मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
अभाववादः 26
दर्शनादर्शनाभ्यां हि सदसत्त्वविनिर्णयः ।
दर्शनादर्शने एव सदसत्त्वे कथं पुनः ॥
अभावो बुद्ध्यभावश्चेत् बुद्धिस्स्यात्प्रतियोगिनी ।
व्यर्थस्त्वियान् प्रयासस्स्यात् जिता विज्ञानवादिनः
अभाववादिनो यत्स्यादभावज्ञानकारणम् ।
तदेव व्यवहारस्य हेतुस्स्यादिति यो वदेत् ॥
घटादिव्यवहाराणामपि तज्ज्ञानकारणात् ।
संसिद्धेस्सोऽपह्नुवीत ज्ञानमात्रं च चारुवाक् ॥
जगतो मिश्ररूपत्वं स्यादभावो नचेदिह ।
क्षीरे दधि भवेदेवं दध्नि क्षीरं घटे पटः ॥
शशे शृङ्गं पृथिव्यादौ चैतन्यं मूर्तिरात्मनि ।
अप्सु गन्धो रसश्चाग्नौ वाय्वादावपि ते गुणाः ॥
प्रागभावादिभेदेन नाभावो भिद्यते यदि ।
नच स्याद्व्यवहारोऽयं कारणादिविभागतः ॥
नचावस्तुन एवैते भेदाः, तेनास्य वस्तुता ।
मेयो यद्वदभावो हि मानमप्येवमिष्यताम् ॥
स चतुर्विध इत्युक्तः प्रागभावादिभेदतः ।
अपेक्षाभावसामर्थ्याभावाभ्यां षड्विदुः परे ॥
क्षीरे दध्यादि यन्नास्ति प्रागभावस्स उच्यते ।
गवि योऽश्वाद्यभावस्स्यात्सोऽन्योन्याभाव ईर्यते ॥
264 मानमेयरहस्यश्लोकवार्तिके
शिरसोऽवयवा निम्नाः वृद्धिकाठिन्यवर्जिताः ।
शशशृङ्गादिरूपेण सोत्यन्ताभाव उच्यते ॥
3 अपेक्षाऽभाव एवासौ यस्स्यात्सामयिको मतः ।
उत्पन्नस्य विनाशो वा तदनुत्पाद एव वा ॥
अभावस्तत्त्वतो,ऽन्ये तु भेदास्त्वौपाधिका इति ।
प्राहुर्जयन्तभट्टाद्याः, नव्यनैयायिकाः पुनः ॥
संसर्गाभावतादात्म्याभावभेदाद्द्विधा विदुः ।
प्रागभावादिभेदेन प्रथमस्त्रिविधो मतः ॥
अजातो घटसंबन्धः प्रागभावस्सदोच्यते ।
उत्पद्य स विनष्टश्चेत्प्रध्वंसाभावशब्दितः ॥
शशस्य त्वविषाणित्वं विद्यते सार्वकालिकम् ।
सोऽत्यन्ताभाव इत्येवं आद्यस्यैव विधा त्रिधा ॥
अन्यसंबन्धिताऽन्यत्र त्रिष्वप्येषु निषिध्यते ।
संसर्गाभावशब्देन त्रितयं व्यपदिश्यते ॥
अन्यस्मिन्नन्यतादात्म्यनिषेधस्स्यादनन्तरः ।
स चेतरेतराभावस्तादात्म्याभावशब्दितः ॥
यद्यभावोऽधिकरणं धीर्वा कालोऽथवा भवेत् ।
एकस्यानन्तता रूपाद्यभावाग्रहणं तु वा ॥
4 स्थितो नव्यपरिष्कारः, कापिलानां मते पुनः ।
परिणामविशेषाख्यादन्यः कैवल्यलक्षणात् ॥
भूतलादेर्घटाभावो नाम कश्चन नेष्यते ।
परिणामस्वभावा हि भावास्सर्वे प्रतिक्षणम् ॥
द्रव्यात्मना तु सर्वस्य नित्यता बहुसम्मता ।
अतो विरोधप्रवादो ह्यत्यन्तप्रागभावयोः ॥
प्राक्प्रध्वंसाभिधाभावौ नात्यन्ताभावतः परौ ।
आधारेऽपि तयोस्सोऽपि वर्तते न विरुध्यते ॥
यद्वा निराश्रयौ स्यातां यदि भिन्नौ ततो मतौ ।
इति वादीन्द्रसिद्धान्तं तार्किका नानुमन्वते ॥
