सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

गुणवादः 171
एवंविधविचारे तु प्रतिष्ठा कुत्र शाश्वती ।
इति संचिन्त्य मध्यस्थाः सम्प्रदायमुपाश्रयन् ॥
सर्वेऽपि हि स्वोपलम्भं वदन्त्यखिलसाक्षिकम् ।
तथाच लोकानुभवोऽप्येवमेवेति सम्भ्रमात् ॥
तेन वादी स्वोपलम्भं भ्रमबुद्ध्या त्यजेदपि ।
त्रासितोऽपि बुधैरेवं न बिभेति विशुद्धधीः ॥
भवन्ति बहवः क्लीबाः अचलो यस्स बुद्धिमान् ।
इत्यतो वादभेदोऽपि सत्त्वाशयवशानुगः ॥
(40) गुणवादः.
1 गुणाः प्रधानं सांख्यानां त्रयस्सत्त्वादिलक्षणाः ।
अप्रधानं याज्ञिकानां मतं द्रव्यादिलक्षणम् ॥
शक्त्यादयो गुणाः प्रोक्ता ह्यर्थशास्त्रविशारदैः ।
शोभादयो गुणास्त्विष्टाः काव्यालङ्कारवेदिभिः ॥
शुक्लादयो गुणाः केचित्तार्किकैः परिभाषिताः ।
दोषप्रतिद्वन्दितया गुणास्स्युस्सर्वसम्मताः ॥
रज्ज्वादिकं तु संघातं वस्त्वस्ति गुणशब्दितम् ।
तस्मात्सामान्यतो दृष्टौ वस्तुमात्रं गुणो मतः ॥
तथैव सर्वशब्दो हि वस्तुमात्रे प्रयुज्यते ।
तथापि पारिभाषिक्या वृत्त्या शास्त्रे व्यवस्थितिः॥

गुणे द्रव्यव्यपेक्षेऽपि द्रव्येऽपि गुणकाङ्क्षिणि ।
अन्योन्यनिरपेक्षे च गुणद्रव्ये प्रसिद्ध्यतः ॥
सर्वेषां वासना प्रायस्तर्कशास्त्रानुसारिणी ।
यतः पदार्थसंशुद्ध्यै शास्त्रमेतत्प्रवर्तितम् ॥
अतस्तदनुरोधेन गुणोद्देशोऽत्र गृह्यते ।
रूपं रसस्ततो गन्धस्स्पर्शस्संख्या ततः परम् ॥
परिमाणं पृथक्त्वं च संयोगस्तदनन्तरः ।
विभागश्च परत्वं चापरत्वं बुद्धिरेवच ॥
ततस्सुखं दुःखमिच्छा द्वेषो यत्नो गुरुत्वकम् ।
द्रवत्वस्नेहसंस्काराः शब्दोऽदृष्टं गुणा इमे ॥
न गुणानां पृथक्सत्ता व्याहारो द्रव्यसत्तया ।
इति केचित्तार्किकाश्च प्राहुरित्यपि दृश्यते ॥
स्वरूपमेव संबन्धः स स्वभावनिबन्धनः ।
इत्याहुर्गुणगुण्यायोस्समवायं द्विषन्ति ये ॥
विशेषसामान्यभेदात् गुणान् द्वेधा विदुर्बुधाः ।
सामान्यद्रव्यवृत्तित्वे सामान्यगुणेतेष्यते ॥
विशेषद्रव्यवृत्तित्वे तत्त्वं प्राहुः कुमारिलाः ।
रूपं गन्धो रसः स्पर्शः स्नेहस्सांसिद्धिको द्रवः ॥
बुद्ध्यादिभावनावन्ताश्च शब्दो वैशेषिका गुणाः ।
संख्यादिरपरत्वान्तः द्रवोऽसांसिद्धिकस्तथा ॥

