मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
294 मानमेयरहस्यश्लोकवार्तिके
यथा बुहुदपक्ष्यादौ विसंवादस्त्वपक्रमात् ।
तथा मणिप्रभास्थाने संवादोऽन्यनिबन्धनः ॥
विषय कारतापन्नेन्द्रियवृत्त्यनुपातिनी ।
पुरुषेणोपरक्ता च बुद्धिवृत्तिः प्रमा मता ॥
पातञ्जलैः कापिलैश्च चेतनाशक्त्यनुग्रहः ।
पौरुषेयो बोध इति चिच्छायेत्यपि कीर्त्यते ॥
३ अबाधितानधिगतवस्तुज्ञानं प्रमां विदुः ।
विपरीतख्यातिवादिकौमारिलमतानुगाः ॥
अनिच्छन्तोऽन्यथाख्यातिमनिच्छन्तः स्मृतिं प्रमाम्
अनुभूतिं प्रमामाहुः गुरवोऽख्यातिवादिनः ॥
४ स्वयं प्रकाशते ज्ञानं त्रिपुटीज्ञानवादिनाम् ।
मानसप्रत्यक्षवादः तार्किकैरुररीकृतः ॥
ज्ञानातीन्द्रियवादं तु कौमारिलमतं विदुः ।
अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति ॥
सहोपलम्भनियमादभेदो नीलतद्धियोः ।
इति वादो निराकारि ज्ञानातीन्द्रियवादिभिः ॥
क्षणान्तरविलम्बेन मानसाध्यक्षवादिभिः ।
स्वानुभूतिविरोधेन स्वप्रकाशत्ववादिभिः ॥
विज्ञानवादो निर्धूत इति वेदान्तपद्धतिः ।
तस्मात्सौगतशिक्षार्थं मतिजाड्यमिति स्थितम् ॥
भ्रमविचारः 295
एवं प्रमाप्रमाणानां प्रायः तत्त्वं विचारितम् ।
विशिष्य विस्तरः तत्तत्तीर्थिकैः प्रकटीकृतः ॥
(60) भ्रमविचारः.
1 अथ भ्रान्तिज्ञानतत्त्वं किंचिदत्रावधार्यताम् ।
आत्मख्यातिरसतख्यातिः अन्यथाख्यातिरित्यपि ॥
अख्यातिस्सदसद्भिन्नख्यातिस्सत्ख्यातिरित्यपि ।
शून्यख्यातिश्च निरधिष्ठानख्यातिरिहाष्टमी ॥
अर्थसंसर्गजाकारख्यातिश्च नवमी मता ।
बाह्याकारार्पिताकारख्यातिस्तु दशमी स्थिता ॥
भ्रान्तिस्थले पक्षभेदाः विद्वद्भिरुररीकृताः ।
तेषां विभागवचनमेतदत्र प्रवर्तते ॥
तत्रार्थशून्यं विज्ञानं योगाचारास्समाश्रिताः ।
आत्मख्यातिं विदुः स्वप्ने ह्यसत्ख्यातिं च जाग्रति॥
2 कल्पिताकारिणी ख्यातिरसतख्यातिरितीतरे ।
तत्तु वैभाषिकमतं कल्पनावादिनो हि ते ॥
असतोऽपि भ्रमे भानं केचिद्वेदान्तिनो विदुः ।
विलक्षणाऽन्यथाख्यातिरेषोक्ताऽसत्प्रकारिणी ॥
शून्यख्यातिं विदुस्तत्र मध्यमागमवादिनः ।
योगाचारैः पुनस्तत्र न्याय एष प्रयुज्यते ॥
96 मानमेयरहस्यश्लोकवार्तिके
स्तम्भादिप्रत्ययो मिथ्या प्रत्ययत्वात्तथाहि यः ।
प्रत्ययस्स मृषा दृष्टः स्वप्नादिप्रत्ययो यथा ॥
तत्र प्रत्यक्षबाधोक्तौ शून्यख्यातिं समाश्रिताः ।
तां चाकारयुतां केचित्केचित्स्वच्छां विजानते ॥
३ विकल्पाख्यां वृत्तिमिह शब्दज्ञानानुपातिनीम् ।
वस्तुशून्यां विदुः प्राज्ञाः पातञ्जलमतस्थिताः ॥
एते निर्विषयख्यातिवादिनः बौद्धसोदराः ।
असत्ख्यातिप्रसङ्गश्च ख्यात्यपह्नव इत्यपि ॥
