सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

हिंसावादः 209
पापक्षयफलं केचित् काम्यं चापि क्वचित् यदा ।
आरब्धे कामनाहानादुक्ताङ्गशक्तिसंभवे ॥
नित्यं सामान्यफलतः काम्यं फलविशेषतः ।
पापक्षयादिस्सामान्यं पश्वादिस्तु विशेषतः ॥
प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ।
एवमेव प्रवृत्तिश्चेच्चैतन्येनास्य किं फलम् ॥
3 नैमित्तिकं कर्मभेदं प्रायश्चित्तादिलक्षणम् ।
प्राहुः परे तत्तु कर्म काम्यमेवेति केचन ॥
(47) हिंसावादः.
1 कर्माङ्गपशुहिंसादिः हिंसेत्येव हि कापिलाः ।
यत्पशुर्मायुमित्यादिमन्त्रलिङ्गेन सा दृढा ॥
तत्त्याज्यं दोषवदिति चान्ववादीद्यदूत्तमः ।
यज्ञदानतपःकर्म न त्याज्यमिति चाब्रवीत् ॥
2 अपि पापं निषिद्धं स्यात् श्येनस्य विहितत्वतः
यागाङ्गपशुहिंसावत् हिंसात्वं नेति केचन ॥
3 साक्षान्मरणहेतुर्यः स हिंसाशब्दशब्दितः ।
श्येनस्यातादृशत्वेन न हिंसेत्यपरे विदुः ॥
अदृष्टद्वारकत्वेन मृतिः कैश्चिद्विवक्ष्यते ।

[Header]
मानमेयरहस्यश्लोकवार्तिके

अभिचारे कृते प्रायश्चित्तस्यापि विधानतः ।
अधर्म एव श्येनादिरिति तार्किकपद्धतिः ॥
धर्मस्त्विष्टस्य बलवदनिष्टाननुबन्धिनः ।
साधनं स्यात्ततो हिंसानिषेधश्श्येनगोचरः ॥
4 मीमांसकास्तु श्येनस्य धर्मत्वमनुजानते ।
तत्र कौमारिलमते हिंसा श्येनफलं मतम् ॥
अभिचारो हि मरणानुगुणव्यापृतिर्मता ।
श्येनो विधीयते तस्मान्न निषेधस्य गोचरः ॥
तथाऽपि तामसत्वेन शिष्टास्तावन्न कुर्वते ।
प्रभाकरमते श्येनापूर्वं कर्तव्यमिष्यते ॥
यागो निषेधविषयः विरोधविरहस्ततः ।
प्रायेणाधर्म इत्येव परेषामिव सम्मतः ॥
कर्मस्वपि च काम्येषु विधिरेव प्रवर्तकः ।
फलरागात्प्रवृत्तिश्चेत् निषिध्येत क्रतौ वधः ॥
साध्यसाधनविध्यन्तलक्षणांशत्रयस्थिता ।
हिंसा तत्र फलांशस्था निषेधविषयो मता ॥
अङ्गद्वये तु या नाम तन्निषेधाभिधायिनाम् ।
अविशेषेण यच्छास्त्रं शिरोवदिति चोत्तरम् ॥
निषेधेनानवष्टब्धे विषये न ह्यनर्थता ।
प्रत्यक्षादेरशक्यत्वात् कल्प्यते निष्प्रमाणिका ॥

हिंसावादः 21
ज्ञानमेव च शक्तीनां नावापोद्वापनक्रियाः ।
ज्ञायन्ते शास्त्रतस्तास्तु क्रियाभेदव्यवस्थिताः ॥
व्यवस्थाश्चाशक्तिभेदानां दृष्टार्थेष्वपि कर्मसु ।
अभिन्नत्वेऽपि दृश्यन्ते भुजेः स्वस्थातुरेष्वपि ॥
इति वार्तिककारीययुक्तिसिद्धान्तसंग्रहः ।
5 अथ वेदान्तिनां तत्त्वविदां सिद्धान्तसंग्रहः ॥
अनर्थपर्यवसितः दुःखस्य जनकश्च यः ।
व्यापारस्त हि हिंसेति श्रीरामानुजनिर्णयः ॥
सर्वापहारे नाव्याप्तिः नातिव्याप्तिश्चिकित्सने ।
यज्ञे वधोऽवधो यस्मात्पशुर्देवत्वमृच्छति ॥
यत्किंचिदपि कार्यं तु नियोगादेव कुर्वताम् ॥
न प्रत्यवायशङ्काऽस्ति शासनादिव भूभृताम् ॥
श्येनादिवचनं शत्रुहिंसायत्तवतां स्वतः ।
उपायबोधनपरमिति वैषम्यकल्पना ॥
तत्र प्रायश्चित्तकाम्यपश्वालम्भनकर्मणाम् ।
प्रत्यवायापादकत्वप्रसङ्गः श्येनसाम्यतः ॥
अकुर्वन् विहितं कर्म निन्दितं च समाचरन् ।
प्रसजंश्चेन्द्रियार्थेषु प्रायश्चित्ती भवेन्नरः ॥
इत्यादिशास्त्राद्विहिताकरणादिनिमित्ततः ।
प्रत्यवायाद्धि भीतोऽसौ प्रायश्चित्तमिहेच्छति ॥

