मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 313, कुल 672 में से
संदर्भ में पढ़ेंअभाववादः
स्वप्रकाशा च नास्तीतिसंवित्तिर्भवतां मते ।
न निरालम्बना चेयमस्तीति प्रतिपत्तिवत् ॥
विकल्पविषयाश्शब्दा यथा शौद्धोदनेर्गृहे ।
गीयन्ते भवता नैवमिति नञ्द्वयमुख्यताम् ॥
प्रसिद्धिश्च परित्यक्ता नचाभावः पराकृतः ।
उपेक्षितश्च भाष्यार्थः इत्यहो नयनैपुणम् ॥
अलं च बहुनोक्तेन विमर्दोऽत्र न शोभते ।
महात्मनां प्रमादोऽपि मर्षणीयो हि मादृशैः ॥
इति वार्तिककारीययुक्तिभिः न्यायमञ्जरी ।
तत्प्राभाकरसिद्धान्तपरिहासेन शोभते ॥
9 भावान्तराभाववादः कुमारिलपरिष्कृतः ।
इति प्रत्यक्षमेवैतत् श्रूयतां श्लोकवार्तिकम् ॥
प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते ।
साऽऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि॥
स्वरूपपररूपाभ्यां नित्यं सदसदात्मके ।
वस्तुनि ज्ञायते कैश्चिद्रूपं किंचित्कदाचन ॥
भावाभावात्मकं वस्तु तदेकमिति यद्यपि ।
रूपादिंवत्स्वतोऽस्त्येव भेदः नात्यन्तमेकता ॥
तस्माद्यदन्यथा सन्तमन्यथा प्रतिपद्यते ।
तन्निरालम्बनं ज्ञानं अभावालम्बनं च तत् ॥