5 व्यतिरेकोऽतिरेकश्च कैश्चिद्भेदो द्विधेष्यते ।
अन्त्योऽसाधारणो धर्मः धर्मो धर्म्यपि वा परः ॥
जीवो न व्यतिरिक्तोऽपित्वातिरिक्तो महेशितुः ।
इति सिद्धान्तभेदोऽसौ तत्रोदाहरणं मतम् ॥
भेदेतरेतराभावप्रभेदं केचिदास्थिताः ।
भेदो विशेषः व्यक्तिस्स्यात् अन्त्यः सामान्यमुच्यते ॥
अपोह एव सामान्यं सौत्रान्तिकविनिश्चितम् ।
स्वलक्षणा विशेषास्स्युः जातिव्यक्ती इमे मते ॥
स्वरूपमेव वस्तूनां परस्परविलक्षणम् ।
नानात्वं तत्सुसंवेद्यं भेद इत्यभिधीयते ॥
पटरूपं घटे नास्ति घटरूपं पटे नहि ।
इति देशान्तराभावः अन्योन्याभाव उच्यते ॥
M.R. 34
266 मानमेयरहस्यश्लोकवार्तिके
इति भास्करसिद्धान्तः प्रायस्सौत्रान्तिकानुगः ।
जातिर्भेदश्च संस्थानं त्रयमेतद्विलक्षणम् ॥
इति तार्किकनिष्कर्षोऽनर्थान्तरमिदं त्रयम् ।
इति रामानुजीयानां सिद्धान्तः प्रविविच्यते ॥
केचिद्धिङ्कुर्वते भेदं मानमेयाद्यसंभवात् ।
भेदो द्विधा स्यात् सादिश्चानादिश्चेत्यपि तन्मतः
अनित्यमुभयं ध्वंसप्रतियोगीति कीर्त्यते ।
परे प्रतिब्रुवन्त्येतान् स्वप्रवृत्तिविरोधतः ॥
अपोहवादिनस्सर्वोऽप्यभावे पर्यवस्यति ।
भावान्तराभाववादे विपरीता ततो गतिः ॥
कैवल्याभाववादे तु पर्यायेण हि तुच्छता ।
अतिरिक्ताभाववादः कैश्चित्तस्मात्समाश्रितः ॥
कारणत्वमभावस्य भाट्टैः नाभ्युपगम्यते ।
भावो यथा तथाऽभावः कारणं कार्यवन्मतः ॥
प्रतिबन्धो विसामग्री तद्धेतुः प्रतिबन्धकः ।
इत्यभ्युपगमान्न्यायविद्भिश्शक्तिर्निरस्यते ॥
प्रभाकरगुरुः प्रायः न्यायसिद्धान्तवर्त्मगः ।
अभावतत्त्वमीमांसा विदुषामपि दुर्गमा ॥
6 अत्र रक्तपटाः प्राहुः प्रमेये सति चिन्तनम् ।
युक्तं नाम प्रमाणस्य तदेवत्त्वातिदुर्लभम् ॥
अभाववादः 267
अभावो निस्स्वभावस्स्यात् तुच्छं चाळीकमुच्यते ।
न कार्यं कारणं मेयः मानं वाच्यश्च नेष्यते ॥
जगतो मिश्ररूपत्वं स्यादभावो न चेदिह ।
इत्यादि यद्वार्तिकोक्तं तत्राहुरिदमुत्तरम् ॥
भावो भावादिवान्यस्मादभावांशोऽप्यसौ मिथः ।
असंकीर्णोऽभ्युपेतव्यः स कथं वा भविष्यति ॥
अन्योन्यमप्यभावानां यद्यसंकीर्णता स्वतः ।
भावैः किमपराद्धं वा परतश्चेत्कुतो नु सा ॥
भावेभ्यो यद्युपेयेत भवेदन्योन्यसंश्रयम् ।
अभावान्तरजन्या चेत् अनवस्था दुरुत्तरा ॥
नन्वभावप्रतिक्षेपे नञः किं वाच्यमुच्यते ।
नैव शब्दानुसारेण वाच्यस्थितिरुपेयते ॥
बौद्धाः खलु वयं लोके सर्वत्र ख्यातकीर्तयः ।
विकल्पमात्रशब्दार्थपरिकल्पनपण्डिताः ॥
ननुचानेन मार्गेण यद्यभावो निरस्यते ।
एकादशप्रकारैषाऽनुपलब्धिः क्व गच्छतु ॥
सत्यमेकादशविधाऽनुपलब्धिरिहेष्यते ।
सा त्वसद्व्यवहारस्य हेतुः नाभावसंविदः ॥