कामी च पुत्रपश्वन्नस्वर्गभूत्यादिसाधने ।
प्रवर्त्ततेऽतः श्येनादिसाम्यं स्यान्निष्प्रतिक्रियम् ॥
तत्त्वटीकाकृतामुक्तिरत्रैषाऽप्यवधार्यताम् ।
एषौपनिषदानां स्यात् गतिः प्रायेण सम्मता ॥
मुमुक्षुत्वामुमुक्षुत्वदशाभेदेन कर्मिणः ।
कर्मैकं पापपुण्यत्वे साध्यैक्येऽपि समश्रुते ॥
श्येनादेश्चोदितस्यैव द्वैरूप्यं द्विविधश्रुतेः ।
एकस्यैवैकदैवास्ति कालभेदे तु किम्पुनः ॥
श्येनेषुवज्रप्रभृतिष्वपि नानर्थचोदना ।
इष्टस्यारातिभङ्गादेरुपायांशोपदेशतः ॥
घोरोपायान्तरेभ्यश्च लभ्येतात्र निवारणा ।
लघुनिष्कृतिनिस्तार्यं ह्यभिचारं प्रचक्षते ॥
किंचानभिचरन् षट्सु पतेदित्यपि शिष्यते ।
तेन धर्मोपयुक्तत्वमाततायिवधे विदुः ॥
6 वेदो हिंसामयस्तस्मादनुपादेय इत्यपि ।
आपाततस्तु पश्यन्तो बाह्या नार्हन्ति शङ्कितुम् ॥
7 अथ कार्त्तयुगो धर्मः पुंविशेषव्यवस्थितः ।
नारायणीये विस्पष्टः भारते शान्तिपर्वणि ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ऋषीणां चैव संवादं त्रिदशानां च भारत ॥

हिंसावादः २
अजेन यष्टव्यमिति प्राहुर्देवाः द्विजोत्तमान् ।
स चाप्यजश्छाग एव नान्यः पशुरिति स्थितिः
बीजैर्यज्ञेषु यष्टव्यमित्याहुर्मुनयः पुनः ।
अजसंज्ञानि बीजानि छागं नो हन्तुमर्हथ ॥
व्रीह्यादिभिः पुनरजैः त्रिवर्षपरमोषितैः ।
बीजैरजं पिष्टमयं कृत्वा यष्टव्यमित्यपि ॥
नैष धर्मः सतां देवाः यत्र वध्येत वै पशुः ।
अथ ते संविदं कृत्वा विबुधा ऋषयस्तथा ॥
अपृच्छन् सहसाऽभ्येत्य वसुं राजानमन्तिकात्
भो राजन् केन यष्टव्यं अजेनाहोस्विदौषधैः ॥
देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात् ।
छागेनानेन यष्टव्यमेवमुक्तं वचस्तदा ॥
कुपितास्ते ततस्सर्वे मुनयस्सूर्यवर्चसः ।
सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत ॥
तत एनं समुत्क्षिप्य सहसा विनतासुतः ।
उत्पपात नभस्तूर्णं ततश्चैनममुञ्चत ॥
तस्मिन् मुहूर्ते संजज्ञे राजोपरिचरो वसुः ।
सशरीरो गतश्चैव ब्रह्मलोकान् नृपोत्तमः ॥
इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तितः ।
अहिंस्या यज्ञपशवः युगेऽस्मिन्न तदन्यथा ॥

