सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

सर्वज्ञवादः 325
4 यदि प्रामाणिको योगी पुराणं च श्रुतिः स्मृतिः ।
तत्र मानं, नानुमानं वर्ततेऽतिप्रसङ्गतः ॥
धर्मादिविषयत्वं तु मनसो यदि शिष्यते ।
चक्षुरादेस्तथाभावः नेष्यते केन हेतुना ॥
यथौपनिषदस्त्वीशः नानुमानेन सिद्धयति ।
तथा योगी च शास्त्रेण केवलेन प्रसिद्धयतु ॥
कैश्चित्तु चक्षुषाऽनेन ब्रह्मदर्शनमिष्यते ।
योगजेनाचिन्त्यशक्तिधर्मेण सहकारिणा ॥
दिव्येन चक्षुषा कैश्चिद्ब्रह्मदर्शनमिष्यते ।
शब्दादप्यपरोक्षस्य संभवः कैश्चिदुच्यते ॥
अतीतेऽनागतेऽप्यर्थे सूक्ष्मे व्यवहितेऽपिच ।
प्रत्यक्षं योगिनामिष्टं कैश्चिन्मुक्तात्मनामपि ॥
वैशद्यातिशयात्कैश्चित् स्मृतेर्दर्शनरूपता ।
भावनाया महिम्नेष्टा समानाकारता तु सा ॥
जैमिनीयाश्शाबराश्च भाट्टाः प्राभाकरा अपि ।
सर्वज्ञप्रतिषेद्धारः, सौगता आर्हताः तथा ॥
कापिलाद्या दार्शनिकाः सादिसर्वज्ञवादिनः ।
यौगास्तार्किकमुख्याश्चानादिसर्वज्ञवादिनः ॥
स्यातामागमसर्वज्ञावनादी च प्रवाहतः ।
बीजाङ्कुरवदित्युक्तं सादिसर्वज्ञवादिभिः ॥

326 मानमेयरहस्यश्लोकवार्तिके
ज्ञानमेव हि सर्वेषां सिद्धान्तानां समाश्रयः ।
तत्रापिच विवादश्चेन्नियन्ता जन्तुरत्र कः ॥
नहि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥
(68) विज्ञानवादः.
1 अथ विज्ञानवादस्य सारोपन्यासपूर्वकम् ।
संगृह्यते प्रतिक्षेपसारो नयविदां मतः ॥
योगस्य लक्षणं त्वेतत् शमथा च विपश्यना ।
समाधिशमधेत्युक्तः सम्यग्ज्ञानं विपश्यना ॥
ताभ्यां द्वाभ्यां बलीवर्दसदृशाभ्यां य ऊह्यते ।
स मार्गो योग इत्युक्तः तेनाचरति यः पुनः ॥
स योगाचार इत्युक्त इति भास्करभाषितम् ।
शमथादिपदं प्रायः पालीभाषेति गम्यते ॥
अविभागोऽपि वित्त्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥
इति योगाचारमतं प्रायः सर्वत्र विश्रुतम् ।
वैशेषिकमतं चापि यौगमित्येव कीर्त्यते ॥
योगाचारविभूत्या यस्तोषयित्वा महेश्वरम् ।
चक्रे वैशेषिकं शास्त्रमिति प्राशस्तभाषितम् ॥

विज्ञानवादः 327
तथाच योगाचाराख्याः केचिद्वैशेषिका अपि ।
प्रथिता इति गम्यन्ते युक्तिमानादिसाम्यतः ॥
२ तद्योगाचारसिद्धान्तयुक्तयः क्रमशॊऽधुना ।
निरूप्यन्तेऽत्र संगृह्य विप्रकीर्णाः क्वचित्क्वचित् ।
नीलपीतादिवस्तूनां ज्ञानाकारत्वकल्पना ।
लघ्व्यर्थाकारपक्षे तु न स्वतो भासते जडः ॥
तद्ग्राहकाकारता च कल्पनीयेति गौरवम् ।
बाह्यान्तरकृतो भेदः परमार्थो न हीष्यते ॥
ग्राहकाद्विच्छिन्नता हि मता ग्राह्यस्य बाह्यता ।
न शरीरापेक्षयाऽतः विच्छेदोऽसिद्ध एव सः ॥
बहिर्वदवभासोऽपि भेदवासनया कृतः ।
परिच्छेदान्तराद्योऽयं भावो बहिरिव स्थितः ॥
ज्ञानस्याभेदिनो भेदप्रतिभासोऽप्युपप्लवः ।
सहोपलम्भनियमाद्भेदो नीलतद्धियोः ॥
ज्ञानमेवैवमाकारमात्मना प्रथते यतः ।
नाप्रत्यक्षस्य तस्यास्ति प्रमाणान्तरतो गतिः ॥
संवेद्यत्वाच्च नीलादेर्ज्ञानाकारत्वनिश्चयः ।
अर्थान्तरस्य च ग्राह्यलक्षणं न हि युज्यते ॥
ज्ञानं प्रकाशकं लोके ह्यप्रकाशस्य वस्तुनः ।
तस्मात् ज्ञानं ग्रहीतव्यं प्रागर्थादिति निश्चितम्