अस्मिन्निर्विषयख्यातिवादे दोषो न कश्चन ।
अख्यातौ वाऽन्यथाख्यातौ विश्रमस्सर्ववादिनाम् ॥
असावन्यासक्तदृष्टिन्यायादिति तदाशयः ।
अन्यासङ्गे दृष्टिरेव नोत्पद्यत इतीतरे ॥
४ एवं निरालम्बवादं शून्यवादं च तादृशम् ।
असत्कर्तुं हि सुधियो भ्रान्तिशिक्षां प्रचक्रिरे ॥
न तत् ज्ञानं नाम किंचित् यत्स्याद्विषयमन्तरा ।
तस्माद्भ्रमेऽपि विषयं शोधयन्ति विपश्चितः ॥
बाह्यार्थवादिनः केचित्सौगताः निरधिष्ठितिम् ।
ख्यातिमिच्छन्ति केशोण्ड्रूटिट्टिभादिमतिर्यथा ॥
इदं रजतमित्यत्र पुरोवर्तिनि वस्तुनि ।
नाध्यस्यते च रजतं किंतु संस्कारलेशतः ॥
भ्रमविचारः 297
तं दोषवशतः भाति स्वयमिदंतया ।
्यातिस्सा निरधिष्ठाना स्याद्वैभाषिकसम्मता ॥
न्ये त्वाहुर्निराकारौ बुद्धिश्चार्थश्च वस्तुतः ।
पि सितरक्तादिराकारो जायते ततः ॥
च रजनीचूर्णसंयोगाद्रागसंभवः ।
एव बाह्य आकारः गृह्यते बुद्धिशक्तितः ॥
संसर्गजाकारख्यातिवादोऽयमीरितः ।
द्याकारार्पिताकारख्यातिवादः पुनर्यथा ॥
प्रकाशाध्यक्षसिद्धं विज्ञानं क्षणिकं यतः ।
परक्षणस्पर्शितया तचु न भासते ॥
बाह्यार्थमिथ्यात्वं व्यवहाराव्यवस्थितेः ।
लादिसंततौ पीताद्यनुत्पत्तिप्रसङ्गतः ॥
प्रत्यक्षस्स बाह्योर्थः संप्रयोगनिरोधतः ।
त्रकालं कथं ग्राह्यमितिचेद्ग्राह्यतां विदुः ॥
त्वमेव युक्तिज्ञाः ज्ञानाकारार्पणक्षमम् ।
हेतुत्वमेवात्र ग्राह्यत्वेनोपचर्यते ॥
नार्थयोस्समुत्पादे तुल्यसामग्र्यधीनयोः ।
नजन्मनि च ज्ञानमुपादानमितीष्यते ॥
र्थश्च सहकारी स्यात् अर्थोत्पत्तौ विपर्ययः ।
हेत्वर्पिताकारः स्वात्मा प्रत्यक्षगोचरः ॥
298 मानमेयरहस्यश्लोकवार्तिके
तेनानुमीयते बाह्यस्सर्वोऽर्थ इति निर्णयः ।
एतत्सौत्रान्तिकमतं उभयं किंचिदन्तरम् ॥
7 अन्यथाख्यातिवादेऽपि नासद्विषयकल्पना ।
इत्यत्र पद्ययुगळं ज्ञेयं सर्वार्थसिद्धिगम् ॥
इह त्वारोप्यसंसर्गिसंसर्गासत्त्ववर्णनम् ।
नासद्ग्रहणकॢप्तौ स्यात् प्रमाविषयसाम्यतः ॥
अदुष्टबुद्धौ तत्रैव संसर्गस्सन् विशेषकः ।
अन्यत्रसिद्ध एवासौ दुष्टायां दोषवैभवात् ॥
अन्यथाख्यातिवादेऽत्र विशेषांशोऽवधार्यताम् ।
कैश्चिदालम्बनं भ्रान्तावुक्तं सूर्यमरीचयः ॥
निगूहितनिजाकारास्सलिलाकारधारिणः ।
अन्ये त्वालम्बनं प्राहुः पुरोऽवस्थितधर्मिणः ॥
सादृश्यदर्शनोद्भूतस्मृत्युपस्थापितं पयः ।
अन्यदालम्बनं चान्यत्प्रतिभातीति केचन ॥
आलम्बनं दीधितयः तोयं च प्रतिभासते ।
कर्तुः करणतो भिन्नं विज्ञानजनकं तु यत् ॥
तदालम्बनमित्युक्तं अन्यथाख्यातिवित्तमैः ।
कथंचिदपि विज्ञाने निरालम्बनता हता ॥
8 अख्यातिपक्षे दोषाद्धीः शुक्तेः केवलधर्मिणः ।
धर्मसारूप्यमात्रेण रजतं स्मर्यते तदा ॥