214 मानमेयरहस्यश्लोकवार्त्तिके
चतुष्पात्सकलो धर्मः भविष्यत्यत्र वै सुराः ।
ततस्त्रेतायुगं नाम त्रयी यत्र भविष्यति ॥
प्रोक्षिता यत्र पशवः वधं प्राप्स्यन्ति वै मखे ।
यत्र पादश्चतुर्थो वै धर्मस्य न भविष्यति ॥
यत्र देवाश्च यज्ञाश्च तपस्सत्यं दमस्तथा ।
अहिंसाधर्मसंयुक्ताः प्रचरेयुस्सुरोत्तमाः ॥
स वो देशस्सेवितव्यः मा वो धर्मः पदा स्पृशेत्
इत्याह भगवान् साक्षाद्देवान्प्रति हरिः स्वयम् ॥
8 अतीते तु महाकल्पे जातो विद्वान् बृहस्पतिः ।
तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः ॥
स राजा भावितः पूर्वं दैवेन विधिना वसुः ।
पालयामास पृथिवीं दिवमाखण्डलो यथा ॥
तस्य यज्ञो महानासीत् अश्वमेधो महात्मनः ।
बृहस्पतिरुपाध्यायः तत्र होता बभूव ह ॥
प्रजापतिसुताश्चात्र सदस्याश्चाभवन् त्रयः ।
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ॥
संभृतास्सर्वसंभाराः तस्मिन् राजन् महाक्रतौ ।
न तत्र पशुघातोऽभूत् राजैवावस्थितोऽभवत् ॥
अहिंस्रश्शुचिरक्षुद्रः निराशीः सर्वसंस्तुतः ।
आरण्यकपदोद्भूता भागास्तत्रोपकल्पिताः ॥

हिंसावादः 215
प्रीतस्ततोऽस्य भगवान् देवदेवः पुरातनः ।
साक्षात्तं दर्शयामास सोऽदृश्योऽन्येन केनचित् ॥
स्वयंभागमुपाघ्राय पुरोडाशं गृहीतवान् ।
अदृश्येन कृतो भागः देवेन हरिमेधसा ॥
पशुयज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति ।
अन्तवद्भिरुत प्राज्ञः क्षत्रयज्ञैः पिशाचवत् ॥
शान्तियज्ञरतो दान्तः ब्रह्मयज्ञे स्थितो मुनिः ।
वाङ्मनःकर्मयज्ञश्च भविष्याम्युपगायने ॥
कुर्याद्धृतपशुं सङ्गे कुर्यात्पिष्टपशुं तथा ।
न त्वेव तु वृथा हन्तुं पशुमिच्छेत्कदाचन ॥
९ पुरूरवस आख्याने पुराणे वैष्णवेऽपिच ।
एकोऽग्निरादावभवत् स च त्रेधा प्रवर्तितः ॥
तेन मन्वन्तरे तत्र ततो यज्ञसमुद्भवः ।
इति श्रुतं ततः पूर्वं हिंसा नास्तीति गम्यते ॥
एवंच देशकालादेर्विपर्य्यासात्तदातदा ।
हिंसाऽहिंसाविभागः स्यात्पुंशक्त्यनुगुणस्त्वसौ ॥
१० अत्र केचित्पुरा हिंसाबहुला जगति स्थिता ।
प्रवृत्तिरथ बुद्धादेरुपदेशादनन्तरम् ॥
अहिंसा प्रथमो धर्मः इति सर्वत्र सुस्थितम् ।
स एव धर्मः प्रागासीदस्माकमिति वैदिकैः ॥

216 मानमेयरहस्यश्लोकवार्तिके
पुराणपुरुषैर्व्यासपराशरमुखैर्बुधैः ।
परिष्कृतो वेदमार्ग इति युक्त्या प्रचक्षते ॥
तदिष्टमपिचास्माकं अनादित्वेन जानताम् ।
व्यवहारं प्रपञ्चस्य चक्रवत्परिवर्तितम् ॥
अनादितोऽप्यहिंसायाः धर्मत्वे परिनिष्ठिते ।
बुद्धेनापि हि तत्साक्षात्कर्तुं शक्येत नान्यथा ॥
तस्मादहिंसाधर्मत्वं देशकालानुपस्कृतम् ।
आविर्भावतिरोभावौ देशे काले भविष्यतः ॥
सनातनस्स एवासौ धर्म इत्याहुरादिमाः ।
मन्वाद्याः परमोदाराः तस्मात्सर्वं समञ्जसम् ॥
(48) अदृष्टसामर्थ्यम्.
1 अथात्रावसरात्कर्मसामर्थ्ये किंचिदुच्यते ।
कर्मप्राधान्यवाङ्मात्रान्मूढाः पौरुषशालिनः ॥
अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति ।
कर्मी कर्मापि कृत्वाऽन्यो न प्राश्यमधिगच्छति ॥
अज्ञो जन्तुरनीशोऽयमात्मनस्सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेववा ॥
कर्मादिनिरपेक्षं च कारणं परमेश्वरः ।
सर्वेषामिति सिद्धान्तमाहुः पाशुपताः परे ॥