स्वभावहेतावन्तस्स्था एता अनुपलब्धयः ।
स चासद्व्यवहारः तद्योग्यताऽत्र विवक्षिता ॥
268 मानमेयरहस्यश्लोकवार्तिके
सैव ह्यनुपलब्धिस्स्यात् एकता हेतुसाध्ययोः ।
नन्वभावानभ्युपगमेऽनुपलब्धिश्च कीदृशी ॥
इयमेषा प्रतीषेधपर्युदस्तान्यशेमुषी ।
वस्त्वन्तरोपलब्धिश्च स्वसंवेद्येति वर्ण्यते ॥
नातोऽन्यानुपलब्धेश्चापेक्षयाऽप्यनवस्थितिः ।
विशेषणीया दृश्यत्वेनैवेत्यपि च कथ्यते ॥
नातोऽसद्व्यवहारस्स्यात् अदृष्टादाविति स्थितम्
घटादेः पूर्वदृष्टस्य दृश्यत्वपरिनिश्चयात् ॥
असत्त्वव्यवहारो हि सिद्ध्यत्यनुपलब्धितः ।
एकान्तानुपलब्धेषु विहायःकुसुमादिषु ॥
असत्त्वधीर्न दृश्यत्वयोग्यताऽनवधारणात् ।
न शक्योऽनुपलम्भेन कर्तुं नास्तित्वनिश्चयः ॥
तत्रापित्वपिशाचोऽयं चैत्र इत्येवमादिषु ।
तादात्म्यप्रतिषेधे च दृश्यत्वं नोपयुज्यते ॥
पिशाचेतररूपो हि चैत्रः प्रत्यक्षगोचरः ।
ताद्रूप्यनिश्चये तस्य किंफलं तद्विशेषणम् ॥
इत्यसद्व्यवहारस्य सिद्धेरनुपलब्धितः ।
न भाववदभावाख्यं प्रमेयमवकल्पते ॥
इति सौगतसिद्धान्तं प्रत्यवस्थातुमब्रुवन् ।
विलक्षणं प्रमाणं च प्रमेयं च कुमारिलाः ॥
अभाववादः 269
7 अत्र नैयायिकाः प्राहुर्घटोऽस्तीहेतिबुद्धिवत् ।
इह नास्तीतिबुद्धेरप्यस्ति बोध्यं न वोभयम् ॥
सुखदुःखसमुत्पत्तिरभावे शत्रुमित्रयोः ।
कण्टकाभावमालम्ब्य पदं पथि निधीयते ॥
प्रागुत्पत्तेर्घटाभावं बुद्ध्वा तत्कारणादरः ।
व्याध्यभावपरिच्छेदाद्भैषज्यविनिवर्तनम् ॥
इहाभावप्रतिष्ठानव्यवहारपरंपराम् ।
पश्यन्नभावं को नाम निह्नुवीत सचेतनः ॥
तदुत्पादस्वभावे हि न किंचिन्मुद्गरादिना ।
अतदुत्पादकत्वेऽपि न किंचिन्मुद्गरादिना ॥
मुद्गरोपनिपाताच्च यदुत्पन्नं क्षणान्तरम् ।
घटक्षणस्य किं वृत्तं येन नाभाति पूर्ववत् ॥
नन्वस्याभवनं वृत्तं, स एवार्थोऽयमुच्यते ।
घञा किमपराधं वा किं वाऽप्युपकृतं ल्युटा ॥
तस्मादित्थमभावस्य प्रमेयत्वोपपादनात् ।
न ह्यसद्व्यवहाराय कल्पन्तेऽनुपलब्धयः ॥
न स्वभावानुमाने च तदन्तर्भावसम्भवः ।
मेयं पृथग्भावाख्यममूषामुपपादितम् ॥
कारणानुपलब्ध्यादेर्बाढमस्त्वनुमानता ।
स्वभावानुपलब्धिस्तु प्रत्यक्षमिति साधितम् ॥
270 मानमेयरहस्यश्लोकवार्तिके
जरत्तार्किकसिद्धान्ते न पदार्थान्तरं त्वसौ ।
अभाव इति विद्वांसः केचिदत्रोल्लिखन्त्यपि ॥
मानं तु तत्र काणादसूत्रे नोददिशञ्च तम् ।
द्रव्यादिसमवायान्ताः पदार्था एव कीर्तिताः ॥
8 यैस्तु मीमांसकैस्सद्भिरभावो नाभ्युपेयते ।
प्रमादेनामुना तेषां अनिष्टमिदमुद्भवेत् ॥
नचाप्रतीतिमात्रेण तदभावनिबन्धनाः ।
व्यवहाराः प्रकल्पन्ते मृदन्तरिततोयवत् ॥
खपुष्पस्य पिशाचस्य मृदन्तरितवारिणः ।