३. मेय-भाग (प्रमेय परिच्छेद): द्रव्य, गुण, कर्म व सामान्य तत्व
भ्रमविचारः 2
दोषादेषाऽपिच तदा स्मृतित्वेन न गृह्यते ।
रजतं च स्मरामीति तदानीमप्रतीतितः ॥
तस्मात्प्रमुषितामेनां स्मृतिमिच्छन्ति तार्किकाः
रजतस्मरणं शुक्तिग्रहणं चास्ति धीद्वयम् ॥
ग्रहणस्मरणे एते विविक्ते अपि तत्तया ।
न गृह्येते इति विवेकाग्रहोऽख्यातिरुच्यते ॥
विवेकेन न गृह्येते स्मरणानुभवौ क्वचित् ।
स्वप्ने तु स्मृतिरेवैका तथात्वेन न गृह्यते ॥
द्विधाकृता क्वचिद्वृत्तिः नेत्रस्य तिमिरादिना ।
नहि ग्रहीतुमैक्येन शक्नोति शिशिरत्विषम् ॥
क्वचिद्रसनसंपृक्ते पित्ते तिक्तत्ववेदनात् ।
परिच्छेत्तुं न शक्नोति माधुर्यं शर्करागतम् ॥
गृह्णाति यत्तु तिक्तत्वं वस्तुतः पित्तवर्ति तत् ।
तथातु न विजानाति निगिरन्नेव शर्कराम् ॥
अख्यातिरेषा सर्वत्र कथंचित्कस्यचिन्मता ।
तदेवंसति सर्वत्र सम्यग्ग्रहणं भ्रमः ॥
एषोऽग्रहस्वभावो वा ख्यात्यन्तरमथापिवा ।
नाद्योऽभावानुपगमान्नान्त्यस्स्यात्ख्यातिरन्यथा ॥
तस्मात्सामान्यधर्मस्य ख्यातिस्सत्ख्यातिरेव सा
अख्यातिवादस्सत्ख्यातिवादश्चार्थान्तरं मतः ॥
300 मानमेयरहस्यश्लोकवार्तिके
यथार्थं सर्वमेवेह विज्ञानमिति सिद्धये ।
प्रभाकरगुरोर्भावः नयवीथ्यां प्रकाशितः ॥
आहार्यलक्षणस्तर्कोऽप्येवमेवान्यथाकृतः ।
संशयोऽपि विरुद्धार्थनानाज्ञानमिहेष्यते ॥
डोलासंयोगवत्, वेगो दृढश्चेन्निश्चयो मतः ।
ऊहानध्यवसायौ च परोक्तौ संशयात्मकौ ॥
तदन्यत्वेऽपि निर्वाहस्समानन्यायतो मतः ।
आत्मनः प्रतिसंधिर्यः प्रत्यभिज्ञैव सा मता ॥
तच्चैकमेव विज्ञानं न द्वयं सौगतादिवत् ।
बुद्धिबाधोक्तिरेषा स्यात् अयोग्यं वाक्यमिति, अतः।
बुद्धिबाधनिषेधोक्त्या नान्यथाख्यातिसंभवः ।
9 विपरीतख्यातिवादिकुमारिलमतं त्विदम् ॥
स्वप्नादिप्रत्यये बाह्यं सर्वथा न हि नेष्यते ।
सर्वत्रालम्बनं ग्राह्यं देशकालान्यथात्मकम् ॥
जन्मन्येकत्र भिन्ने वा तथा कालान्तरेऽपिवा ।
तद्देशो वाऽन्यदेशो वा स्वप्नज्ञानस्य गोचरः ॥
तस्माद्यदन्यथा सन्तमन्यथा प्रतिपद्यते ।
तन्निरालम्बनं ज्ञानमभावालम्बनं तु तत् ॥
धर्मान्तरमभावोऽन्यो न कश्चिन्निरूपणात् ।
विज्ञायते वस्तु सर्वं सदसद्रूपभेदतः ॥
भ्रमविचारः ३
सत्स्यात्स्वरूपेण पुनरसत्स्यादन्यरूपतः ।
भ्रान्तिरन्यस्य सद्रूपेणान्यद्धि प्रतिपद्यते ॥
अभावधीरप्यन्यस्यासद्रूपेणान्यगोचरा ।
तेनोभयं ज्ञानमित्थमन्यथासन्तमन्यथा ॥
प्रतिपद्यत इत्युक्तिरेवंरीत्योपपद्यते ।
10 सत्ख्यातिवादिनः प्राञ्चः भास्करा इति विश्रुतम्
तात्कालिकं सदेवेदं जायते रजतादिकम् ।
भासते बाधकाले तु स्वसामग्र्या विनश्यति ॥