गुणवादः 173
गुरुत्ववेगौ सामान्यगुणा इति हि तार्किकाः ।
अथ रूपादिस्तूनां विकल्पोऽप्यवधार्यताम् ॥
2 चक्षुर्ग्राह्यः गुणो रूपं तत्सप्तविधमुच्यते ।
तार्किकैरिति सिद्धान्तः सर्वेषामेव विश्रुतः ॥
चित्रं रूपं नोपयन्ति मीमांसकविपश्चितः ।
अवयव्यतिरेके तु चित्रं रूपं मतं भवेत् ॥
भेदाभेदेऽप्यभेदे वा नोपगन्तव्यमेव तत् ।
अंशैरेवान्यथासिद्धेः नव्यैरप्येवमिष्यते ॥
मन्त्रशास्त्रे तु वस्तूनां रूपादिस्स्याद्विलक्षणः ।
विलक्षणो वैद्यशास्त्रे वेदान्तेऽपि विलक्षणः ॥
प्रत्यक्षेणापि बहुधा वैलक्षण्यं समीक्ष्यते ।
निर्वाहस्तूपदेशास्स्यादिति केचित्प्रचक्षते ॥
चित्रं यद्यतिरिक्तं स्यात् स्पर्शो गन्धः तथा रसः ।
एवमाद्याः किंनु चित्रा न भवेयुरितीवरे ॥
दुरालभादिवस्तूनां स्पर्शास्सन्ति विलक्षणाः ।
कस्तूरीप्रभृतीनां तु गन्धास्सन्ति विलक्षणाः ॥
एवं रसादिभेदाश्च सर्वानुभवसाक्षिकाः ।
व्यवहाराय सामान्यात्तीर्थकृद्भिर्विभज्यते ॥
अतिरिक्तं रूपमाहुः स्निग्धत्वं वर्णलक्षणम् ।
तथैव पिच्छिलत्वं च, स्याद्गुणान्तरमन्यथा ॥

174 मानमेयरहस्यश्लोकवार्तिके
नैल्यादयो गुणा विभ्व्यः एकैकव्यक्तिलक्षणाः ।
तेषामाश्रयभेदेन भेदधीरिति शाबराः ॥
3 रसस्तु रसनाग्राह्यः स च षड्विध इष्यते ।
मधुरादिविभेदेन स्थूलदृष्ट्या बुधैरिह ॥
रसानां सूक्ष्मभेदस्तु सर्वज्ञस्यापि दुर्ग्रहः ।
इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ॥
तथापि न तदाख्यातुं सरस्वत्याऽपि शक्यते ।
इति दण्ड्यादयः प्राहुः विद्वद्रसिकशेखराः ॥
तदाश्रयविकल्पोऽपि विविधः परिदृश्यते ।
चिन्तनानलसाश्चापि सन्ति दुश्शकनिर्णयाः ॥
4 घ्राणग्राह्यो गुणोगन्धः स च द्विविध इष्यते ।
सुगन्धश्चाथ दुर्गन्धः इत्यत्र तु विचार्यते ॥
तत्तदन्यविभेदेन विभागो न हि दुश्शकः ।
सूक्ष्मभेदाविवक्षा चेत् रूपादा सा प्रसज्यते ॥
सौगतादिप्रबन्धेषु विभागोऽस्ति विलक्षणः ।
विचाररसिकानां तु केवलं दिक्प्रदर्शनम् ॥
5 स्पर्शस्त्वगिन्द्रियग्राह्यस्स च त्रिविध इष्यते ।
अनुष्णाशीतशीतोष्णभेदादिति हि तार्किकैः ॥
वह्निरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः ।
पृथिव्यपि तथैवेति सर्वैरभ्युपगम्यते ॥

गुणवादः 175
आयुर्वेदे शीतगुणो मारुतस्संप्रकीर्तितः ।
तच्चिकित्सानियत्यर्थमिति सर्वार्थसिद्धिकृत् ॥
संयोगभेद एवायं स्पर्श इत्यपरे विदुः ।
संबन्धवादे संयोगविचारेऽस्त्यस्य विस्तरः ॥
काठिन्यमार्दवाद्यास्स्युः स्पर्शा हि विविधा भुवि।
तेषां संयोगरूपत्वे का शीताद्युपकारिता ॥
6 सर्ववस्तुषु संख्याया व्यवहारो हि दृश्यते ।
तेन संख्याऽतिरिक्तोऽर्थः सा चैकत्वादिलक्षणा ॥
बहुत्वं नातिरिक्तं स्यात्किंतु त्रित्वादिलक्षणम् ।
इति प्राभाकराः प्राहुः अथ कौमारिलाः पुनः ॥
वैशेषिकादिवत्संख्यां गुण इत्यभिमन्यते ।
द्रव्य एवाहि दृश्यन्ते व्यवहारास्तु भूयसा ॥
संख्यायामपि संख्यायाः व्यवहारस्य दर्शनात् ।
अनवस्था प्रसज्येत यदि संख्याऽतिरिच्यते ॥
गुणादावपि संख्यायाः व्यवहारस्य दर्शनम् ।
एकार्थसमवायादिसंसर्गादन्यथा भवेत् ॥
अपेक्षा बुद्धिरेव स्यात्संख्या द्वित्वादिलक्षणा ।
अपेक्षाबुद्धिजन्यं तत् इति प्राञ्चः प्रचक्षते ॥
संघातः पुनरेकत्वमिति संख्यापलापिनः ।
ऐक्यं भेदाभावरूपमिति भूषणनिर्णयः ॥