अदृष्टसामर्थ्यम् 21
शरीरधारणं पुंसां सर्वेषामप्यपेक्षितम् ।
चिरकालं तन्न शक्यं कर्तुं यत्नशतैरपि ॥
नचौदासीन्यमात्रेण तन्निवृत्तिश्च दृश्यते ।
नियतावधिको देहः स्यादारम्भककर्मणा ॥
विवाहो जन्म मरणं जरा चेत्येवमादयः ।
नियता इति शास्त्रेषु स्मरन्त्यपिच कार्मिकाः ॥
2 अत्रायमाशयो ज्ञेयः न्यायाचार्यैः प्रकाशितः ।
चित्राक्षेपपरीहारे भाष्यवार्तिकयोरपि ॥
अनुरुध्यैव तं न्यायं वेदान्ताचार्यसूरिभिः ।
गीतातृतीयतात्पर्यचन्द्रिकायां स्फुटीकृतः ॥
नियतं चाप्यनियतं द्विधा कर्मफलं स्मृतम् ।
आद्यं प्रबलशापादिसंभवं नियतं तु तत् ॥
इतरत्स्यादनियतं देशकालाद्यपेक्षया ।
नतु स्वरूपतो येन निष्फलत्वं प्रसज्यते ॥
यच्चात्रानियतं तत्रावकाशः पुरुषस्य हि ।
यच्चापि दृष्टसामग्रीवैकल्याद्विकलं भवेत् ॥
यच्चाधिकृत्य सुधियां लोकानुग्रहकारिणाम् ।
नीतिमन्त्रौषधप्रायश्चित्तशास्त्रादिदेशना ॥
अन्यथा विजिगीषूणां समृद्धपरिपन्थिनाम् ।
चतुरङ्गादिकं नैव स्वीकार्यं स्यान्महीक्षिताम् ॥
M.R. 28

218 मानमेयरहस्यश्लोकवार्तिके
भेषजं नोपभुज्येत विबुधैरातुरैरपि ।
स्वेच्छया करणाभावे शास्त्रादेरप्यनुत्थितिः ॥
तत्सा स्वतन्त्रता पुंसां कर्मकर्तृत्वकारणम् ।
येच्छानुकूलानुष्ठानसामर्थ्येऽन्यानिवार्यता ॥
3 अथ प्राक्प्राक्कर्ममूलज्ञानेच्छादिनियन्त्रितः ।
कथं स्वतन्त्रः पुरुषो नदीवेगहतो यथा ॥
नहीच्छोत्पत्तिमात्रेण पुंसामर्थ्यं विनश्यति ।
प्रायेण विपरीतेच्छामसत्कुर्वन्ति सूरयः ॥
सत्यामप्योदनेच्छायां विषसंपृक्तताधिया ।
तन्निवारणसामर्थ्यं चेतनस्येह दृश्यते ॥
निधिलाभोपायदृष्ट्या नरः काष्ठनिचायकः ।
विनिवारयितुं शक्तः काष्ठसंपादनस्पृहाम् ॥
एवंच प्रत्यवायस्य तथाऽधिकफलस्य वा ।
ज्ञाने सतीच्छान्तरस्य दृश्यते विनिवारणा ॥
पुंसां स्वातन्त्र्योपपत्त्या कर्तृत्वं युज्यते ततः ।
तत्कृत्याकरणाकृत्यकरणेच्छानिवारणे ॥
क्षमोऽपि प्रत्यवायस्यानादरेण विमूढधीः ।
न निवारयतीत्येषोऽपराधो दण्डकारणम् ॥
4 सामान्येनेश्वरः कर्ता ह्यङ्कुराणां जलं यथा ।
विना तेन तृणस्याग्रं न चलेदिति कीर्त्यते ॥