प्रकाशकोऽप्यविदितो दीपादिर्न प्रकाशकः ।
अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति ॥
अविशेषोऽन्यथा स्वीयपरकीयोपलम्भयोः ।
निराकारं च विज्ञानं ग्रहीतुं नैव शक्यते ॥
प्रतिकर्मव्यवस्थाऽपि साकारत्वे प्रकल्पते ।
आकारसहितैवैषा धीः कारकसमुद्भवा ॥
नैवान्यथा स्याद्विषयनियमस्यावधारणा ।
नार्थैरेव विशेषस्तु निराकाराधियां भवेत् ॥
तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः ।
भाव्यं तेनात्मना येन प्रतिकर्म विभज्यते ॥
अर्थेन रज्यमानं हि निराकारं निसर्गतः ।
ज्ञानं न खलु पश्यामः लाक्षया स्फटिकं यथा ।
इत्थं सत्यपि बाह्येऽर्थे ज्ञानस्याकारकल्पना ।
भवेदेवेति तत्रैव संतोषेण स्थितिः वरम् ॥
अर्थाकारो गृहीतश्चेत् ज्ञानेन स्वगतः पुनः ।
ज्ञानान्तरेण ग्राह्यस्स्यात् तदाऽऽकारद्वयग्रहः ॥
एवमेवाभ्युपगमे भवेदेवानवस्थितिः ।
तद्ग्रहस्यानपेक्षायामाद्यस्यैवाग्रहो वरम् ॥
3 अन्योन्यसंसर्गधर्मो नाकार इति साम्प्रतम् ।
अनर्थजस्मृतिस्वप्नबुद्धिष्वाकारदर्शनात् ॥

ज्ञानं स्वच्छं हि चिन्मात्ररूपं चाप्यविलक्षणम् ।
तस्य नीलादिभेदस्तु वासनैकनिबन्धनः ॥
अत एव तुरीये तद्वासनोच्छेदसंभवे ।
सच्चिन्मात्रैकरूपेण विज्ञानमवभासते ॥
4 वासना नाम ताद्रूप्यं बीजपूरसुमादिवत् ।
पूर्वमात्मस्वरूपेण चोत्तरं जनयेत्सदा ॥
उत्तरं वास्यत इति पूर्वं वासयतीत्यपि ।
व्यवहारः परं सर्वं सर्वात्मकमिति स्थितम् ॥
अपि सर्वं च विज्ञानं सर्वाकारं तथाऽपिच ।
कदाचित्कुत्रचित्काचित् वासनाऽर्थक्रियां क्रियात्॥
यथा परेषां संस्कारः कश्चित्कांचित् स्मृतिं क्रियात्
यथा च शब्दः सर्वार्थः बोधकोऽर्थस्य कस्य चित् ॥
न संवितेस्सत्तयैव युक्ता विषयवेदना ।
तस्यास्सर्वत्राविशेषादविशेषप्रसङ्गतः ॥
ग्राह्यलक्षणतादात्म्यात्तत्सरूपयितुं क्षमम् ।
ततश्च ज्ञानवैचित्र्यं समनन्तरसात्कृतम् ॥
5 ग्राह्यलक्षणयोगाच्च ग्राहकान्न विभिद्यते ।
विधान्तरासंभवेन तादात्म्यं ग्राह्यलक्षणम् ॥
ग्राह्यत्वं यदि हेतुत्वं ग्राह्यं स्याच्चक्षुराद्यपि ।
आकारार्पणयोग्यत्वं नीलादौ न हि निश्चितम् ॥
M.R. 42