स्वरूपभेद एव स्यात् द्वित्वाद्यपिच तन्मते ।
वस्तुतस्सर्ववस्तूनि संख्या ग्रसितुमर्हति ॥
वनादौ नियतापेक्षाबुद्ध्यभावेऽपि दृश्यते ।
बहुत्वं, न शतत्वादि, तद्बहुत्वातिरिक्कता ॥
इति श्रीधरसिद्धान्तः तत्र चोदयन् पुनः ।
सेनेयं महती याति सैषा सेना महत्तरा ॥
इत्यादिव्यवहारेण ह्यतिरेकं निषेधति ।
त्रित्वाद्येकाधिकरणं बहुत्वमिति शांकरः ॥
7 एकत्वं त्वसहायत्वं मुख्यत्वं वाऽन्यतां जगुः ।
भावत्वेनैव वेद्यत्वात् अमुख्येष्वपि दर्शनात् ॥
स्वास्मिन्नप्यैक्यबुद्धेश्च त्रितयं नैक्यमिष्यते ।
संघातैक्यं तु राज्यादाविव स्यादौपचारिकम् ॥
तस्मादसंघातसंस्थमेकत्वं निरुपाधिकम् ।
अपेक्षाबुद्धिभेदैः स्यात् द्वित्वादीनां निराक्रिया ॥
इति सर्वार्थसिद्धौ हि वेदान्ताचार्यनिर्णयः ।
अभूदैक्यभ्रमो भेदादर्शनादिति वेदनात् ॥
ऐक्यं स्वसत्त्वमेवेति निरणैषुः परे बुधाः ।
स्वरूपादतिरिक्तं तत्पक्षयोरुभयोरपि ॥
यतः स्वरूपे ज्ञातेऽपि द्वित्वव्यामोहदर्शनम् ।
प्रामाणिकः स्वभावो यः तत्स्वरूपमिति स्थितम् ॥

आभिज्ञाग्राह्यमेकत्वमन्यत् तस्माद्विलक्षणम् ।
प्रत्यभिज्ञाग्राह्यमिति विपश्चिद्भिर्निरूपितम् ॥
देशकालादिभेदेन भेदो यस्तु प्रसज्यते ।
तद्विरोधैक्यमेतत्स्यादिति तल्लोकसाक्षिकम् ॥
तेनैव क्षणभङ्गं तं निरुन्धन्ति विपश्चितः ।
प्रत्यभिज्ञाविचारस्तु क्षणवादे प्रतिष्ठितः ॥
8 मानव्यवहृतेर्हेतुः परिमाणमितीर्यते ।
महद्दीर्घमणु ह्रस्वमिति तत्स्याच्चतुर्विधम् ॥
परमाणुरणुः ज्ञेयः त्र्यणुकाद्यं महत् मतम् ।
द्व्यणुकं स्यादणु ह्रस्वं तदूर्ध्वं दीर्घमिष्यते ॥
विभुद्रव्याणि परममहान्तीति विनिर्णयः ।
परमाणौ विभौ चापि मानं नास्तीति केचन ॥
परिमाणं तु परितो भाववेष्टनलक्षणम् ।
तच्चापरिमितख्यातेः विभौ नास्तीति केचन ॥
देशव्याप्तिविशेषः स्यात् परिमाणमितीतरे ।
राज्यादिषु महत्त्वादिः देशसंबन्ध एवहि ॥
आर्जवेनैकदिग्योगो दीर्घतेत्येवमूह्यताम् ।
वक्रत्वं चतुरश्रत्वं कुण्डलत्वादिकं तथा ॥
परिमाणं हि परितो मानमित्यभिधीयते ।
आकाशधातुरेवायं स तुच्छ इति सौगताः ॥
M.R. 23

178 मानमेयरहस्यश्लोकवार्तिके
अणूनां स्यात्परिमितिराकाशमिततैव हि ।
तस्मादवच्छेदभेदान्महदित्यादिधीरिति॥
विभुत्वं तर्हि सर्वेषां स्यादित्यापाद्यते बुधैः ।
परस्परविरोधे हि न प्रकारान्तरस्थितिः ॥
सर्वप्रकारपरिमित्यभावो विभुतैव हि ।
सर्वोत्कृष्टपरीमाणं विभुत्वमिति केचन ॥
अवस्थैव परीमाणं प्रकृतेरिति कापिलाः ।
उपाधिभिः पार्श्वभेदः परमाणोरितींतरे ॥
स प्रदेशा निरंशोऽपि स्वभावादिति चार्हताः ।
उपाधीनामुपाधिश्चेत् भवेदेवानवस्थितिः ॥
9 पृथक्त्वं भेद इत्यन्ये वैशिष्ट्यमिति केचन ।
परे वैधर्म्यमित्याहुः गुणान्तरमितीतरे ॥
अयमस्मात्पृथगिति प्रतीतेः भिन्न इत्यसौ ।
विलक्षणा प्रतीतिः स्यादित्याहुर्वृद्धतार्किकाः ॥
वैशिष्ट्यस्य पृथक्त्वे तु व्योम्नि शब्दविशेषिते ।
व्यवहारः पृथक्त्वेनापाद्यते प्रागपेक्षया ॥
वैधर्म्यस्य पृथक्त्वे तु पाकरक्ते घटे पुनः ।
श्यामाद्घटात्पृथगिति व्यवहारः प्रसज्यते ॥
पृथक्त्वं भेद एवेति नव्यतार्किकनिर्णयः ।
भेद एव पृथक्त्वं स्यात् भिन्नः पृथगसाविति ॥