अदृष्टसामर्थ्यम् 21

तथा कारयिता चानुमन्ता साक्षीत्यपीष्यते ।
करुणावसरस्तत्र श्रीभाष्योक्तोऽवधार्यताम् ॥
स्वशासनोल्लंघनाभिसन्धिविच्छेदमात्रतः ।
अनादिकालोपचितानन्तदुर्विषहागसाम् ॥
अनभ्युपगमद्वारा सुखसंवृद्धये स्वयम् ।
यतते च तथाचोक्तं वसुदेवतन्भूवा ॥
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥
तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥
5 अथपुण्यापुण्यरूपकर्मशक्तिनिबन्धनाः ।
सर्वा व्यवस्थाः सिध्यन्ति कृतमीशेन तादृशा ॥
पुरुषार्थानुरूपा सा प्रकृतिः परिणंस्यते ।
तथा व्यवस्थया कर्मसंस्कारैरभिसंस्कृता ॥
परिणामविशेषोऽस्ति देशकालव्यवस्थया ।
विषादिदूषितस्यान्नपानादेर्दुःखकारणम् ॥
दृश्यते परिणामश्च सुखहेतुस्तथा भुवि ।
महौषधाप्यायितस्याप्यन्नादेः देशकालयोः ॥
अत्रोच्यतेऽनभिज्ञस्त्वं पुण्यापुण्यस्वरूपयोः ।
पुण्यापुण्यस्वरूपे हि शास्त्रैकाधिगते स्थिते ॥

220 मानमेयरहस्यश्लोकवार्तिके
शास्त्रं चानादिनिधनाच्छिन्नपाठसमागतम् ।
अनाघ्रातप्रमादादिदोषं वेदाभिधं मतम् ॥
तच्चाह कर्मणी पुण्यापुण्ये तस्याखिलेषितुः ।
आराधनं तदन्यच्च कोऽत्र पर्यनुयुज्यताम् ॥
अनुग्रहान्निग्रहाच्च सुखदुःखे हि तत्फले ।
इत्यौपनिषदैकान्तः बादरायणसम्मतः ॥
न च प्रीतेरपूर्णत्वं न च कोपात्सदुःखता ।
फलप्रदित्सारूपत्वादुभयोरपि कर्मणोः ॥
6 ईश्वरेच्छाऽधिकारो वा वासना पुद्गलोऽपि वा ।
अदृष्टं वाऽपि दृष्टं वा न्यायस्त्वेकोऽवधार्यताम्
दृष्टार्थस्यापि सेवादेरायातमपि सत्फलम् ।
उत्पद्यते चिरेणैव प्रतिबन्धेन केनचित् ॥
स्वाभाविक्येव सर्वेषामुत्पत्तिरिति केचन ।
किमदृष्टेन दृष्टेन हेतुना वेति तन्मतम् ॥
निर्निमित्ता नचोत्पत्तिः न च सर्वाप्रमाणता ।
बोधयन्ति प्रमाणानि सर्वाणि सनिमित्तताम् ॥
ईश्वरेच्छाधिकारादौ शब्दलिङ्गादिवर्जनात् ।
व्यभिचाराच्च सेवादेः पश्वादेस्साधनान्तरम् ॥
तच्च चित्रादिकमिति शब्देन त्ववगम्यते ।
तदपि स्यादनियतमिति कौमारिला विदुः ॥

[Header] अदृष्टसामर्थ्यम् 221

एतद्देहानुभाव्यं यत्तदैहिकफलं मतम् ।
देहान्तरानुभाव्यं तु विदुरामुष्मिकं बुधाः ॥
7 भर्तृमित्रादयस्त्वाहुश्चित्राद्यैहिकसाधनम् ।
क्वचित्फलादर्शनं तु प्रबलप्रतिरोधतः ॥
प्रतिबन्धककर्मापि मतमैहिकसाधनम् ।
निर्निमित्तं फलं तेषां स्यादिहाकृतकर्मणाम् ॥
चित्रादीनां फलं तावत् क्षीणं प्राक्तनजन्मनि ।
नच स्वर्गफलस्येह कश्चिदंशोऽनुवर्तते ॥
नैव ह्यन्यफलं कर्म साधयेन्नः फलान्तरम् ।
गौतमीयेऽपि तच्छेषः चित्रादेश्शेष इष्यते ॥
स्वाभाविकत्वे सिद्धे च कर्मानन्तरभाव्यपि ।
फलं क्रियानिमित्तत्वं न कथञ्चित्प्रपद्यते ॥
तत्र म्लेच्छादिवत्सर्वे कर्माकृत्वाऽपि वैदिकम् ।
फलं लभन्त इत्येवं नष्टा वेदप्रमाणता ॥
8 अक्षपादीयसिद्धान्ते चित्राद्यमपि चैहिकम् ।
तत्कारिणां फलाभावः वैगुण्यादिति ते विदुः ॥
तेषामपि मते प्राग्वत् वेदानामप्रमाणता ।
फलं स्वाभाविकं यस्मात्स्यादिहाकृतकर्मणाम् ॥
आमुष्मिकं तत्स्वर्गादि वृष्ट्याद्यैहिकमिष्यते ।
पश्वाद्यनियतं ग्राह्यमसति प्रतिबन्धके ॥

