सामग्री पर जाएँ
सर्वकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 52, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 52

10 मानमेयरहस्यश्लोकवार्तिके
3 सर्वं शून्यमिति प्राहुः केचिद्विज्ञानमित्यपि ।
अपोहवादिनस्सर्वं व्यावृत्तिरिति मेनिरे ॥
4 सर्वं सदित्येकमिति संख्येकान्तेषु चादिमः ।
शून्याद्वैतं सदद्वैतं विज्ञानाद्वैतमेव च ॥
शब्दाद्वैतं तथा कालाद्वैतमित्यादि विस्तरः ।
सर्वं नित्यमनित्यं च द्विसंख्येकान्तवादिनाम् ॥
ज्ञाता ज्ञानं ज्ञेयमिति त्रिसंख्येकान्तवादिनाम् ।
मानं मेयं मितिर्मातेत्याहुरेवं ततः परे ॥
रूपं संज्ञा च संस्कारः वेदनाऽनुभवस्त्विति ।
पञ्च स्कन्धा इति प्राहुः सौत्रान्तिकमुखाः परे ॥
जीवो धर्मोऽप्यधर्मश्च पुद्गलः काल एवच ।
आकाश इति षड्द्रव्यं षडभिज्ञाः प्रचक्षते ॥
एवं सप्तादिसंख्यानामेकान्ता अपि सम्मताः ।
ततश्च षष्टितन्त्रं यत्संदृष्टं कपिलादिभिः ॥
संख्येकान्तानुरोधेन तत्सांख्यं प्रथितं भुवि ।
सांख्या हि तत्त्वगणनापरायणतया स्थिताः ॥
प्रबोधचन्द्रोदयोक्तिरप्येवं तत्र साक्षिणी ।
ज्ञानप्रधानं यच्छास्त्रं तत्सांख्यमिति केचन ॥
तपःप्रधानं शास्त्रं तु पातञ्जलमिति स्थितम् ।
यमादयस्तपोरूपास्तत्रैव हि विशोधिताः ॥