मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 346, कुल 672 में से
संदर्भ में पढ़ें304 मानमेयरहस्यश्लोकवार्त्तिके
जाते च सदसद्ग्राह्ये सदसद्धीः क्रमात्सती ।
स्वच्छायामिव दुर्लङ्घामन्यथाख्यातिमावहेत् ॥
अन्यथाख्यातिरस्तीति परबुद्धिं निषेधता ।
दृष्टा तदन्यथाख्यातिः अन्यथा किं निषिध्यते ॥
असच्चेन्न प्रतीयेतेत्येतल्लोकविसंमतम् ।
प्रतीयमानमेवैतन्मृगतोयमसन्मतम् ॥
प्रपञ्चो यदि बाध्येत सोऽसन्नेव भवेत्तदा ।
बाधायां नहि वैजात्यं कल्प्यं लोकविलक्षणम् ॥
सर्व्वदैवाप्रतीतं यदस दित्युच्यते यदि ।
कथं भवान् तत्प्रत्येति प्रत्याययति नः कथम् ॥
शून्यं तुच्छमसच्चेति सदेवास्माभिरुच्यते ।
खरे शृङ्गं नरे गोत्वमित्यादेस्तादृशत्वतः ॥
4 असत्यात्सत्यनिष्पत्तिप्रतिपत्ती मते यदि ।
असत्यादप्यधिष्ठानादध्यासः किं न कल्प्यते ॥
अत्र कौमारिलं श्लोकवार्त्तिकं श्रूयतां पुनः ।
सिद्धिर्नापरमार्थेन परमार्थस्य युज्यते ॥
न दृष्टा शशशृङ्गादेः सम्यग्ज्ञानादिहेतुता ।
बाष्पादिनाऽप्यधूमेन मिथ्यावह्यादिबोधनम् ॥
तस्मादसत्यहेतोर्या परमार्थे मतिस्तव ।
साऽप्यसत्या न सत्यं हि सत्याभासेन गम्यते ॥