इत्याहुरेष वादस्स्यात्प्रातिभासिकसोदरः ।
11 सत्ख्यातिपक्षे सामान्यधर्मग्रहणलक्षणे ॥
अप्यंशत्रयमस्तीति नावकाशो विवादिनाम् ।
यथार्थं सर्वविज्ञानमिति वेदविदां मतम् ॥
श्रुतिस्मृतिभ्यः सर्वस्य सर्वात्मत्वप्रतीतितः ।
सोमाभावे च पूतीकग्रहणं श्रुतिचोदितम् ॥
सोमावयवसद्भावादिति न्यायविदो विदुः ।
व्रीह्यभावे च नीवारग्रहणं व्रीहिभावतः ॥
तदेव सदृशं तस्य यत्तद्द्रव्यैकदेशभाक् ।
शुक्त्यदौ रजतादेश्च भावः श्रुत्यैव बोधितः ॥
रूप्यशुक्त्यादिनिर्देशभेदः भूयस्त्वहेतुकः ।
रूप्यादिसदृशश्चायं शुक्त्यादिरुपलभ्यते ॥
३०२ मानमेयरहस्यश्लोकवार्तिके
अतस्तस्यात्र सद्भावः प्रतीतेरपि निश्चितः ।
कदाचिच्चक्षुरादेस्तु दोषाच्छुक्त्यंशवर्जितः ॥
रजतांशो गृहीतोऽतः रजतार्थी प्रवर्तते ।
दोषहानौ तु शुक्त्यंशे गृहीते न प्रवर्तते ॥
अतो यथार्थं रूप्यादिविज्ञानं शुक्तिकादिषु ।
बाध्यबाधकभावोऽपि भूयस्त्वेनोपपद्यते ॥
शुक्तिभूयस्त्वसाकल्यवैकल्यग्रहरूपतः ।
एवं सर्वस्य सर्वत्वे व्यवहारव्यवस्थितिः ॥
एवं स्वाप्नादिविज्ञानं तत्तत्पुंकर्ममूलकम् ।
स हि कर्ता सृजति च तादृशार्थानिति श्रुतम् ॥
पीतशङ्खालातचक्रद्विचन्द्रमृगतृष्णिकाः ।
लोहितस्फटिकादर्शप्रतिबिम्बादयोऽपिच ॥
यथार्था इति सिद्धान्तः युक्तिभिः प्रकटीकृतः ।
इति सत्ख्यातिसिद्धान्तसंग्रहोऽयं निरूपितः ॥
(61) अनिर्वचनीयवादः.
1 अनिर्वाच्यख्यातिपक्षे सदसद्भिन्नलक्षणात् ।
तात्कालिकात्तु विषयान्निरालम्बननिह्नवः ॥
सत्त्वे न भ्रान्तिबाधौ स्तः नासत्त्वे ख्यातिबाधने।
सदसद्भ्यामनिर्वाच्याऽविद्या विद्यैस्सह भ्रमः ॥
अनिर्वचनीयवादः ३
२ प्रातिभासिकवस्तूनामेवमुत्पत्तिरुच्यते ।
दुष्टेन्द्रियस्येदमर्थाकाराऽऽदौ वृत्तिरुद्भवेत् ॥
तस्यां वृत्ताविदमवच्छिन्ना चित्प्रतिबिम्बते ।
ततः प्रमात्रभिन्नेऽस्मिन्विषये शुक्तिकात्मनि ॥
याऽविद्या सा हि रजतसंस्कारसचिवा सती ।
काचादिदोषसहिता रजतार्थात्मना तथा ॥
रजताभासात्मना च युगपत्परिणामिनी ।
अविद्यापरिणामोऽयं रजतं प्रातिभासिकम् ॥
चैतन्यापेक्षया तच्च विवर्त इति चोच्यते ।
साक्षिण्यध्यस्तं च ततः वेद्यं केवलसाक्षिणः ॥
चित्रिष्ठमप्यवच्छेदाद्भासते हीदमात्मना ।
यथा ज्ञानमवच्छेदाच्छरीरे भासते तथा ॥
तथा स्वाप्नादयोऽप्यर्थाः तत्तत्कालावसायिनः ।
अनिर्वाच्या इति भ्रान्तिर्न हि निर्विषया क्वचित्
३ अनिर्वाच्यख्यातिपक्षाक्षेपोऽयमवधार्यताम् ।
प्रपञ्चसत्यसिद्धान्तवादिभिः प्रकटीकृतः ॥
अनिर्वाच्यानिर्वचत्वे भवेत्सर्वं निरुक्तिमत् ।
अथाखिलेऽप्यनिर्वाच्ये तत्त्वं स्याद्ब्रह्मतुच्छयोः ॥
अस्तु तत्प्रस्तुतस्यात्र न बाध इति चेत्तदा ।