330 मानमेयरहस्यश्लोकवार्तिके
नार्थकारस्य चारोपः नैव च प्रतिबिम्बनम् ।
नचापि तस्य निष्पत्तिः नापि संसर्गरूपता ॥
नानन्तरप्रत्ययाख्यवासनायोग एववा ।
न मध्यवस्वाकारश्च नैवं वादान्तराण्यपि ॥
ग्राह्यत्वं नापि सारूप्यं नापि सान्निध्यलक्षणम् ।
एकदेशेन सारूप्ये सर्वस्स्यात्सर्ववेदकः ॥
सर्वात्मना तु सारूप्ये ज्ञानमज्ञानतां व्रजेत् ।
तादात्म्यमेव ग्राह्यत्वं परिशेषाद्व्यवस्थितम् ॥
6 नीलं संवेदनादेव स्वात्मनो न विभिद्यते ।
संवेद्यते न ह्यनात्मा नीलवित्तौ च पीतवत् ॥
यद्वेद्यते यया बुद्ध्या तत्तया न विभिद्यते ।
यथाऽऽत्मा वेद्यते बुद्ध्या तथा नीलादयस्तथा ॥
संयोगात्समवायाद्वाऽप्येकार्थसमवायतः ।
कार्यकारणभावाद्वा व्याप्तिरव्याप्तिदूषिता ॥
परिशेषात्तु तादात्म्यमास्थेयं सर्ववादिभिः ।
तस्माद्विज्ञानमेवार्थः कामदोग्ध्री हि वासना ॥
(69) विज्ञानवादनिरासः.
1 अत्रोच्यते न्यायविदां प्रत्युक्तीनां च संग्रहः ।
न ह्यर्थः कल्प्यते किंतु सन्नेव प्रतिभासते ॥

विज्ञानवादनिरासः 33
लघ्वी युक्तिः कल्पनायां न हि कॢप्ते प्रसर्पति ।
आकारोऽनतिरिक्तश्चेत्समूहालम्बने धियः ॥
ऐक्यं स्यान्नीलपीतादेरतिरिक्तो न संमतः ।
अपोहरूपं नैल्याद्यमितिचेन्नीलपीतते ॥
समाविशेतां नैकत्र विरोधो वा विलीयते ।
ग्राहकाद्विच्छिन्न एव ग्राह्याकारोऽवभासते ॥
इदं नीलमिति ह्येव न त्वहं नीलमित्यपि ।
तदैक्येनावभासोऽस्ति नापि धीः स्वप्रकाशिनी ।
यदि ज्ञानं स्वप्रकाशं अहं नीलमिति प्रजाः ।
सर्वा अप्यनुसंदध्युः नच मुह्यति कश्चन ॥
उपेयनिह्नवश्शक्यः नोपायेनेह कुत्रचित् ।
रूपप्रकाशकं चक्षुः चक्षुरेव प्रकाशताम् ॥
इत्युक्त्वा न क्वचिद्रूपमपह्नोतुं हि साम्प्रतम् ।
मूर्तो द्रवश्च कठिनः महान् बाह्योऽवगम्यते ॥
स्वच्छं तद्विपरीतं च ज्ञानं भासकमिष्यते ।
अतस्तदैक्यवादोऽसौ नाविवादो विदां मतः ॥
2 उपलब्धोऽर्थदृष्टिः स्यात् न तु तद्दृष्टिरिष्यते ।
अगृहीतं ज्ञानमेव भवेदर्थप्रकाशकम् ॥
किंच प्रदीपवद्द्धूमवद्वा स्याद्यदि धूमवत् ।
भवेदर्थानुमेयत्वं तदिदं त्वदसंमतम् ॥

-32 मानमेयरहस्यश्लोकवार्तिके
आकारद्वयसंवित्तिविरहान्न च दीपवत् ।
घटं दीपं च पश्यामीत्यस्ति द्वितयवेदनम् ॥
न तु ज्ञानेन विज्ञेयं जानामीति द्वयग्रहः ।
उट्टङ्कितोऽसौ दीपादिदृष्टान्तश्चक्षुरादिना ॥
त्रयः प्रकाशकाः दीपधीशब्दाः स्वप्रकाशकाः ।
इत्युक्तं तत्र शब्दः समयग्रहपूर्वकम् ॥
अर्थं प्रकाशयत्यात्मग्रहे श्रोत्रमपेक्षते ।
दीपोऽपि चक्षुषा ग्राह्यः ग्राहयत्यर्थमञ्जसा ॥
इयान् विशेषः कुम्भादौ चक्षुरालोकमिच्छति ।
आलोकग्रहणे तेन निरपेक्षमिति स्थितम् ॥
एतावत्तैव दीपस्य न भवेत्स्वप्रकाशता ।
स्यादन्यथा घटस्यापि बैडालाक्ष्याद्यपेक्षया ॥
तस्मात् ज्ञानं नाम वस्तु परस्यैव प्रकाशकम् ।
दृश्यते न स्वप्रकाशमिति न्यायविदां मतम् ॥
3 या चोपजनिता यस्मात्कर्मकारकतः मतिः ।
तादृग्विषयनैयत्यवती सा व्यवतिष्ठते ॥
अयं च नियमो वस्तुस्वभावैकनिबन्धनः ।
समः पर्यनुयोगोऽयं ज्ञानाकारमतेऽपि ते ॥
अन्वयव्यतिरेकाभ्यामर्थः स्याज्जनको धियाम् ।
अपि प्रवृत्तिर्व्याख्याता ततो नियतगोचरा ॥