नखल्वनुपलभ्यत्वे विशेषः प्रतिभाति नः ॥
सर्वदाऽनुपलम्भो हि कुर्वन्नास्तित्वनिश्चयम् ।
विशेष्यते मृदन्तस्स्थसलिलानुपलब्धितः ॥
आगमाद्युक्तितश्चापि सत्त्वसंभावनां गतः ।
सर्वदाऽनुपलब्धोऽपि न पिशाचः खपुष्पवत् ॥
अनिष्यमाणे चाभावे भावानां प्रतियोगिनि ।
नित्यतैषां प्रसज्येत न ह्येते क्षणिकास्तव ॥
मुद्गरादेश्च किंकार्यं, कपालपटलीति चेत् ।
घटस्तर्ह्यविनष्टत्वात् स्वकार्यं न करोति किम् ॥
तदानीमेव दृष्टस्य स्थिरस्यामुष्य किंङ्कृतम् ।
सर्वेन्द्रियादिसामग्रीसन्निधानेऽप्यदर्शनम् ॥
अभाववादः
स्वप्रकाशा च नास्तीतिसंवित्तिर्भवतां मते ।
न निरालम्बना चेयमस्तीति प्रतिपत्तिवत् ॥
विकल्पविषयाश्शब्दा यथा शौद्धोदनेर्गृहे ।
गीयन्ते भवता नैवमिति नञ्द्वयमुख्यताम् ॥
प्रसिद्धिश्च परित्यक्ता नचाभावः पराकृतः ।
उपेक्षितश्च भाष्यार्थः इत्यहो नयनैपुणम् ॥
अलं च बहुनोक्तेन विमर्दोऽत्र न शोभते ।
महात्मनां प्रमादोऽपि मर्षणीयो हि मादृशैः ॥
इति वार्तिककारीययुक्तिभिः न्यायमञ्जरी ।
तत्प्राभाकरसिद्धान्तपरिहासेन शोभते ॥
9 भावान्तराभाववादः कुमारिलपरिष्कृतः ।
इति प्रत्यक्षमेवैतत् श्रूयतां श्लोकवार्तिकम् ॥
प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते ।
साऽऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि॥
स्वरूपपररूपाभ्यां नित्यं सदसदात्मके ।
वस्तुनि ज्ञायते कैश्चिद्रूपं किंचित्कदाचन ॥
भावाभावात्मकं वस्तु तदेकमिति यद्यपि ।
रूपादिंवत्स्वतोऽस्त्येव भेदः नात्यन्तमेकता ॥
तस्माद्यदन्यथा सन्तमन्यथा प्रतिपद्यते ।
तन्निरालम्बनं ज्ञानं अभावालम्बनं च तत् ॥
272 मानमेयरहस्यश्लोकवार्तिके
भावान्तरमभावोऽन्यो न कश्चिदनिरूपणात् ।
भ्रान्तिश्चाभावधीश्चापिचेत्थं सालम्बना मता ॥
इत्यभावपरिच्छेदे निरालम्बननिह्नवे ।
भावान्तराभाववादः कुमारिलमुखोद्गतः ॥
इत्थं प्रमेयभागोऽयं प्रथमस्समगृह्यत ।
लक्ष्मीपुरंश्रीनिवासविपश्चिच्चक्रवर्तिना ॥
श्रीः.
प्रीयतां भगवान् वासुदेवः.
इति श्रीवत्सकुलकलशजलनिधिकौस्तुभायमानश्रीवेङ्कटार्यतनू-
भवस्य ताताम्बागर्भशुक्तिमुक्ताफलायमानस्य श्रीमत्कस्तूरीरङ्ग-
नाथविद्वन्मणिकरुणाकटाक्षसमासादितसारस्वतसर्वस्वस्य श्री-
मद्धिरक्तराघवार्यचरणानुगृहीतसकलसम्प्रदायरहस्यस्य श्रीम-
द्राजाधिराजमहीशूरमहीधुर्यतुर्यश्रीकृष्णराजसार्वभौमपरिपोषि-
तस्य महाविद्वत्पण्डितरत्नाद्यनेकबिरुदालङ्कृतस्य संस्कृत-
महापाठशालानिगमान्तप्रधानोपाध्यायस्य श्रीमतो
लक्ष्मीपुराभिजनस्य श्रीनिवासाचार्यस्य कृतिषु
मानमेयरहस्यश्लोकवार्तिके प्रमेयकाण्डः
प्रथमः समाप्तः.
