मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 348, कुल 672 में से
संदर्भ में पढ़ें306 मानमेयरहस्यश्लोकवार्तिके
अनुष्णाशीतवत्तुच्छाद्ब्रह्मणश्चातिरेकिता ।
साध्येत ख्यातिबाधादेर्यदि, सिद्धं तदत्र नः ॥
स्वशास्त्रनिर्णये सत्ये सत्यास्स्युर्लोकनिर्णयाः ।
स्वशास्त्रनिर्णयेऽसत्ये सत्यास्स्युर्लोकनिर्णयाः ॥
नच विश्वस्य बाधोऽपि स्वरसादुपजायते ।
अप्रतिष्ठितयुक्त्या तु बाधः सर्वं हि संस्पृशेत् ॥
मिथ्यात्वेन च दृश्यत्वं स्वतस्संबन्धि साधयन् ।
अप्रामाण्यस्वतस्सिद्धिमुद्धिरत्यनया दिशा ॥
अविद्यां विश्वजननीमर्धपञ्चमरूपिणीम् ।
निवृत्तिपञ्चमाकारां कल्पयन्तोऽप्यधःकृताः ॥
एवमाद्यैः वचोभेदैः प्रायः खण्डनखण्डनैः ।
अनिर्वाच्यख्यातिपक्षे प्रतिपक्षान् प्रचक्षते ॥
6 दुर्घटत्वमविद्यायाः भूषणं न तु दूषणम् ।
इत्येकमेव ब्रह्मास्त्रं परैः प्रतिनिधीयते ॥
अविद्यावागुरा सैषा यथा विज्ञानवागुरा ।
वासनावागुरा सर्वं पुरुषो वासनामयः ॥
7 सर्वसत्यत्वसिद्धान्ते भगवान् सर्वशक्तिमान् ।
क्षेत्रज्ञकर्मानुगुणजगन्निर्माणदीक्षितः ॥
तदसाधारणानर्थान् कांश्चित्साधारणानपि ।
सृष्ट्वाऽनुभावयत्येतानिति श्रीभाष्यनिर्णयः ॥