विज्ञानवादनिरासः
नीलपीतादिविषयाः सर्वसाधारणा मताः ।
तेषां विज्ञानरूपत्वेऽसाधारण्यं प्रसज्यते ॥
नर्तकीभ्रूलताक्षेपः न ह्येकः पारमार्थिकः ।
परमाणुसमूहत्वादेकत्वं तस्य कल्पितम् ॥
साधारण्यस्योपपत्तिरित्थं या चोपवर्णिता ।
न्यायवार्तिकतात्पर्यटीकायां सा प्रतीरिता ॥
4 अभेदपक्षे सुदृढसहार्थानुपपत्तिः ।
सहोपलम्भनियमोऽसिद्धः हेतुस्त्वदीरितः ॥
सहधीरेकसामग्रीवेद्यत्वेनेष्यते क्वचित् ।
तावन्मात्रेण चैकत्वे व्यवहारो विरुध्यते ॥
नीलग्रहणवेलायां ग्राहको नैव गम्यते ।
ग्राह्यमात्रावभासोऽयमिदं नीलमिति ग्रहः ॥
न स्मरामि मया कोऽपि गृहीतोऽर्थस्तदेति हि ।
ग्राह्याकारानुपश्लिष्टः ग्राहकोऽप्यवमृश्यते ॥
ग्राह्यग्रहणतादात्म्यं शशशृङ्गाद्यसद्ग्रहे ।
अस्तिचेद्व्याहतिः नो चेत् व्यभिचारस्सुदुस्तरः ॥
किंच सर्वज्ञसंवित्तौ सर्वाकारानुबन्धतः ।
सर्वस्वभावता वा स्यान्निस्स्वभावत्वमेव वा ॥
इत्थं विभक्तज्ञानार्थाकारसंवेदनात्कथम् ।
एकोपलम्भनियमादभेदोक्तिर्न साहसम् ॥

334 मानमेयरहस्यश्लोकवार्तिके
5 ननु चैकत्र नक्षत्रं तारका तिष्य इत्यपि ।
विरुद्धलिङ्गसंसर्गः कथं तस्मादुपप्लवः ॥
परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ ।
कुणपः कामिनी भक्ष्यमिति तिस्रो विकल्पनाः ।
एकस्यां लिङ्गवचने दाराः इति कथं स्मृते ।
एकता स्त्रीलिङ्गता च कथं षण्णगरीत्यपि ॥
कथंवा ह्रस्वदीर्घादिव्यवहारो मिथो भवेत् ।
तस्माद्विज्ञानभेदेन वासनाभेदहेतुना ॥
विरोधस्सुपरीहार्यः न स्वतन्त्रार्थकल्पना ।
अत्रोच्यते शब्दशास्त्रान्नार्थतत्त्वस्य निह्नवः ॥
लिङ्गसंख्याविपर्यासः शब्दसाधुत्वमूलकः ।
नार्थं भिनत्ति साधुत्वं समयैकनिबन्धनम् ॥
नार्थासंस्पर्शिता चास्य तावता व्यवतिष्ठते ।
यथा संकेतितो लोके तथा शक्नोति भाषितुम् ॥
अपिवा वस्तुताद्रूप्यसदसत्त्वानपेक्षया ।
शब्दप्रयोगसाधुत्वमन्वाख्यायेत केवलम् ॥
संस्त्यानप्रसवस्थानैः यथा पातअले मते ।
लिङ्गत्रयस्य सद्भावः स्यात्सत्त्वादिगुणात्मनः ॥
6 परिव्राट्प्रभृतीनां तु कुणपादिप्रतीतयः ।
अर्थस्यानेक शक्तित्वान्नावहन्त्यर्थशून्यताम् ॥

