्मा यद्यप्रतीत्य स्यात् क्लेशानां नैव संक्षयः ।
अतो नैरात्म्यसिद्धान्तः बौद्धानामिति निर्णयः ॥
२ दुःखं स्वलक्षणं शून्यं क्षणिकं सकलं जगत् ।
इत्येवं भावनां सत्यां सौगतास्समुपादिशन् ॥
अनुकूलं चानुगतं सत्यं स्थिरमिति भ्रमाः ।
पूर्वोक्तभावनाश्याः भवबन्धस्य हेतवः ॥
३ यस्मिन्नेव हि सन्ताने आहिता कर्मवासना ।
फलं तत्रैव बध्नाति कार्पासे रक्तता यथा ॥
कुसुमे बीजपूरादेः यल्लाक्षाद्युपसिच्यते ।
शक्तिराधीयते तत्र काचित्तां किं न पश्यसि ॥
सजातीयाः क्रमोत्पन्नाः प्रत्यासन्नाः परस्परम् ।
व्यक्तयस्तासु संतानः स चैक इति गीयते ॥
क्षणाभेदेऽपि तद्द्वारात्मकमासविभेदतः ।
धर्माः व्यवस्थिता यद्वत् तथा दुःखव्यवस्थितिः॥
४ रागादिज्ञानसंतानवासनोच्छेदसंभवा ।
चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्तिता ॥
माहायानिकनाम्ना च विश्रुता ये बुधोत्तमाः ।
ते माध्यमिकनाम्ना च प्रथिताश्शून्यवादिनः ॥
देशना लोकनाथानां सत्त्वाशयवशानुगाः ।
भिद्यन्ते बहुधा लोके उपायैर्बहुधा किल ॥
गम्भीरोत्तानभेदेन क्वचिच्चोभयलक्षणाः ।
भिन्ना हि देशना भिन्ना शून्यताऽद्वयलक्षणा ॥
द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना ।
लोके संवृतिसत्यं च सत्यं च परमार्थतः ॥
5 चतुःप्रस्थानका बौद्धाः ख्याता वैभाषिकादयः ।
अर्थो ज्ञानान्वितो वैभाषिकेण बहुमन्यते ॥
सौत्रान्तिकेन प्रत्यक्षग्राह्योऽर्थो न बहिर्मतः ।
आकारसहिता बुद्धिर्योगाचारस्य सम्मता ॥
केवलां संविदं स्वस्थां मन्यन्ते मध्यमागमाः ।
प्रत्यक्षमनुमानं च प्रमाणद्वितयं विदुः ॥
6 दुःखं समुदयं चैव निरोधो मार्ग एव च ।
आर्यसत्याख्यया बौद्धं तत्त्वमस्ति चतुर्विधम् ॥
दुःखं प्रसिद्धं तन्मूलमपि तच्छब्दशब्दितम् ।
दुःखहेतुस्समुदयः यः प्रत्ययपदाभिधः ॥
निरोधो मुक्तिरेव स्यात् शुद्धज्ञानमहोदयः ।
मार्गो भावनया तत्त्वज्ञानं तद्धेतुरुच्यते ॥
यद्भास्करेण भाष्ये स्वे त्वार्यसत्यं विभागशः ।
निरूपितं तदप्यत्र विशदीक्रियते यथा ॥