तुर्यसौगतसिद्धान्तगर्तान्तःपतनं ध्रुवम् ॥
304 मानमेयरहस्यश्लोकवार्त्तिके
जाते च सदसद्ग्राह्ये सदसद्धीः क्रमात्सती ।
स्वच्छायामिव दुर्लङ्घामन्यथाख्यातिमावहेत् ॥
अन्यथाख्यातिरस्तीति परबुद्धिं निषेधता ।
दृष्टा तदन्यथाख्यातिः अन्यथा किं निषिध्यते ॥
असच्चेन्न प्रतीयेतेत्येतल्लोकविसंमतम् ।
प्रतीयमानमेवैतन्मृगतोयमसन्मतम् ॥
प्रपञ्चो यदि बाध्येत सोऽसन्नेव भवेत्तदा ।
बाधायां नहि वैजात्यं कल्प्यं लोकविलक्षणम् ॥
सर्व्वदैवाप्रतीतं यदस दित्युच्यते यदि ।
कथं भवान् तत्प्रत्येति प्रत्याययति नः कथम् ॥
शून्यं तुच्छमसच्चेति सदेवास्माभिरुच्यते ।
खरे शृङ्गं नरे गोत्वमित्यादेस्तादृशत्वतः ॥
4 असत्यात्सत्यनिष्पत्तिप्रतिपत्ती मते यदि ।
असत्यादप्यधिष्ठानादध्यासः किं न कल्प्यते ॥
अत्र कौमारिलं श्लोकवार्त्तिकं श्रूयतां पुनः ।
सिद्धिर्नापरमार्थेन परमार्थस्य युज्यते ॥
न दृष्टा शशशृङ्गादेः सम्यग्ज्ञानादिहेतुता ।
बाष्पादिनाऽप्यधूमेन मिथ्यावह्यादिबोधनम् ॥
तस्मादसत्यहेतोर्या परमार्थे मतिस्तव ।
साऽप्यसत्या न सत्यं हि सत्याभासेन गम्यते ॥
येऽपि रेखादयो दृष्टा वर्णानां प्रतिपादकाः ।
न ते स्वेनापि रूपेण परमार्थत्ववर्जिताः ॥
वर्णात्मना न सत्याश्चेत् सर्वभावेष्वयं विधिः ।
पदार्थान्तररूपेण न सत्यं किंचिदिष्यते ॥
मणिप्रदीपप्रभयोर्मणिबुद्ध्याऽभिधावतोः ।
मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥
काव्यप्रकाशसंकेते धर्मकीर्तिवचस्त्विदम् ।
उदाहृतं हि तत्रापि मणेरंशो मणिप्रभा ॥
अंशेन चांशिनो लाभे नासत्यात्प्रतिपत्सती ।
असत्यात्सत्यनिष्पत्तिवादोऽप्यन्यत्र विस्तृतः ॥
5 उपायानां स्वरूपं हि संवृत्यात्मकमेव चेत् ।
संवृत्या यत्स्वरूपं स्यात्तदाज्ञात्रनिबन्धनम् ॥
इतोऽपि विस्तरस्तत्र द्रष्टव्यस्सूक्ष्मदर्शिभिः ।
संवृतेरपि यत्तत्त्वं तत्पुरस्ताद्विविच्यते ॥
मर्यादास्थापनार्थं च मानतकौ समुत्थितौ ।
सिंहारण्यवदन्योन्यं गुप्तौ तौ स्वान्यसाधकौ ॥
परमर्यादया ब्रूमः परव्याहतिमित्यसत् ।
स्वव्याघातादिभङ्गानां परानङ्गीकृतेरिति ॥
सदसद्व्यतिरेकोऽपि विरुद्धो यदि गृह्यते ।
सदसद्रूपता किं नु प्रतीता तु न गृह्यते ॥
M.R. 39
306 मानमेयरहस्यश्लोकवार्तिके
अनुष्णाशीतवत्तुच्छाद्ब्रह्मणश्चातिरेकिता ।
साध्येत ख्यातिबाधादेर्यदि, सिद्धं तदत्र नः ॥
स्वशास्त्रनिर्णये सत्ये सत्यास्स्युर्लोकनिर्णयाः ।
स्वशास्त्रनिर्णयेऽसत्ये सत्यास्स्युर्लोकनिर्णयाः ॥
नच विश्वस्य बाधोऽपि स्वरसादुपजायते ।
अप्रतिष्ठितयुक्त्या तु बाधः सर्वं हि संस्पृशेत् ॥
मिथ्यात्वेन च दृश्यत्वं स्वतस्संबन्धि साधयन् ।