अथ द्वितीयः प्रमाणकाण्डः।
(55) प्रमाणपरीक्षा.
1 अथ प्रमाणवादोऽयं संक्षेपेण निरूप्यते ।
तदधीनास्सर्वसिद्धीराहुस्सर्वेऽपि वादिनः॥
मानं मेयं मितिर्मातेत्येतदर्थचतुष्टयम् ।
दुर्निरूपं ततःशून्यमित्याहुर्मध्यमागमाः॥
बुद्ध्या विविच्यमानायां स्वभावो नावधार्यते ।
अतो निरभिलप्यास्ते निस्स्वभावाश्च दर्शिताः॥
पदार्थानां स्वतो रूपं न किंचिदद्यवतिष्ठते ।
यथायथाऽर्थाश्चिन्त्यन्ते विशीर्यन्ते तथातथा ॥
इदं वस्तुबलायातं यद्वदन्ति विपश्चितः ।
यथायथाऽर्थाश्चिन्त्यन्ते भविष्यन्ति तथातथा ॥
कल्पनापोढमभ्रान्तं प्रमाणं निर्विकल्पकम् ।
विकल्पोऽवस्तुनिर्भासादसंवादादुपप्लवः ॥
नान्योऽनुभाव्यो बुद्ध्याऽस्ति तस्या नानुभवोऽपरः
ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ॥
अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥
M.R. 35
274 मानमेयरहस्यश्लोकवार्तिके
2 इत्येवमादीन् सिद्धान्तान् वदन्तीति पुरोदितम् ।
तत्र विप्रतिपन्नानां युक्तिर्नयविदामियम् ॥
सर्वथा सदुपायानां वादमार्गः प्रवर्तते ।
माने विप्रतिपन्नानां वादमार्गो निरुध्यते ॥
न सर्वस्याप्रमाणत्वं स्वपक्षस्य स्वतः क्षतेः ।
न सर्वस्य प्रमाणत्वं स्वपक्षस्यान्यतः क्षतेः ॥
प्रमाणस्य प्रमाणेन बाधः स्वव्याहतेर्हतः ।
अप्रमाणेन तद्बाधे साधनं च ततो न किम् ॥
अहं सत्यं वदामीति स्वोक्तिः स्वपररक्षिणी ।
न कदाचिद्वदामीति वादस्तु स्वोक्तिबाधितः ॥
मानस्थापकमानस्य मानसंक्षोभकस्य च ।
गतिरेवमिति प्रेक्ष्य गहनां कुहनां त्यजेत् ॥
अथ वैतण्डिकस्यैषा सर्वसंक्षोभकस्य च ।
इष्टप्रसक्तिरितिचेदनिष्टं तेऽस्ति वा न वा ॥
नास्तिचेन्नैव दूष्योऽन्योऽप्यस्तिचेत्तत्प्रसज्यते ।
इष्टानिष्टाविवेकस्तु तिरश्चामपि दुर्वचः ॥
3 लोके प्रमेयव्यत्यासः प्रमाणव्यत्ययागतः ।
अतः तत्त्वप्रबोधाय प्रवृत्ता मानचिन्तना ॥
प्रत्यक्षितसमस्तार्थैर्योगीन्द्रैरपि लङ्घ्यते ।
प्रमाणप्लवमालम्ब्य तत्त्वविप्लवसागरः ॥
प्रमाणपरीक्षा 27
अवकाशोपरोधाय तत्त्वोपप्लवमिच्छताम् ।
अविपर्याससंसिद्ध्यै शोध्यते मानपद्धतिः ॥
सर्वोपजीव्यमध्यक्षं मानं प्रथममिष्यते ।
तन्मूलमनुमानं स्यात् आगमस्तूभयाश्रितः ॥
उपमानादिकं मानं ततस्त्रितयमूलकम् ।
सर्वं त्वनन्यथासिद्धमूलमाश्रित्य वर्तते ॥
मानाधीना मेयसिद्धिः मानं मेयमपीष्यते ।
उपधेयस्य सांकर्येऽप्युपाधेर्न हि संकरः ॥
आत्माश्रयादिदोषस्तु व्यक्तिभेदादपोद्यते ।
इन्द्रियाणां च लिङ्गानां प्रभेदस्सर्वसम्मतः ॥
स्वत एवहि मानानां सिद्धिर्वेष्टा मनीषिभिः ।
धीरस्तीति मतौ शब्दशब्दे लक्षणलक्षणे ॥
