मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 380, कुल 672 में से
संदर्भ में पढ़ें338 मानमेयरहस्यश्लोकवार्त्तिके
9 चिन्तनीयमिदं चात्र परीक्षकविशोधितम् ।
विज्ञानवादसर्वस्वं केवलं सूक्ष्मया दृशा ॥
ज्ञानाकारात्मके लोके बाह्याकारविकल्पना ।
अपरस्सोऽपि विज्ञानाकार एवेति निर्णयः ॥
पञ्चभूतात्मके लोके यद्यद्वस्तूपजायते ।
तावद्भूतात्मकं सर्वं न च किंचिदभौतिकम् ॥
सौवर्णमेरुसंभूतं नादुर्वर्णं कथं भवेत् ।
ज्ञानात्मके प्रपञ्चेऽस्मिन् दुर्लङ्घा ज्ञानवागुरा ॥
इति विज्ञानवादस्य मूलं विज्ञानवासना ।
वासना चेत् ज्ञानशक्तिः ज्ञानमेवावशिष्यते ॥
वासना बाह्यशक्तिश्चेत् बाह्यमेवावशिष्यते ।
यदि चोभयशक्तिस्स्यादुभयं चैव सिद्धयति ॥
आन्तरं बाह्यमित्येवं व्यवहारो हि वासना ।
यथैव वासितो जन्तुः तथैव प्रतिपद्यते ॥
विद्या च पूर्वप्रज्ञा च श्रद्धा संस्कारकर्मणी ।
आत्मनो रूपमेतत्स्यात्तथा काममयः पुमान् ॥
70 क्षणभङ्गवादनिरासः.
1 त्यज्यतां दीर्घसंसारकारणं स्थिरताग्रहः ।
गृह्यतां क्षणभङ्गत्वं परवैराग्यकारणम् ॥