अप्रामाण्यस्वतस्सिद्धिमुद्धिरत्यनया दिशा ॥
अविद्यां विश्वजननीमर्धपञ्चमरूपिणीम् ।
निवृत्तिपञ्चमाकारां कल्पयन्तोऽप्यधःकृताः ॥
एवमाद्यैः वचोभेदैः प्रायः खण्डनखण्डनैः ।
अनिर्वाच्यख्यातिपक्षे प्रतिपक्षान् प्रचक्षते ॥
6 दुर्घटत्वमविद्यायाः भूषणं न तु दूषणम् ।
इत्येकमेव ब्रह्मास्त्रं परैः प्रतिनिधीयते ॥
अविद्यावागुरा सैषा यथा विज्ञानवागुरा ।
वासनावागुरा सर्वं पुरुषो वासनामयः ॥
7 सर्वसत्यत्वसिद्धान्ते भगवान् सर्वशक्तिमान् ।
क्षेत्रज्ञकर्मानुगुणजगन्निर्माणदीक्षितः ॥
तदसाधारणानर्थान् कांश्चित्साधारणानपि ।
सृष्ट्वाऽनुभावयत्येतानिति श्रीभाष्यनिर्णयः ॥
संवृतिवादः 30
अविद्याशक्तिरेकत्र विष्णुशक्तिः परत्र तु ।
उभयत्रोपपत्तिस्तु समेति विबुधा विदुः ॥
ईश्वरस्य तु माहात्म्यं ज्ञायते चरमे मते ।
व्यवहारदृशाऽन्यैरप्येतदभ्युपगम्यते ॥
उभयोरप्यनुष्ठाने न विशेषोऽस्ति कश्चन ।
न लोकसंकरो नापि व्यवहारस्य संकरः ॥
अभिप्रायप्रभेदस्तु विचित्रः प्रतिपूरुषम् ।
(62) संवृतिवादः.
1 संवृतिर्नाम या तत्त्वं संवृणोति स्वभावतः ।
तिरस्करोति दोषात्मा सा संवृतिपदाभिधा ॥
द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना ।
लोके संवृतिसत्यं च सत्यं च परमार्थतः ॥
इति बौद्धवचोऽनूद्य प्रवृत्तं श्लोकवार्तिकम् ।
अत्रावधेयं यन्मूलमनिर्वाच्यवचोऽपि च ॥
2 संवृतेर्नतु सत्यत्वं सत्यभेदः कुतो न्वयम् ।
सत्यं चेत्संवृतिः केयं मृषा चेत्सत्यता कथम् ॥
सत्यत्वं नच सामान्यं मृषार्थपरमार्थयोः ।
विरोधान्न हि वृक्षत्वं सामान्यं वृक्षसिंहयोः ॥
तुल्यार्थत्वेऽपि तेनैषां मिथ्यासंवृतिशब्दयोः ।
वञ्चनार्थ उपन्यासः लालावक्त्रासवादिवत् ॥
308 मानमेयरहस्यश्लोकवार्तिके
नास्तिक्यपरिहारार्थं संवृतिः कल्पनेति च ।
कल्पनाऽपि त्वभिन्नस्य नैव निर्वस्तुके भवेत् ॥
तस्माद्यन्नास्ति नास्त्येव यच्चास्ति परमार्थतः ।
तत्सत्यमन्यन्मिथ्येति न सत्यद्वयकल्पना ॥
स्वप्नादिभोगवच्चापि योपभोगस्य कल्पना ।
तन्निवृत्त्यर्थमेवेह परमार्थे प्रयतते ॥
3 इत्यस्य विवृतिः काचित् एषा सर्वार्थसिद्धितः ।
संगृह्य लिखिता ज्ञेया धीमतां तत्र विस्तरः ॥
अथ संवृतिसत्यत्वं संवृतेस्सत्यतेष्यते ।
यद्वा संवृतिसंबन्धात्सत्यतेत्यभिधीयते ॥
सत्यत्वेन त्वसत्यं वा किं संवृत्याऽवभासते ।
संवृत्यां भ्रमरूपायां तथा वा भानमुच्यते ॥
यद्वा तैमिरिके केशस्तवकभ्रान्तिरीरितः ।
संवृत्याख्ये दोषभेदे किमध्यस्तमितीर्यते ॥
संवृतेस्सत्यतापक्षः वार्तिकेन विशोधितः ।
द्वितीयादिविकल्पानां समाधिरभिधीयते ॥
अथ संवृतिसंबन्धात् स्वभावादन्यजातिमत् ।