इष्टः स्वपरनिर्वाहस्सर्वमित्यादिधीष्वपि ।
पूर्वपूर्वोपदिष्टाद्वा मानसिद्धिर्हि लक्षणात् ॥
ऋषयोऽपि पदार्थानां नान्तं यान्ति पृथक्त्वशः ।
लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः ॥
4 व्यापकोऽसाधारणो वा धर्मो लक्षणमुच्यते ।
तदुपस्थापनेनाप्तवाक्यं ह्यापिच लक्षणम् ॥
व्यवहारव्यवस्थैव लक्षणस्य प्रयोजनम् ।
असाधारणधर्मो हि भवेद्व्यावृत्तिलक्षणः ॥
276 मानमेयरहस्यश्लोकवार्तिके
लक्षणादधिके भेदे क्ववाऽतीतत्वसंभवः ।
तस्यैव तत्त्वे किं केन किमर्थं साधनं भवेत् ॥
व्यावृत्तेश्च फलत्वे तु तदेवमवगम्यताम् ।
शरीरं पार्थिवं गन्धवत्त्वात् घटपटादिवत् ॥
शरीरमाप्यं न भवेत् गन्धादित्येवमादिषु ।
शरीरादेः पार्थिवत्वसंशयादेर्विशोधनम् ॥
एवं तदात्मना शङ्काविषयेष्वपि वस्तुषु ।
तल्लक्षणस्य राहित्यात्तदन्यत्वं हि सिद्धयति ॥
तस्यापि तेभ्यो वस्तुभ्यो व्यतिरेकः प्रसिद्धयति
लक्षणादेव तत्सिद्धेः व्यावृत्तिः फलमुच्यते ॥
तस्माद्धर्मः प्रमेयात्मा धर्मिनिष्कर्षमाचरन् ।
लक्षणं, न प्रमाणात्मेत्येष लक्षणनिर्णयः ॥
अतो न मानताऽन्येषां केवलव्यतिरेकिणः ।
द्व्यंशोऽवरोपितो भारः तेषां हैतुकभञ्जने ॥
इति न्यायपरिशुद्धिकृतां लक्षणनिर्णयः ।
भावान्तराभावविदां सर्वेषामेष सम्मतः ॥
(56) प्रमाणस्वरूपम्.
1 प्रमाणशब्दव्युत्पत्तिः स्याद्भावे करणेऽपिच ।
प्रमा प्रमाणमित्येके विदुस्तत्करणं परे ॥
प्रमाणस्वरूपम् 27
तदन्यतरदित्यन्ये यथासंभवमिष्यते ।
करणस्य प्रमाणत्वे प्रमायाः फलता मता ॥
प्रमायास्तु प्रमाणत्वे व्यवहारस्य सेष्यते ।
व्यवहारो ह्युपादानोपेक्षाहानधियो मताः ॥
प्रमाकरणमेवात्र प्रमाणं बहवो विदुः ।
प्रमाविकल्पतश्चैतत्करणं च विकल्प्यते ॥
2 वैभाषिकैः पुनस्त्वर्थाधिगतिः फलमिष्यते ।
प्रमाणमर्थसारूप्यं प्रमागतमिदं यथा ॥
अर्थेन घटयत्येनां नहि मुक्त्वाऽर्थरूपताम् ।
तस्मात्प्रमेयाधिगतेः प्रमाणं मेयरूपता ॥
यथोत्पत्तावपि ज्ञानस्यास्ति प्रापकलक्षणः ।
व्यापारोऽवश्यवक्तव्यः पुमान्येन प्रवर्तितः ॥
अर्थोऽपि स्यात्प्रापितश्च सैषाऽर्थाधिगतिर्मता ।
अर्थसारूप्यात्मकस्य प्रमाणस्य फलं हि सा ॥
3 स्वसंवित्तिफलत्वं तु वदतां मतमुच्यते ।
प्राभाकरास्तु विषयसंवित्तिफलवादिनः ॥
विषयाकार एवास्य प्रमाणं तेन मीयते ।
स्वसंवित्तिः फलं चास्य तद्भूये ह्यर्थनिश्चयः ॥
इति सौत्रान्तिकमतं योगाचारमतं पुनः ।
यदाभासं प्रमेयं तत् प्रमाणफलते पुनः ॥
278 मानमेयरहस्यश्लोकवार्तिके
4 ग्राहकाकारसंवित्त्योः त्रयं नातः पृथक्कृतम् ।
मतद्वयनिरासांशो वार्तिके त्वित्थमुच्यते ॥
विषयैकत्वमिच्छंस्तु यः प्रमाणं फलं वदेत् ।
