मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 45, कुल 672 में से
संदर्भ में पढ़ेंशास्त्रारम्भः
4 मेयं मानाधीनमपि तदेवादौ निरूप्यते ।
प्रोपसर्गप्रयोगस्तु प्रमाभ्रमविवेकतः ॥
विज्ञानाद्वैतसिद्धान्ते प्रविवेको न कश्चन ।
तथाऽसत्ख्यातिसिद्धान्ते व्यवहारो ह्युपप्लवः ॥
मानाधीना मेयसिद्धिः मानसिद्धिश्च¹ लक्षणात्
तल्लक्षणप्रमाणाभ्यां वस्तुसिद्धिरितीर्यते ॥
ज्ञातं सम्यगसम्यग्वा यन्मोक्षाय भवाय वा ।
तत्प्रमेयमिहाभीष्टं न प्रमाणार्थमात्रकम् ॥
इति न्यायविदः प्राहुः प्रमाणपरिनिष्ठिताः ।
काणादास्तु पदार्थज्ञाः प्रमेयपरिनिष्ठिताः ॥
प्रमेयं च प्रमाणं च प्रयोजनमिति त्रिभिः ।
विभागैः प्रविभक्तोऽयं प्रबन्ध इति हि क्रमः ॥
(2) शास्त्रारम्भः.
1 विषयश्च फलं चैव संबन्धश्चाधिकार्यपि ।
प्रेक्षावतां प्रवृत्त्यङ्गमनुबन्धचतुष्टयम् ॥
अभिधेयादयश्शास्त्रे कथ्यन्ते प्रथमं बुधैः ।
न निश्चीयन्त एवैते कृत्स्नशास्त्रश्रुतेः पुरा ॥
प्रेक्षावतां प्रवृत्त्यङ्गं स्यात्तथाप्यर्थसंशयः ।
अनर्थसंशयो दृष्टः निवृत्त्यङ्गं परीक्षकैः ॥