विज्ञानवादनिरासः 335
किं न भक्षयितुं शक्या नारी कौलेयकेन सा ।
किंवा न शमयत्येषा कामिनो मदनज्वरम् ॥
कुणपात्केन रूपेण योगिनः सा विशिष्यते ।
धीत्रयं तु न सर्वेषामभावात्सहकारिणः ॥
या प्रतिप्राणि नियता विविधा सहकारिणी ।
वासना तदपेक्षः स्यात् आत्मलाभो धियां पुनः॥
स्वप्रत्ययानुकारोऽपि बह्वाकारेषु वस्तुषु ।
निर्धारणे भवेद्धेतुः नापूर्वाकारकल्पने ॥
तथैव तदुपेतव्यं यद्यथैवोपलभ्यते ।
न चार्थरूपात् भेदेन धियामस्ति निरूपणम् ॥
तस्माद्देशादिसद्भावनिमित्तैः प्रत्ययैः पृथक् ।
वस्त्वाकाराः प्रतीयेरन् उद्भवाभिभवात्मकाः ॥
हेतुश्चेद्वासनाभेदः विविधप्रतिभोद्भवे ।
तेनैव सर्वनिर्वाहे किमर्थः परिकल्प्यते ॥
न ह्यर्थः कल्प्यते किं तु क्लृप्त एवावभासते ।
बहुरूपस्य चार्थस्य त्वेकरूपत्वभासने ॥
कल्प्यते कारणं किंचिन्नियतं वासनादिकम् ।
भवन्मते वासनायाः ज्ञानरूपत्वमिष्यते ॥
न हि स्वच्छे च विज्ञाने किंचित्कालुष्यकारणम् ।
अतिरेके तु पर्यायात्सोर्थ एव विनिश्चितः ॥

३३६ मानमेयरहस्यश्लोकवार्तिके

पदार्थसमसंख्याकाः स्वीकार्या एव वासनाः।
नहि गोवासनाभेदादुदेतुं हस्तिधीरलम् ॥
निरन्वयविनाशाच्च न तदंशोऽनुवर्तते ।
यतः कथंचिद्वास्येत पूर्वेण ज्ञानमुत्तरम् ॥
तस्मात्प्रतीतिशरणा पदार्थानां व्यवस्थितिः ।
प्रतीतिनिह्नवे सर्वन्निह्नवात्स्वार्थनिह्नवः ॥
7 विषयाणां मिथो भेदो यदि स्याद्बुद्धिभेदतः ।
बुद्धिभेदोऽपि विषयभेदादिति कथं भवेत् ॥
बुद्धयो विषयाश्चैव स्वतएव परस्परम् ।
भिन्नाः किन्त्वर्थभेदोऽयं बुद्धिभिः ज्ञायते स्वयम् ॥
अतः प्रत्यक्षबुद्धेस्सः कारणं विषयात्मना ।
इति स्वीकुर्वते प्राज्ञाः तस्मान्नान्योन्यसंश्रयः ॥
अर्थस्य बुद्धिहेतुत्वमन्वयव्यतिरेकतः ।
सिद्ध्यतीत्यत्र विज्ञेया प्रसिद्धोदाहृतिः पुनः ॥
यदाहि देवदत्तार्थी कश्चिद्गच्छति तद्गृहम् ।
तत्रासन्निहितं चैनं गत्वाऽपि स न पश्यति ॥
क्षणान्तरे स आयान्तं देवदत्तं निरीक्षते ।
तत्र तत्सदसत्त्वेन तथात्वमवगम्यते ॥
8 क्षणभेदश्च सन्तानभेदो ज्ञानान्तरेण चेत् ।
गृहीतश्चागृहीतश्चानिष्टो विज्ञानवादिनाः ॥

विज्ञानवादनिरासः 33
ज्ञानान्तरेण ज्ञानेषु गृह्यमाणेष्वसंभवि ।
तादात्म्यं तत्र यः पन्थाः सर्वत्रापि स एव नः ।
यदि त्वनागतातीतज्ञानग्राहिषु चैकता ।
अनागतमतीतं वा स्वयं स्यात्किं ग्रहीष्यति ॥
तर्ह्येकक्षणशेषो वा नित्यैका संविदेव वा ।
स्वीक्रियेत स्वसिद्धान्तोऽप्यर्थायोगान्न सिद्ध्यति ।
अथ बोधेन तादात्म्ये नृशृङ्गाद्यपि सङ्गवेत् ।
किंच बोध्येन तादात्म्ये कुशली मध्यमागमः ॥
मिथोविरुद्धैः युगपत् ज्ञातैः बुद्धेस्तदात्मता ।
कथं स्यात् बोध्यतादात्म्यानुपपत्तिपराहता ॥
अथ बोध्यस्य मिथ्यात्वात्तादात्म्यमुपचर्यते ।
तदा सहोपलम्भादिहेतवः नहि साधकाः ॥
वेदान्ताद्वैतसिद्धान्तेऽप्यभेदो नहि साध्यते ।
भेदो व्यासिद्ध्यत इति भाष्यभामत्युदीरितम् ॥
भेदमात्रापह्नवस्तु त्रय्यन्ताद्वैतवादिनाम् ।
भिद्यमानापह्नवस्तु स्याद्वाह्याद्वैतवादिनाम् ॥
किंचासद्विषया सर्वा बुद्धिर्यद्युपगम्यते ।
ज्ञानमेकं सत्यमिति बुद्धबुद्धिरपीदृशी ॥
तदप्यस्त्वितिचेत्सर्वा धीर्मृषेत्यापि धीर्मृषा ।
तस्मान्निषेधसिद्धान्तः स्वयमेव विहन्यते ॥
M.R. 43