गुणवादः 179

सामानाधिकरण्येन व्यपदेशो न विद्यते ।
पृथक्त्वं लक्षणं भेद इत्यनर्थान्तरं विदुः ॥
भेदोऽप्यसाधारणोऽसौ धर्म एवेति तात्त्विकाः ।
एकद्वित्रिपृथक्त्वादि संख्यावदिति निर्णयः ॥
वैशेषिकविशेषाणां पृथक्त्वेनान्यथा गतेः ।
नित्यानां निष्प्रमाणोऽयं विशेष इति वैदिकाः ॥
10 अप्राप्तिपूर्विका प्राप्तिः संयोगस्सार्वलौकिकः ।
अबाधिता प्रतीतिश्च संयुक्त इति तद्वति ॥
नान्यथाऽवयवी सिद्धयेत् उत्पत्तिरपि पाकजा ।
न स्याच्च जगतः सृष्टिः तथा यन्त्रादिकल्पना ॥
आलानादिविनिर्माणं संसर्गश्चेन्द्रियार्थयोः ।
संबन्धो बीजजलयोः शौचाशौचव्यवस्थितिः ॥
न स्याच्छब्दोत्पत्तिरपि जगत्स्यादपि निश्चलम् ।
विभोर्न च्छिद्रमणुना नाणूनां विभुना च तत् ॥
यथाप्रमाणं संबन्धमात्रमेव तयोर्भवेत् ।
न विभज्यते गच्छद्भिः न विहन्ति गतिं च यत् ॥
अस्पर्शात्तथाभूतं विभु वाऽविभु वाऽस्तिहि ।
कौमारिलास्त्वजमपि संयोगं श्रोत्रशब्दयोः ॥
विभ्वोरिच्छन्ति तत्पक्षे स्याद्विभागोऽपि तादृशः ।
इत्याक्षेपस्तार्किकाणां नचेष्टापत्तिसंभवः ॥

विरोधस्य परित्यागप्रसङ्गादिति तात्त्विकाः ।
इति वैशेषिकाः प्राहुरेषा सौगतपद्धतिः ॥
असिद्धः क्षणभङ्गेन संयोगस्स्यात्सहेतुकः ।
स्याच्चाविरलदेशस्योत्पत्त्या वा सिद्धिरन्यथा ॥
तस्मात्संयोगसंबन्धो विकल्प इति ते विदुः ।
संबन्धतत्त्वापलापः प्राग्रूपं शून्यसंपदः ॥
नैरन्तर्यं त्वन्तरालाभावरस्संयोग एव चेत् ।
अभावस्स्यादसन् तुच्छः न कार्यं नापि कारणम्
संयोगेऽन्तर्भावयन्ति पदार्थं कर्मलक्षणम् ।
केचिद्दार्शनिकाः केचित्तार्किकाः भूषणानुगाः ॥
संयोगमेव विषयविषयित्वं विदुः परे ।
द्रव्ययोरेव संयोगनियमं न प्रचक्षते ॥
अतीतेऽनागते चापि संयोगस्यास्ति संभवः ।
समकालिकयोरेव संयोग इति नेष्यते ॥
11 संयोगयुक्तिरेवात्र विभागेऽपि विपर्ययात् ।
शक्याऽनुसंधातुमिति क्रियते नात्र विस्तरः ॥
संयोगाभावरूपश्चेद्विभक्त इति शेमुषी ।
भवेद्विज्ञानवादेन सर्वापह्नवसंभ्रमः ॥
विभागो यदि संयोगनाशः किं न विपर्ययः ।
मिथो विनिगमाभावे तूभयं चेह निर्भयम् ॥