२२२ | मानमेयरहस्यश्लोकवार्तिके

अभुक्तेन विरोधे तु प्रबलेन च कर्मणा ।
सर्वं चानियतं ग्राह्यं देशकालाद्यपेक्षया ॥
यच्चान्नादिफलं कर्म पूर्वजन्मन्यनुष्ठितम् ।
तत्तु स्वफलदानाय वृष्ट्याद्यपिच यच्छति ॥
ततश्चाकृतकारीरीकर्मणामपि सिद्धयति ।
वृष्ट्याद्यन्नादिनिष्पत्तिरिति शास्त्रीयपद्धतिः ॥
तस्माददृष्टाधीनत्वं सर्वेषां सुखदुःखयोः ।
नतु स्वाभाविकत्वं स्यादिति वैदिकदर्शनम् ॥
यदा सर्वमदृष्टस्य वशं विहत एव सः ।
स्वभाववादः, भूतानां परिणामोऽपि तद्वशः ॥
अग्निरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः ।
ऊर्ध्वाधस्तिर्यगित्येवंगतयोऽपिहि तद्वशाः ॥
१ प्रळयेऽपि प्रमाणं तु सर्वोच्छेदात्मके नहि ।
स च युक्तो यथेदानीं भूतानां दृश्यते क्रमात् ॥
तस्मादद्यवदेवात्र सर्गप्रळयकल्पना ।
समस्तक्षयजन्मभ्यां न सिद्धयत्यप्रमाणिका ॥
कर्मान्तरनिरुद्धं हि फलं न स्यात्क्रियान्तरात् ।
सर्वेषां तु फलापेतं न स्थानमुपपद्यते ॥
ईश्वरेच्छा यदीष्येत सैव स्याल्लोककारणम् ।
ईश्वरेच्छावशित्वे हि निष्फला कर्मकल्पना ॥

अदृष्टसामर्थ्यम्
न चानिमित्तया युक्तमुत्पत्तुं हीश्वरेच्छया ।
यत्तु तस्या निमित्तं स्यात्तद्भूतानां भविष्यति ।
सन्निवेशादिमत्सर्वं बुद्धिमद्धेतु यद्यपि ।
प्रसिद्धेः, सन्निवेशांदेरेककारणता कुतः ॥
सर्गप्रळयविज्ञानं समस्तजगदाश्रयम् ।
स्वशरीरविदां पुंसां नाधिक्येनोपयुज्यते ॥
देहानित्यत्वधीमात्रात् स्वर्गमोक्षार्थगोचरा ।
प्रवृत्तिस्सिद्ध्यति यतः व्यर्था सर्गादिधीस्ततः
10 यस्मादवश्यंवक्तव्या प्रयोजनवदर्थता ।
स्वाध्यायविध्यधीतानां सर्वोपनिषदां ततः ॥
दैवप्रभावकथनार्थोऽयं सर्गादिरुच्यते ।
प्रधानं पौरुषं येषां तन्निरासकटाक्षतः ॥
सृष्टिकाले दैववशेनैव सर्वा प्रवर्तते ।
सृष्टिस्समस्तपुरुषकाराभावेऽपि केवलम् ॥
लयकाले तु पुरुषकारे सत्यपि सर्वशः ।
तद्दैवोपर्मादेवोपरमेत्सकलं जगत् ॥
धर्मानुष्ठान एवातः यतितव्यं कृतात्मभिः ।
इत्येतत्परमेष्टव्यं सृष्टिप्रलयकीर्तनम् ॥
भारतादीतिहासानां धर्मादौ वृत्तिरिष्यते ।
व्यवहारानादिवादीमीमांसकमतं त्विदम् ॥