338 मानमेयरहस्यश्लोकवार्त्तिके
9 चिन्तनीयमिदं चात्र परीक्षकविशोधितम् ।
विज्ञानवादसर्वस्वं केवलं सूक्ष्मया दृशा ॥
ज्ञानाकारात्मके लोके बाह्याकारविकल्पना ।
अपरस्सोऽपि विज्ञानाकार एवेति निर्णयः ॥
पञ्चभूतात्मके लोके यद्यद्वस्तूपजायते ।
तावद्भूतात्मकं सर्वं न च किंचिदभौतिकम् ॥
सौवर्णमेरुसंभूतं नादुर्वर्णं कथं भवेत् ।
ज्ञानात्मके प्रपञ्चेऽस्मिन् दुर्लङ्घा ज्ञानवागुरा ॥
इति विज्ञानवादस्य मूलं विज्ञानवासना ।
वासना चेत् ज्ञानशक्तिः ज्ञानमेवावशिष्यते ॥
वासना बाह्यशक्तिश्चेत् बाह्यमेवावशिष्यते ।
यदि चोभयशक्तिस्स्यादुभयं चैव सिद्धयति ॥
आन्तरं बाह्यमित्येवं व्यवहारो हि वासना ।
यथैव वासितो जन्तुः तथैव प्रतिपद्यते ॥
विद्या च पूर्वप्रज्ञा च श्रद्धा संस्कारकर्मणी ।
आत्मनो रूपमेतत्स्यात्तथा काममयः पुमान् ॥
70 क्षणभङ्गवादनिरासः.
1 त्यज्यतां दीर्घसंसारकारणं स्थिरताग्रहः ।
गृह्यतां क्षणभङ्गत्वं परवैराग्यकारणम् ॥

क्षणभङ्गवादनिरासः ३३
प्रत्यभिज्ञाप्रमाणेन वस्तूनां स्थैर्यमिष्यते ।
प्रत्यभिज्ञा नाम केयमिति स्पष्टं निरूप्यताम् ॥
स एवायं घट इति ज्ञानमेकमुत द्वयम् ।
संस्कारमात्रजन्यं यद्विज्ञानं स्मरणं तु तत् ॥
इन्द्रियादिप्रमाणोत्थं ज्ञानं त्वनुभवो मतः ।
प्रत्यभिज्ञा त्विन्द्रियेण जन्यं संस्कारसाह्यतः ॥
अयमेकत्वसिद्धान्तः द्वित्वसिद्धान्त उच्यते ।
ज्ञानद्वयं प्रत्यभिज्ञा स्मरणानुभवात्मकम् ॥
वक्तव्यं कारणं तत्र यद्येकत्वमुपेयते ।
स्मृतौ हेतुर्हि संस्कारोऽनुभवे हेतुरिन्द्रियम् ॥
उभाभ्यां च न सम्भूय तज्ज्ञानमुपजन्यते ।
पृथक्पृथक् स्वकार्ये हि निर्ज्ञातं कौशलं तयोः ।
स्मृतिः स्मर्तव्यविषया ग्रहणं ग्राह्यगोचरम् ।
न तदैक्यपरामर्शि दृश्यते प्रत्ययान्तरम् ॥
यथा निरन्तरोत्पन्ने घटज्ञानपटस्मृती ।
न तुल्यविषये तद्वदेते अपि भविष्यतः ॥
यद्वा भवतु नामेदं एकमेव हि वेदनम् ।
तथापि कीदृशं वस्तु स्पृशतीति परीक्ष्यताम् ॥
अतीतकालयुक्तं चेत् स्मरणान्न विशिष्यते ।
अनागतविशिष्टं चेत् संकल्पप्रायमेव तत् ॥