गुणवादः 18
पूर्वसंयोगनाशश्चेदौत्तरो योग उच्यते ।
विभक्तसंयुक्ताधियां सांकर्यं दुर्निवारणम् ॥
12 परत्वं चापरत्वं च दैशिकं कालिकं द्वयम् ।
आद्यं संयुक्तसंयोगभूयस्त्वाल्पत्वधीकृतम् ॥
कालिकं सूर्यचलनभूयस्त्वाल्पत्वधीकृतम् ।
भूयस्त्वाल्पत्वबुद्धी ते अपेक्षाबुद्धिसंज्ञिते ॥
ताभ्यामेवान्यथासिद्धिं तयोः केचिद्विदुर्बुधाः ।
बुद्धयधीने हि विज्ञानवादशङ्का प्रसज्यते ॥
विद्यावृत्ताभिजात्यादौ परताऽपरताऽपिच ।
गुणे गुणमजानाद्भिः अखिलैर्व्यपदिश्यते ॥
द्विपरत्वादयो न स्युः द्विपृथक्त्वादिवत्पुनः ।
नीलाविमौ द्वावितिवत् द्वाविमौ च पराविति ॥
सदाऽनवाधिकत्वेन प्रतीतेरिति गम्यताम् ।
द्वित्वैकार्थत्वतश्चापि तेषां स्यादन्यथागतिः ॥
परत्वादिगुणाभावे चाभावो देशकालयोः ।
तद्विस्तरः कालवादे स्थित इत्युपरम्यते ॥
13 गुरुत्वमाद्यपतनासमवायितया गुणः ।
अतीन्द्रियं चाम्बुभूम्योः कल्प्यते किल तार्किकैः
नव्यास्तन्नोपगच्छन्ति वस्त्वधोदेश एवहि ।
गुरुत्वबुद्धिविषयः ततस्स्यात्पतनादिकम् ॥

2 मानमेयरहस्यश्लोकवार्तिके
ततश्चांशप्रभेदः स्याद्गुरुत्वं ततएव हि ।
मारुतः पवते वायुः पोपवीतीति कथ्यते ॥
वह्निः ज्वलति सप्ताचिः जाज्वल्यत इतीर्यते ।
एवं जले च भूमौ च क्रियासमभिहारतः ॥
पततीति प्रयोगस्स्यात् अंशभेदनिबन्धनः ।
लघुत्वमतिरिक्तं च किंवा न स्याद्विभागवत् ॥
तिर्यगूर्ध्वाधोगुरूणीत्याहुः केचिद्दिधात्रयम् ।
तानि वाय्वग्निवारीणि क्रमादिह निदर्शनम् ॥
गुरुत्वातिशयोऽप्येषः यदाक्रमणमुच्यते ।
सांख्यैस्तमःकार्यभूतं गुरुत्वमभिधीयते ॥
पृथिवीजलवृत्त्येतत्पतनस्य प्रयोजकम् ।
तेजःपवनयोरूर्ध्वगतिहेतुर्लघुत्वकम् ॥
सत्त्वकार्यं ह्येषितव्यमिति तान्प्रत्युदीर्यते ।
अदृष्टकारितत्वोक्तिः पृथिव्यादावपीष्यताम् ॥
14 आद्यस्यन्दनहेतुस्तु द्रवत्वमभिधीयते ।
सांसिद्धिकं द्रवत्वं स्यात् नैमित्तिकमथापरम् ॥
सांसिद्धिकं तु सलिले द्वितीयं क्षितितेजसोः ।
पृथिव्यां घृतजत्वादौ सुवर्णादौ च तेजसि ॥
मसृणत्वं तद्विशिष्टं गुरुत्वं स्यन्दयेज्जलम् ।
माषादिषु तथा दृष्टेः द्रवत्वं नातिरिच्यते ॥

गुणवादः 183
मसृणत्वं त्ववयव्यूहः संयोगलक्षणः ।
इति सिद्धान्तयन्त्यन्ये तर्को न प्रतितिष्ठति ॥
15 चूर्णादिपिण्डीभावस्य हेतुः स्नेहो गुणान्तरम् ।
जलमात्रे त्वसाविष्टः नान्यथासिद्धिरन्यतः ॥
तैलादौ पार्थिवे तस्य प्रकर्षाद्दाहहेतुता ।
इति तार्किकसिद्धान्ते प्रत्युक्तिरियमुच्यते ॥
अग्नौ स्नेहविरुद्धं यद्रौक्ष्यं तत्स्याद्गुणान्तरम् ।
द्रव्यस्वभाववादस्तु सुलभस्सर्वसम्मतः ॥
16 लौकिकोऽलौकिकश्चेति संस्कारो द्विविधो मतः ।
वेगादिलक्षणस्त्वाद्यः चोदनालक्षणः परः ॥
वेगः स्थितस्थापकश्च भावनेति त्रिधाऽदिमः ।
मूर्तमात्रे तु वेगस्स्यात् कर्मजः, वेगजः क्वचित् ॥
स्थितस्थापकसंस्कारः क्षित्यादिषु मतः क्वचित् ।
भावनाख्यस्तु संस्कारः जीववृत्तिरतीन्द्रियः ॥
उपेक्षाऽनात्मकस्तस्य निश्चयः कारणं भवेत् ।
अदृष्टं सहदृष्टं च सकृद्दृष्टमिति त्रिधा ॥
सहकारी स्मृतेर्हेतोस्संस्कारस्य प्रदर्श्यते ।
इति तार्किकसिद्धान्तं शक्त्याऽपह्नुवते परे ॥
संस्कारः ज्ञानशक्तिः स्यात् कर्मशक्तेर्विलक्षणा ।
वेगः कर्मविशेषेऽन्तर्भवतीत्यपरे विदुः ॥