अन्यजातीयतां यायादिति दृष्टं नहि क्वचित् ॥
अन्यथाख्यातिरेवेयं स्यात्तृतीयतुरीययोः ।
पञ्चमे संवृतिर्दोष इति नैव प्रसिद्धयति ॥
दूरासन्नत्वसादृश्यकाचादिषु हि दोषता ।
व्यावहारिकसत्यत्वमित्यत्राप्येवमूह्यताम् ॥
4 सत्त्वासत्त्वविकल्पोऽपि प्रसङ्गादिह कीर्त्यते ।
व्यक्तीभविष्यति प्रायः निदानं सर्वदर्शने ॥
सत्त्वं प्रमाणसंबन्धः कालसंबन्ध इत्यपि ।
अर्थक्रियाकारिता वा निर्विकारत्वमेव वा ॥
सत्ताश्रयत्वं द्रव्यत्वं महासामान्यमित्यपि ।
व्यवहारार्हता वा स्याद्यद्वा नानास्वभावता ॥
वस्तुत्वं वाऽथ भावत्वं ध्रुवोत्पादविनाशिता ।
एवमादिप्रभेदेन बुधैस्तैस्तैर्निरुच्यते ॥
असत्त्वमपिचैवेत्थं विपश्चिद्भिर्विकल्प्यते ।
असत्तुच्छं निःस्वभावमलीकं शून्यमित्यपि ॥
आरोपितमनिर्वाच्यमध्यस्तं कल्पितं तथा ।
निरुपाख्यं च निष्प्रख्यं विचारासहताऽपिवा ॥
विवर्तं संवृतं मिथ्याऽभावो व्यावृत्तमित्यपि ।
निषिद्धं चेत्येवमाद्यान् शब्दानत्र प्रयुञ्जते ॥
प्रायस्तेषामर्थभेदः कल्प्यते पारिभाषिकः ।
केचित्क्वचित्त्वैक्यदृष्ट्या कुर्युः खण्डनमण्डने ॥
कैश्चिच्च देशकालादिनियतं चोभयं मतम् ।
अतो विधिर्निषेधश्च नास्त्येव निरुपाधिकः ॥
इत्येतेषामभिप्रायः, अतएव परे बुधाः ।
नैरात्म्यं वाऽथ सार्वात्म्यमर्थानामिति जानते ॥
पूर्वां कोटिं माध्यमिकाः पश्चिमामार्हताश्रिताः।
अन्तरा सर्वसिद्धान्ता इति तत्त्वविदो विदुः ॥
(63) प्रत्यभिज्ञावादः.
1 अथ सोऽयं घट इति ज्ञानमेकमुत द्वयम् ।
ग्रहणं स्मरणं चेदं निरन्तरसमुद्भवात् ॥
प्रत्यभिज्ञां विदुः ज्ञानद्वयमित्येव सौगताः ।
तार्किकाः पुनरन्येऽपि प्राहुस्तां ग्रहणात्मिकाम् ॥
परे सांकर्यसोढारस्तामिच्छन्त्युभयात्मिकाम् ।
दर्शनादर्शनाभ्यां च व्यवस्थोपाधिनीतितः ॥
2 सर्वथा प्रत्यभिज्ञानं प्रमाणं सविकल्पकम् ।
करणाकरणादीनां कालभेदाद्युपाधितः ॥
अविरोधान्न बीजादौ शक्यते भेदकल्पना ।
दीपादिष्विव सर्वत्र बाधकादेरसंभवः ॥
अन्यथा देशभेदेन करणाकरणादिभिः ।
एकं जगति नैव स्यात् इति स्यात्सर्वशून्यता ॥
3 तस्मादिरुद्धसंसृष्टविषयप्रत्यभिज्ञया ।
स्थिरत्वं सर्ववस्तूनां सर्वेषामपि चात्मनाम् ॥
प्रत्यभिज्ञावादः 311
4 संवादो नाम विज्ञानं जात्यन्तरमितीतरे ।
गृहीतविषयं शब्दहेतुकं तद्विदुः परे ॥
शाब्दप्रभेद इत्यन्ये प्राहुरेवं धियामिह ।
विवादा बहवस्सूक्ष्माः विद्वद्भिरुपदर्शिताः ॥
स्मृतिः गृहीतविषया मतिः तात्कालिकी मता ।
प्रज्ञां नवनवोन्मेषशालिनीं प्रतिभां विदुः ॥
अनन्तो बुद्धिभेदोऽयमलंकारादिशास्त्रतः ।
विज्ञेयो ननु बुद्धयैव बाह्यान्तरविकल्पना ॥
(64) स्वयंप्रकाशवादः.