340 मानमेयरहस्यश्लोकवार्तिके
वर्तमानैकनिष्ठं चेत् स्थिरत्वं तर्हि सुस्थिरम् ।
कालत्रयपरीतं चेत् विरोधात्तत्तु दुर्लभम् ॥
परस्परपरित्यागव्यवस्थितनिजात्मनाम् ।
एकत्र न समावेशः कथंचिदुपपद्यते ॥
स्मरणप्रत्यभिज्ञानस्वकर्मफलभोक्तृता ।
क्षणिकत्वेऽपि कथिता कार्यकारणभावतः ॥
2 क्षणभङ्गानुमानं च क्षणवादे निरूपितम् ।
तन्निरासांशसारोऽत्र संक्षिप्य प्रतिपाद्यते ॥
अर्थक्रियासमर्थत्वं सत्त्वं यत्तावदुच्यते ।
तदसत्कूटहेमादौ व्यभिचारावधारणात् ॥
किंत्वबाधितसद्बुद्धिगम्यता सत्त्वमिष्यते ।
क्वचिच्च कालदेशादिनिबन्धनमपीष्यते ॥
अर्थक्रियासमर्थस्य तदुत्थं सत्त्वमस्तु वा ।
तदपि व्याप्तिशून्यत्वात् न हेतुर्गन्धवत्त्ववत् ॥
क्षणिकस्यापि भावस्य सत्त्वं नास्त्येव सोऽपिहि ।
क्रमेण युगपद्वापि न कार्यकारणे क्षमः ॥
क्षणिकस्य क्रमः कीदृक् युगपत्करणे पुनः ।
एकवस्त्वात्मकस्यापि रूपभेदः प्रसज्यते ॥
कार्याण्येकेन रूपेण भिन्नानि जनयेत्कथम् ।
रूपभेदविरोधात्तु वस्तुनो नास्तिता भवेत् ॥

क्षणभङ्गवादनिरासः 341
देशकालविकल्पेऽपि क्षणस्य क्षुण्णता भवेत् ।
स्थिते हि वस्तुसद्भावे क्षणिकत्वं परीक्ष्यते ॥
३ क्षणिकत्वे पदार्थानां कारणत्वं च दुर्ग्रहम् ।
सर्वथा परनिष्पत्तौ निर्व्यापारो न कारणम् ॥
पूर्वक्षणविनाशे च कल्प्यमाने निरन्वये ।
उत्तरस्यानिमित्तत्वात् उत्पत्तिर्नोपपद्यते ॥
अत्यन्तासन्नसौ तस्मिन् न तावद्व्यापृतिक्षमः ।
स्वयं चाभावदृष्टत्वात् कस्मिन् काले करिष्यति ॥
नाशोत्पादसमत्वेऽपि नैरपेक्ष्यात्परस्परम् ।
न कार्यकारणत्वे स्तः तद्व्यापाराननुग्रहात् ॥
न ह्यलब्धात्मकं वस्तु पराङ्गत्व्याय कल्पते ।
तस्मात्प्राक्कार्यनिष्पत्तेः व्यापारो यत्र दृश्यते ।
तदेव कारणं तस्य न त्वानन्तर्यमात्रकम् ।
सव्यापारस्य कर्तृत्वे क्षणिकत्वं तु दुर्घटम् ॥
सत्त्वादक्षणिकत्वस्य सिद्धेर्हेतुर्विरुध्यते ।
एवं च सत्त्वं व्यावृत्तं क्षणिकेभ्यो विशेषतः ॥
अत एव च कार्याणां युगपन्न समुद्भवः ।
न चापि कृत्वा करणं सामग्री हि न सर्वदा ॥
प्राणिकर्मविपाकोऽपि सामग्र्यन्तर्गतो मतः ।
सर्वत्र सुखदुःखादिहेतोस्समुपपादनात् ॥

342 मानमेयरहस्यश्लोकवार्तिके

समर्थत्वासमर्थत्वविकल्पेऽतिप्रसङ्गतः ।
सामग्र्या एव सामर्थ्यं ततः कार्यस्य दर्शनात् ।
विनश्वरस्वभावेति यदुक्तं तत्र चिन्त्यताम् ।
जायमानस्वभावत्वे कृतं जननहेतुभिः ॥
नाजायमानभावेऽपि कर्तुं शक्यो नृशृङ्गवत् ।
तस्मात्स्वभावयोगेऽपि व्यवस्था सहकारिभिः ॥
5 स एवायमिति ज्ञानं प्रत्यभिज्ञेति कीर्त्यते ।
यः पूर्वमासीत्कुम्भादिः सोऽस्तीदानीमपीति हि
अतीतकालवानर्थः तद्बुद्धाववभासते ।
भूतः कालो भूततया विषयीक्रियते तथा ॥
अतीतस्येन्द्रियज्ञाने कथं विषयतेति चेत् ।
शतमाम्रान् बभक्षेति कथमत्र प्रतीयते ॥
अतीतैकोनशतकरसालफलगोचरा ।
यथा तथाऽतीतकालयोगोऽपि प्रतिभासताम् ॥
प्रतिभाससमारूढः प्रत्यभिज्ञायते यदा ।
तदेन्द्रियार्थसंसर्गाच्चैका धीरुपजायताम् ॥
अथवा प्रत्यभिज्ञानं गन्धवत्कुन्दबुद्धिवत् ।
तच्चैकं मानसं ज्ञानं पूर्वज्ञानविशेषिते ॥
अथ सन्तानमाश्रित्य क्रियते तत्समर्थनम् ।
न, तस्य भिन्नाभिन्नत्वविकल्पानुपपत्तितः ॥