184 मानमेयरहस्यश्लोकवार्तिके
संस्थानस्य प्रभेदोऽयं स्थितस्थापकतेत्यपि ।
मीमांसकाः कर्मततिं वेगमाहुर्निरन्तराम् ॥
शरादौ प्रथमं वेगः नोदनेन प्रजायते ।
ततश्च कर्मसंतानः चरमोत्तरदेशजात् ॥
संयोगाद्वेगनाशस्स्यात् इति वैशेषिका विदुः ।
कर्मसंततिवद्वेगसंततिं गौतमा विदुः ॥
चोदनागम्यसंस्कारो बहुधा प्रतिपादितः ।
तद्धेतुर्गुणकर्मेति तच्छक्तिरिति केचन ॥
मीमांसकास्तु संस्कारं तं द्रव्यादिगतं विदुः ।
नैयायिकाः पुनः प्राहुः तं वै पुरुषसंगतम् ॥
स्वभाववादावकाशः वस्तुवादे प्रसज्यते ।
आत्मवादेऽदृष्टवादः, विस्पष्टः कुसुमाञ्जलौ ॥
केचित्तु ज्ञानसंस्कारः कर्मसंस्कार इत्यपि ।
विभजन्ते च तत्राद्यो भावनान्तर्गतो भवेत् ॥
अन्त्यो वीणामृदङ्गादिवाद्यवादनकौशलम् ।
शिल्पादिकौशलं वा स्यात्तत्सर्वं शक्तिसात्कृतम्।
संस्कारो वासना चैव भावनेत्यपि गीयते ।
पूर्वप्रज्ञा प्रत्यभिज्ञा श्रद्धा चैवास्य विस्तरः ॥
स एव ह्यात्मनो रूपं मुख्यमित्यभिधीयते ।
तेनाभ्युदयिकं नैश्श्रेयसं चाहुः विपश्चितः ॥

(41) बुद्धिवादः.

1 देहधातुविशेषो वा विकासो वाऽस्य कश्चन ।
ज्ञानमित्येव वक्तव्यं वरं धर्मिप्रकल्पनात् ॥
हृदयस्थः पित्तभागः प्रकाश इति वैद्यकम् ।
एवं चार्वाकसिद्धान्ते बुद्धिवस्तु विविच्यते ॥
बौद्धा विदुश्चित्तचैत्तमान्तरं बुद्धिलक्षणम् ।
चित्तं ज्ञानं चैत्तमेतत् रागाद्यं बहुधा स्थितम् ॥
तार्किकाः सुखबुद्ध्याद्यानष्टावात्मगुणान्विदुः ।
निमित्तकारणान्यत्वमपि कार्यस्य भेदकम् ॥
तद्भेदात्सुखदुःखाद्याः न विज्ञानात्मका मताः ।
सर्वं सुखं ज्ञानपूर्वं न ज्ञानं ज्ञानपूर्वकम् ॥
गर्भादौ च प्रबोधादौ प्रथमज्ञानसंभवात् ।
सांख्याः बुद्धिपरीणामाः बुद्ध्याद्या इति जानते॥
सर्वेऽप्यात्मपरीणामाः इत्याहुः शाबराः पुनः ।
कौमारिला आर्हताश्च तथौपनिषदा अपि ॥
कैश्चित्तु धर्मभूतस्य ज्ञानस्य परिणामिनः ।
एते विकारास्तेनात्मा सुखाद्याधार इष्यते ॥
आनुकूल्यप्रातिकूल्योपेक्षावस्थाविभेदतः ।
बुद्धिरेव सुखं दुःखमुपेक्षेत्यपि शब्द्यते ॥
इच्छाद्वेषादिकं बुद्धेः प्रपञ्चः स्यादिहान्यथा ।
ईर्ष्याभ्यसूयाकरुणाभयधैर्यबलादयः ॥
M.R.