224 मानमेयरहस्यश्लोकवार्तिके
निर्विशेषविदां सृष्टिकथाफलमिदं मतम् ।
सर्वस्य ब्रह्मकार्यत्वे सर्वं ब्रह्माधितिष्ठति ॥
नेतिनेतिनिषेधेन निषिद्धमखिलं भवेत् ।
सृष्ट्याद्यकथयित्वैव निषेधे केवले कृते ॥
ब्रह्मानध्यस्तवस्तूनां नित्यानां सत्त्वशङ्कया ।
सर्वं ब्रह्मातिरिक्तं न प्रतिषिद्धं भवेदिति ॥
यच्चौपनिषदानां तु सविशेषविदां मतम् ।
निरूपितं प्रागित्थं तु दैवपौरुषनिर्णयः ॥
दैवे पुरुषकारे च कर्मसिद्धिर्व्यवस्थिता ।
पौरुषस्य त्वभावे हि दैवं नैव प्रसिद्ध्यति ॥
प्राग्दैहिकं पौरुषं हि दैवमित्युच्यते बुधैः ।
व्यज्यते तद्बहुफलोदयादप्यल्पयत्नतः ॥
केचिद्दैवात्स्वभावाद्वा कालात्पुरुषकारतः ।
संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः ॥
यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् ।
एवं पुरुषकारेण विना दैवं न सिद्ध्यति ॥
(49) शास्त्रसामर्थ्यम्.
1 यच्चात्र शास्त्रवैयर्थ्यचोद्यं किंचित्समाहितम् ।
तस्य प्रपञ्चो ज्ञातव्यः गीताशास्त्रनिरूपितः ॥

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥
इत्यस्यायमभिप्रायः देहोऽधिष्ठानमुच्यते ।
जीवः कर्ताऽथ करणमिन्द्रियं चक्षुरादिकम् ॥
प्राणश्चेष्टा हि विविधा या क्रियाशक्तिरुच्यते ।
ईश्वरो दैवमुद्दिष्टं तत्र न्यायोऽवधार्यताम् ॥
दैवं दिष्टं भागधेयं दैवं कर्म पुराकृतम् ।
सत्येवं व्यवहारेऽपि दैवमत्रेश्वरो मतः ॥
नहि प्रागेव नष्टानां कर्मणामिह हेतुता ।
कर्मजन्यादृष्टरूपसंकल्पादप्यसौ वरम् ॥
सत्यंसत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते ।
वेदशास्त्रात्परं नास्ति न दैवं केशवात्परम् ॥
स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम् ।
अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते ॥
इत्येवं भारते रामायणे चापि प्रयुज्यते ।
श्रूयतां परमं दैवं दुर्विज्ञेयं मयाऽपिच ॥
नारायणस्तु पुरुषो विश्वरूपो महाद्युतिः ।
सभापर्ववचस्त्वेवं अथ योगविदां वचः ॥
M.R. 29

226 मानमेयरहस्यश्लोकवार्तिके
आर्षं छन्दश्च दैवं च मन्त्राणां ब्राह्मणं तथा ।
आत्मानं पूजयेन्नित्यं भूषणाच्छादनादिभिः ॥
स्वदेह एव दैवं स्यात् अन्यद्दैवं न विद्यते ।
दैवाधीनं जगत्सर्वं मन्त्राधीनं तु दैवतम् ॥
तन्मन्त्रं ब्राह्मणाधीनं तस्माद्विप्रा हि दैवतम् ।
शास्त्रेऽप्यस्मिन् दैवशब्दः प्रयुक्तः पुरुषे यथा ।
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
तस्माद्दैवमिह ब्रूमः परमात्मानमीश्वरम् ॥
2 ननु स्वतन्त्रः कर्तेति शिष्यते कर्तृलक्षणम् ।
स कारकप्रयोक्ता स्यात् न प्रयोज्यश्च कारकैः ॥
उच्यतेऽत्रोत्पन्नबुद्धिचिकीर्षाकृतिशालिनः ।
स्यात्कारकप्रयोक्तृत्वं ज्ञानाद्युत्पत्तिरेव तु ॥
श्रुता परात्मायत्तेति तदायत्तैव कर्तृता ।
सिद्धं स्वातन्त्र्यमपिच सामर्थ्ये चानिवार्यता ॥
अथेश्वरो यदि ज्योतिष्टोमादौ संप्रवर्तयेत् ।
तदा किंचिन्न जीवस्य विधेयं चोदनादिभिः ॥
बलिना ह्रियमाणेन न गन्तुमिह शक्यते ।
निरुन्धे परमात्माऽथ न विधेयं प्रसज्यते ॥
प्रबलेन निरुद्धस्य गमनं न विधीयते ।
यदि प्रवर्तयेदीशः निषेधोऽत्र हि निष्फलः ॥