साध्यसाधनयोः भेदः लौकिकः तेन बाधितः ॥
स्वाकारश्च स्वसंवित्तिं मुक्त्वा नान्यः प्रतीयते ।
प्रामाण्यं यस्य कल्प्येत स्वसंवित्तिफलं प्रति ॥
स्वसंवित्तिफलत्वं तु तन्निषेधान्न युज्यते ।
प्रमाणमविसंवादि ज्ञानमर्थक्रियास्थितिः ॥
अविसंवादनमिति केचित् बौद्धाः प्रचक्षते ।
इत्यतो विस्तरस्तत्र द्रष्टव्यस्सूक्ष्मदर्शिभिः ॥
5 बौद्धाः प्रमाणफलयोरत्यन्ताभेदवादिनः ।
यौगाः प्रमाणफलयोरत्यन्तं भेदवादिनः ॥
आर्हतायाः पुनर्भेदाभेदवादिन ईरिताः ।
आत्मनः परिणामोऽयं ज्ञानमित्यभिधीयते ॥
विशेषस्सहजो ह्येष गुण इत्यार्हतं मतम् ।
प्रमाणत्वेन परिणम्यात्मा फलतयाऽपिच ॥
स्यादन्यथा स्वपरयोः प्रमाणफलविप्लवः ।
विज्ञानं स्वपराभासि प्रमाणं बाधवर्जितम् ॥
प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्चयात् ।
इति स्याद्वादिसिद्धान्तः शिष्टमन्यत्र विस्तृतम् ॥
प्रमाणस्वरूपम् २७
६ नैयायिकानां सिद्धान्ते प्रमाणमपि चेश्वरः ।
तत्साधनादाश्रयाच्चाप्यतिरिक्तत्वमिश्रितम् ॥
प्रमाव्याप्तं प्रमाणं स्यात् साधनं त्विन्द्रियादिकम्
आश्रयस्त्वात्मवस्तु स्यात् तयोः प्रामाण्यनिर्णयः।
मितिस्सम्यक्परिच्छित्तिः तद्वत्ता च प्रमातृता ।
तदयोगव्यवच्छेदः प्रामाण्यं गौतमे मते ॥
७ अथ शाबरसिद्धान्ते प्रमाणमिदमुच्यते ।
या बुद्धिर्जायते पुंसः प्रमाणं सैव कथ्यते ॥
बुद्धिर्जन्मनि पुंसश्च विकृतिर्यद्यनित्यता ।
अथाविकृतिरात्माऽयं प्रमातेति न युज्यते ॥
इति शाक्यविकल्पस्य भङ्गार्थमिदमुच्यते ।
पुमान् विक्रियते चैवेतीष्यते बुद्धिजन्मना ॥
न तद्विकारमात्रेण वस्तुनो नाशसंभवः ।
कुण्डलादिविकारेऽपि सुवर्णादिपदार्थवत् ॥
उपादानदशाभेदः वस्तुनो जननक्रिया ।
यस्य चानन्तरं सत्ता कार्यस्येत्यवगम्यते ॥
कारणे समवायस्तु कार्यस्यौलूक्यसम्मतः ।
स नित्योऽतीन्द्रियश्चाक्षानधीन इति दूषणम् ॥
व्यापारः कारकाणां हि दृष्टो जन्मातिरेकतः ।
प्रमाणेऽपि तथा मा भूदिति जन्म विवक्ष्यते ॥
280 मानमेयरहस्यश्लोकवार्तिके
बुद्धेर्जन्मैव विषये व्यापार इति कीर्त्यते ।
तदेवच प्रमारूपं तद्वती करणं च धीः ॥
ततश्च जायमाना सा प्रमाणं बुद्धिरिष्यते ।
अतश्च बुद्धिर्जन्मेति सूत्रयामास जैमिनिः ॥
४ सिद्धान्तस्यास्य विवृतिः कुमारिलमता यथा ।
ज्ञानं नाम क्रिया काचित्पुंसो व्यापारलक्षणा ॥
चितिशक्तेः कार्यभूता विकारः सूक्ष्म इष्यते ।
फलानुमेया तस्याश्च फलं स्यादर्थदृष्टता ॥
तामावरणभङ्गोक्त्योपचरन्ति बुधाः परे ।
धात्वर्थफलशालित्वं कर्मत्वमिति शिक्षिताः ॥
कारकाणां मिथो योगः स्यात्क्रियागर्भ एवहि ।
स्थाल्यादीनि हि सिद्धानि साध्यं धात्वर्थलक्षणम् ॥