186 मानमेयरहस्यश्लोकवार्तिके
इच्छाद्वेषादिवत्किं वा न भवेयुः पृथग्गु[णाः]
केचिदिच्छाप्रभेदं तद्रागद्वेषादिकं विदुः
रागोऽनुकूलविषयोपादानेच्छेति निर्णय[ः]
प्रतिकूलजिहासा तु द्वेष इत्यभिधीयते
तावेव तीव्रभावेन कामक्रोधाविति स्थि[तिः]
अशनायापिपासाद्यास्सहस्रं स्युरिहान[न्ताः]
तस्माद्द्वेषो विशेषः स्यादिच्छाया इति [...]
2 शृङ्गारादिरसाश्चापि बुद्धिभेदाः प्रकी[र्तिताः]
शृङ्गारवीरबीभत्सरौद्राद्याः स्यु रसा [...]
बुद्धेरात्मस्वरूपत्वे त्वात्मैव रस उच्य[ते]
बुद्धेरात्मगुणत्वे तु गुणा एव रसा म[ताः]
बुद्धेश्चित्तस्वरूपत्वे सत्वोद्रेको रसो भ[वेत्]
बुद्धेस्स्वयंप्रकाशत्वे स्वयंवेद्यो रसो [...]
बुद्धेर्मानसपक्षे तु सोऽपि मानस उ[च्यते]
बुद्धिर्यद्यनुमेया स्यात्तदा चानुमितो[...]
एवं सिद्धान्तभेदेन रसतत्त्वं विकल्प[ते]
बुद्धेः प्रपञ्चः प्रामाण्यवादे सम्यग्वि[विच्यते]
सुखदुःखेच्छादयस्तु गुणास्स्युर्बुद्धिरूपि[णः]
3 प्रयत्नोऽपि धियो भेदः पौरुषेयी कृ[तिर्मता]
सर्वत्राख्यातवाच्यैषा या त्वार्थी भ[ावना...]

[Header] बुद्धिपादः 187

वाक्यार्थवादे तत्तत्त्वं स्फुटमग्रे भविष्यति ।
प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम् ॥
एवं प्रयत्नत्रैविध्यं तार्किकैः परिकीर्तितम् ।
तत्र जीवनयोनिर्यः स च कैश्चिन्न कल्प्यते ॥
अदृष्टादेव च प्राणसंचारं ते विदुर्बुधाः ।
प्रवृत्त्यभाव एव स्यान्निवृत्तिरिति केचन ॥
निवृत्त्यभावः प्रवृत्तिरित्याशङ्का दुरुत्तरा ।
निवृत्तिर्यत्नभेदस्स्यादिति नव्याः विदुर्बुधाः ॥
4 आनुकूल्यप्रातिकूल्येवेद्यता सुखदुःखयोः ।
लक्षणं तत्रानुकूलं सुखं, दुःखं विपर्ययः ॥
प्रायो विदितमेवैतत् कैश्चिद्वेदान्तिभिः पुनः ।
अनुकूलतया वेद्यं सर्वं सुखमितीष्यते ॥
प्रतिकूलतया वेद्यं सर्वं दुःखमिति स्मृतम् ।
अतः सर्वे पदार्थास्स्युः सुखदुःखपदाभिधाः ॥
सैषाऽऽनन्दस्य मीमांसा युवा स्यादित्युपक्रमात्
अनुकूलतया वेद्यं सर्वमानन्दमब्रवीत् ॥
आनुकूल्यं विषयताविशेषः सर्वगामि तत् ।
तस्मात्सर्वं सुखं यद्वा तज्ज्ञानं सुखमिष्यते ॥
तद्धेतोरेव तत्त्वे तु किं वस्त्वन्तरचिन्तया ।
तस्मादविदितावस्थायोगित्वं तस्य नेष्यते ॥

188 मानमेयरहस्यश्लोकवार्तिके
साक्षिवेद्यत्वसिद्धान्तः पर्यायादयमेवहि ।
स्वप्रकाशात्मवादो वा सर्वमेकफलोन्मुखम् ॥
अत्रैव शाक्यभिक्षूक्तं वचनं त्ववधार्यताम् ।
तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः ॥
तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ।
विकल्पो यदि बाह्येऽपि किं वक्तव्यमिहान्तरे ॥
(42) प्राकट्यवादः.
1 अथ बुद्धिप्रसङ्गेन प्राकट्यमिह कथ्यते ।
भाट्टदृष्टः प्रकटता गुणः न तु परैः बुधैः ॥
घटो हि विद्यमानोऽपि कस्यचिद्व्यवहार्यताम् ।
प्रपद्यते न सर्वेषामथवा नापि सर्वदा ॥
तस्माद्यदा व्यवहरेत् चेतनोऽसौ घटादिना ।
तदा तद्व्यवहारस्यानुगुणोऽतिशयोऽस्ति यः ॥
स ज्ञानमिति सर्वेऽपि कल्पयन्ति परीक्षकाः ।
उत्पन्नमेव तत् ज्ञानं प्रत्यक्षमिति केचन ॥
ज्ञानजन्यादतिशयादनुमेयमितीतरे ।
कीर्त्यतेऽसौ प्रकटता दृष्टता ज्ञाततेति च ॥
सामान्यतस्तु प्राकट्यमिति तैः परिभाष्यते ।
दृष्टता जायतेऽध्यक्षात्परोक्षात् ज्ञाततेत्यपि ॥