शास्त्रसामर्थ्यम्
नासौ प्रवर्तयेद्यत्र निषेधो न ह्यपेक्ष्यते ।
चोद्यकाष्ठेयमखिलास्तिकैकान्तालम्बिनी ॥
निग्रहानुग्रहाख्यानपूर्वादृष्टप्रचोदितः ।
निग्रहानुग्रहायर्ह इतीदं घटते कथम् ॥
3 अपिचात्र पराधीनास्वापि सर्वप्रवृत्तिषु ।
कृतप्रयत्नापेक्षत्वं परस्य कथमुच्यते ॥
शास्त्रवैयर्थ्यचोद्यस्यावैयर्थ्यादिप्रसङ्गतः ।
परिहारे साध्यहेत्वोः अविशेषः प्रसज्यते ॥
अत्रेदमवधातव्यं यत्तावत्परमेशितुः ।
प्रवृत्तिशक्तकरणकळेबरसमर्पणम् ॥
यच्च सर्वाधारतयाऽवस्थानं भूतलादिवत् ।
स्वरूपाच्चापि संकल्पात् प्रवृत्त्याद्यानुगुण्यतः ॥
कळेबराद्यधिष्ठानशक्तिदानं च यत्पुनः ।
यच्चापि बाह्यविषयपुरस्करणमित्यपि ॥
तत्सर्वं जीवकर्तृत्वानुगुणं नात्र चोदना ।
प्रवृत्तौ च निवृत्तौ च साधारणमिदं यतः ॥
एतावतैव भगवानुदासीन इतीर्यते ।
प्रवृत्तिकाले भगवान् अनुमन्तेत्युपेयते ॥
सा चानुमन्तृता जीवकर्तृतां न निवारयेत् ।
किंतूत्तम्भातीति नातः शास्त्रवैयर्थ्यचोदना ॥

228 मानमेयरहस्यश्लोकवार्तिके

नैवानियोज्यताहेतुः कर्त्रन्तरसहायता ।
संभूयकार्येऽप्येकस्य दृश्यते हि नियोज्यता ॥
एवं प्रवृत्तिशक्तस्य चेच्छायामनिवार्यता ।
स्वतन्त्रताऽस्य सिद्धेति कर्तृत्वमपि सुस्थितम् ॥
4 यत्त्वथज्ञानशक्त्यादौ करणे च कलेबरे ।
प्रदानं विषमं यच्चाकृत्यादावनिवारणम् ॥
यदप्यनुमतेर्दानं प्रत्यवायस्य सर्जनम् ।
तदप्यनादिप्राक्कर्म वैषम्याद्विषमं मतम् ॥
अकृत्यकारिणोऽपीशानुग्राह्यास्स्युर्यदीशितुः ।
शास्त्रमाज्ञात्मकं व्यर्थं सोऽपि स्यादव्यवस्थितः
अपुंस्त्वमावहेच्चास्य दण्ड्यानामप्यदण्डने ।
न गुणायोवकल्पेत लोके दुष्टस्य शिक्षणम् ॥
यद्यप्यदृष्टवैषम्यात्प्रवृत्तिर्विषमा मता ।
तत्त्वदृष्टं शास्त्रपुरस्कारादृष्टादि साधयेत् ॥
तदप्येवं तत्र विधिनिषेधावसरो यथा ।
यतः प्रवृत्तिः शास्त्रोत्थबुद्ध्यादिकमपेक्षते ॥
यज्ञादिकारणं पूर्वमनेन सुकृतं कृतम् ।
इत्येतेनैव नेदानीं यज्ञनिष्पत्तिसंभवः ॥
नापि पापं केवलं वा पापमारभतेऽपितु ।
स्वबुद्ध्यैव निषेधातिवृत्त्या पापस्य कारणम् ॥