1 एवं सौगतसिद्धान्तः तत्तत्सिद्धान्तनिष्ठितैः ।
निरस्यते रीतिभेदैः अन्योन्यपरिपन्थिभिः ॥
प्रतिभावादिनो ये स्युः वार्ताक्षौदुम्बरायणाः ।
प्रतिभागोचरश्शब्दः तदर्थश्चेति तन्मतम् ॥
2 अत्र कश्चित्स्वतन्त्रोऽस्ति सिद्धान्तस्सोऽवधार्यताम्
ज्ञानं नाम पदार्थो यस्स नास्त्येवेति तन्मतम् ॥
ज्ञानस्योत्पादिका याऽस्ति सामग्री सर्वसम्मता ।
तयैव सर्वनिर्वाहात्किमन्तर्गडुनाऽमुना ॥
स एव भूतचैतन्यवादिनः परमाशयः ।
अन्यथा तस्य चैतन्यं तस्यापीत्यनवस्थितिः ॥
312 मानमेयरहस्यश्लोकवार्तिके
अतीन्द्रियजडज्ञानवादिनो ये कुमारिलाः ।
दुरुद्धरा वागुरेयं तेषामिति परे विदुः ॥
3 नचोपलभते कश्चिदज्ञातेऽर्थे धियं क्वचित् ।
ज्ञातेऽनुमानाज्जानीत इत्याह शबरस्स्वयम् ॥
4 इदं संवेद्म्यहमिति कर्मकर्तृकरम्बितम् ।
उपलब्धं समाश्रित्य धीराः तस्य स्वभासताम्।
अङ्ग्यकार्षुस्सौगताद्या अपि नातोऽनवस्थितिः ।
सर्वं ज्ञानाधीनसिद्धि व्यवहाराय कल्पते ॥
ज्ञानं चापश्यतां सर्वशून्यत्वाद्बिभ्यतां सताम् ।
गतिः स्वयंप्रकाशत्वाहते नान्योपलभ्यते ॥
5 ज्ञानाज्ञानेऽपि विषयव्यवहारं विदुः परे ।
घटोऽयमिति विज्ञाने घटमात्रं हि भासते ॥
अङ्गुल्यग्रं यथाऽऽत्मानं नात्मना स्प्रष्टुमर्हति ।
स्वांशेन ज्ञानमप्येवं नात्मानं ज्ञातुमर्हति ॥
इत्याहुरथचात्रैव केचित्स्वायम्भुवादयः ।
नतु चित्तं स्वप्रकाशं न चित्तान्तरसिद्धयपि ॥
सर्वं सवृत्तिकं चित्तं साक्षिवेद्यं सदा स्थितम् ।
सर्वोपपत्तिरेतस्मिन् सिद्धान्त इति मन्वते ॥
तमेव पक्षं प्रायेण तथौपनिषदा अपि ।
आश्रित्य निर्वहन्त्यत्र व्यवहारं हि साक्षिणा ॥
स्वयंप्रकाशवादः
व्यवहारो हि जगति भवत्यालम्बने क्वचित् ।
न तत्सामान्यतो नास्ति कथंता तु परीक्ष्यते ।
सामान्यतो निश्चिते हि विशेषः स्याद्बुभुत्सितः
कृतकक्षणिकानेकं ज्ञानमात्मेति केचन ॥
नित्यस्थिरैकविज्ञानमात्मानमपरे विदुः ।
विधाभेदे विवादोऽयं धर्मी तूभयसम्मतः ॥
धर्मधर्म्यैक्यवादे तु विवादोऽनवकाशभाक् ।
तदर्थमेव तादात्म्यं केचिदिच्छन्ति सूरयः ॥
प्रकाशं विषयत्वं च विभिन्नं ये विदुर्बुधाः ।
संविदः स्वप्रकाशेऽपि वेद्यतां तां न मन्वते ॥
विषयत्वं प्रकाशं च ये त्वनर्थान्तरं विदुः ।
संविदन्तरसंवेद्यामप्याहुस्संविदं तु ताम् ॥
अन्यथा गुरुशिष्यादेः सर्वलौकिकसम्मतः ।
व्यवहारो विलुप्येत प्राज्ञाज्ञायविनिश्चयात् ॥
स्वसत्तयैव प्रकाशमानत्वमनुभूतिता ।
इति संवित्स्वप्रकाशवादिज्ञानत्वनिर्णयः ॥
वर्तमानदशायां स्वसत्तयैवाश्रयं प्रति ।
प्रकाशमानत्वमनुभूतित्वमिति केचन ॥
सत्तयैव स्वविषयसाधनत्वमितीतरे ।
परप्रकाशविज्ञानवादिनैयायिकादयः ॥
M.R. 40