क्षणभङ्गवादनिरासः 343
6 सद्यो जातस्य हि शिशोः मुखोल्लासादिहेतुभिः ।
हर्षशोकादियोगश्च भवतीत्यनुमीयते ॥
तस्मान्मुखविकासादेः हर्षादिः तस्य हि स्मृतिः ।
स्मृतेरनुभवो हेतुः स च जन्मान्तरे शिशोः ॥
तस्मात् स्मृतिप्रत्यभिज्ञाप्रामाण्यात् जगतः स्थितिः
न तत्प्रामाण्यसंत्यागी लौकिको नाप्यलौकिकः ॥
सहकारिविशेषस्य सन्निधेरप्यसन्निधेः ।
करणाकरणे स्यातां तौ च कालविभेदतः ॥
कालद्वयविरोधस्तु स्वव्यपेक्षानिबन्धनः ।
अन्यापेक्षौ च तौ पूर्वापरौ संभवतस्सदा ॥
अतत्तामनिदंतां च तत्त्वेदंत्वे निरस्यतः ।
अन्योन्यप्रतिषेधस्तु न ततस्सेद्धुमर्हति ॥
एकस्य भिन्नकालाभ्यां वैशिष्ट्यं विहतं यदि ।
तथा स्याद्भिन्देशाभ्यां पुञ्जसिद्धिविरुध्यते ॥
पूर्वापरबहुव्यक्तिव्याप्तिग्रहणसंभवा ।
न काचिदपि युक्तिस्स्यात् सर्वक्षणिकवादिनेः ॥
न वैजात्यं विना तत्स्यात् न तस्मिन्ननुमा भवेत् ।
विना तेन न तत्सिद्धं नाध्यक्षं निश्चयं विना ॥
7 अत्र केचित् क्षणविदः सत्त्वाख्यं साधनं पुनः ।
नित्यतत्त्वोपदेशेन भवेदागमबाधितम् ॥

344 मानमेयरहस्यश्लोकवार्तिके
तच्च शून्यं तत्त्वमिति मत्वा हेत्वन्तरं विदुः ।
तदेतद्ध्रुवभावित्वं ध्वंसस्य प्राङ्निरूपितम् ॥
ततश्च सर्वभावानां क्षणिकत्वं व्यवस्थितम् ।
तदेतद्ध्रुवभावित्वं विकल्पासहमित्यपि ॥
न्यायसिद्धाञ्जनग्रन्थे विस्तरेण निरूपितम् ।
इति ज्ञानप्रसङ्गेन क्षणभङ्गो निरूपितः ॥
अनिर्वाच्यमनित्यं च क्षणिकं चेति भेदतः ।
विदुः प्रपञ्चं विबुधाः तथाऽन्येऽप्यन्यथा विदुः ॥
सर्वे ते प्रतिषेद्धारः स्थिरतां रागकारिणीम् ।
व्यतिरेकदृशां सर्वमेकस्मिन् पर्यवस्यति ॥
8 बुद्ध्या विविच्यमानायां स्वभावो नावधार्यते ।
अतो निरभिलप्यास्ते निस्स्वभावाश्च दर्शिताः ॥
इति पद्यं गौतमेन न्यायसूत्रे निराकृतम् ।
प्रमाणतोऽर्थोपलब्धेरिति, तद्भाष्यसंग्रहः ॥
बुद्ध्या विवेचनादेव भावयाथात्म्यनिर्णयः ।
यदस्ति च यथा चेति यन्नास्ति च यथा चवा ॥
सर्वं प्रमाणबलतः उपलब्ध्याैव सिद्धयति ।
प्रमाणतो योपलब्धिः सा स्याद्बुद्ध्या विवेचनम्।
तेनैव सर्वशास्त्राणि सर्वकर्माणि देहिनाम् ।
सर्वे च व्यवहारास्स्युर्व्याप्तास्तत्सर्वसाक्षिकम् ॥