पाकमेकं पुरस्कृत्य संसृज्यन्ते यथा मिथः ।
आत्मेन्द्रियमनोवस्तुसन्निकर्षादयस्तथा ॥
कुर्वन्ति कंचिद्व्यापारं सुसूक्ष्मं ज्ञानलक्षणम् ।
इति कौमारिलमते ज्ञानतत्त्वं सुनिश्चितम् ॥
शब्दाधिकरणे चैतच्छ्रूयते श्लोकवार्तिकम् ।
बुद्धीनामपि चैतन्यस्वाभाव्यात्पुरुषस्य नः ॥
नित्यत्वमेकता चेष्टा भेदस्तु विषयाश्रयः ।
व्याख्यात्रा विषयार्थोऽत्र सूक्ष्मः व्यापार ईरितः ॥
प्रमाणवादः 281
9 प्राभाकरमते चापि क्रियैव ज्ञानलक्षणा ।
तस्याः विषयसंवित्तिः फलमभ्युपगम्यते ॥
संवित्तौ फलरूपायां प्रकाशात्मस्वभावतः ।
स्वरूपं भासते ग्राह्यरूपत्वेन घटादिकम् ॥
आत्मा तु ग्राहकत्वेन घटं जानाम्यहं त्विति ।
आकारस्संविदो ज्ञेय एष तन्मतसंग्रहः ॥
10 अथ सांख्यादिसिद्धान्ते प्रमाणपरिशोधनम् ।
अर्थोपलब्धिकरणं प्रमाणमिति तन्मतम् ॥
लक्षणं तद्विवरणं किंचिदत्र प्रदर्श्यते ।
विषयाकारिणी बुद्धिवृत्तिर्ज्ञानमितीर्यते ॥
बुद्धेस्सत्त्वसमुद्रेकोऽध्यवसायस्तु स स्मृतः ।
इदं तावत्प्रमाणं स्यात् प्रबोधोऽनुग्रहः फलम् ॥
अनुग्रहश्च चिच्छक्तेः छायाऽऽपत्त्याऽर्थयोगिता ।
अतः पदार्था भिद्यन्ते बुद्धिज्ञानोपलब्धयः ॥
11 एतन्मतनिराकृत्यै गौतमेन हि सूत्रितम् ।
बुद्ध्यादित्रितयं चैतदनर्थान्तरमित्यपि ॥
अन्तःकरणवृत्तीनां बहिःकरणवृत्तिवत् ।
न ज्ञानताऽन्यथा भूतचैतन्यं स्यादुरुद्धरम् ॥
आत्मनो हि गुणः ज्ञानं न क्रियेति हि तन्मतम् ।
आगमश्चाप्यपायश्च स्यातां तस्य निरन्वयौ ॥
M.R. 36
282 मानमेयरहस्यश्लोकवार्तिके
12 वैशेषिकमतेऽप्येवमथौपनिषदे मते ।
निर्विशेषविदः प्राहुः सच्चिदानन्दलक्षणा ॥
अनुभूतिः स्वप्रकाशा ब्रह्मात्मा ज्ञानमुच्यते ।
संविदेषा प्रकाशैकस्वरूपा सिद्धयति स्वतः ॥
प्रकाशरूपस्सविता स्वप्रकाशो यथोच्यते ।
निवृत्तगतिरप्यद्रिस्तिष्ठतीति यथोच्यते ॥
तथा स्वयंप्रकाशाऽसावित्युक्तिस्त्वौपचारिकी ।
प्रायेणापोहवादेन साध्यते निर्विशेषता ॥
परागर्थप्रमेयेषु या फलत्वेन सम्मता ।
संवित्सैव हि सिद्धान्तः वेदान्तोक्तिप्रमाणतः ॥
इति वार्तिककारोक्तिस्सिद्धिद्वय उदाहृता ।
वृत्तिज्ञानं तु सांख्यादिसिद्धान्तवदपीष्यते ॥
स्वरूपभिन्नं ज्ञानाख्यं द्रव्यमात्माश्रितं सदा ।
प्रभावतः प्रभेवेति विशिष्टाद्वैतिनो विदुः ॥
धर्मभूतं च तत् ज्ञानं परिणामीत्युपेयते ।
यथा सांख्यमते चित्तं, तत्सर्वं धर्मधीर्मता ॥
द्वैतिभिस्तु स्वरूपस्य साक्षित्वात् ज्ञानतेष्यते ।
प्रसाददैन्यप्रमुखावस्था अप्यात्मनो मताः ॥
तथाऽपि तन्नित्यतायाः विरोधो नैव कश्चन ।
यथाऽऽत्मा शाबरो नित्यः प्रायस्सर्वैस्तथेष्यते ॥