प्राकट्यवादः 18
तत्रापरोक्षं दृष्टत्वं घटो दृष्टो मयेति हि ।
दृष्टत्वमनुसंधत्ते सर्वोऽप्यर्थस्य चात्मना ॥
नान्यथा ह्यर्थसद्भावो दृष्टस्सन्नोपपद्यते ।
ज्ञानं चेन्नेत्यतः पश्चात्प्रमाणमुपजायते ॥
तथैवानुमिते ह्यर्थे मया ज्ञातोऽग्निरित्यपि ।
ज्ञातत्वमनुसंधत्ते ज्ञातता नाक्षगोचरा ॥
अथाप्यत्रोपपत्तिं ते सूक्ष्मदृष्ट्या प्रचक्षते ।
ज्ञातता ह्यात्मनोऽर्थेन संबन्धः प्राप्तिलक्षणः ॥
कर्तृकर्मात्मनोर्मातृमेययोराप्तिरेव सा ।
सैव प्राकट्यदृष्टत्वज्ञातत्वादिपदोदिता ॥
व्यापारोऽवश्यवक्तव्यः पुमान् येन प्रवर्तितः ।
अर्थोऽपि प्रापितश्च स्यात्प्रमेयाधिगतिर्हि सा ॥
मानसाध्यक्षवेद्या सा परोक्षो विषयो यदि ।
कल्पयेदेव विज्ञानमन्यथाऽनुपपत्तितः ॥
तं पदार्थान्तरं प्राहुः प्राकट्यमिति पण्डिताः ।
एवं प्राकट्यतत्त्वार्थो न्यायरत्नाकरे स्फुटः ॥
२ संविदं स्वप्रकाशां तु मन्यन्ते ये च तन्मते ।
स्वोत्पत्तिसमये संवित् वेत्तारं वेद्यमेव च ॥
स्वस्वरूपं भासयति न त्वेषां तु परस्परम् ।
संबन्धं स्वस्वरूपस्यानिष्पन्नत्वादसत्त्वतः ॥

190 मानमेयरहस्यश्लोकवार्तिके
संविदन्तरनिष्पत्तिसमये पूर्वसंविदः ।
नष्टत्वादुक्तसंबन्धो न तद्गोचरतामियात् ॥
किंतु संवेत्तृधर्मोऽसौ प्राप्त्याख्यः स्वात्मसाक्षिकः।
निष्पन्नायां तु संवित्तौ स संबन्धोऽवभासते ॥
ततएवच संवित्तिवस्तुकल्पनसंभवात् ।
संवित्तैः स्वप्रकाशत्वकल्पना गुरुताऽऽहृता ॥
3 प्राकट्यं स्यात् ज्ञानधर्मः इत्याहुः किल सौगताः ।
आत्मधर्म इति प्राहुः प्राभाकरमतानुगाः॥
प्राकट्यं नाम सर्वेषु विषयेषु स्थितो गुणः ।
इति कौमारिलाः प्राहुः हेतुः प्रागेव विस्तृतः ॥
ज्ञानार्थयोश्च संबन्धः यस्स्याद्विषयताऽऽत्मकः ।
स ज्ञानरूप एवेति नैयायिकमुखा विदुः ॥
अतिरिक्तं पदार्थं तं नव्यनैयायिका विदुः ।
विषयत्वविकल्पस्तु संबन्धेऽत्र प्रपञ्च्यते ॥
सर्वासां च प्रतीतीनां बुद्धिसंबन्धमात्रतः ।
उपपत्तेः प्रकाशोऽन्यैः तदन्यो नाभ्युपेयते ॥
यदि कल्प्येत विषये प्राकट्यं व्यवहारतः ।
तद्धेतुत्वेन कल्प्या धीः तत्फलार्थं प्रकल्प्यताम् ॥
यदि तत्रैव तस्यैव प्राकट्यं ते धिया भवेत् ।
तथा ज्ञानादयोऽपि स्युः किमन्तर्गडुनाऽमुना ॥