मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
तथा भेदप्रत्ययोऽपि ह्यभेदेऽपिच दृश्यते ।
चन्द्रद्वयं घटमठाकाश इत्यादिलक्षणः ॥
बलाबलव्यवस्थायां कर्तव्यायां प्रसज्यते ।
सर्वत्राप्रामाण्यशङ्का यथा चैषाऽवधार्यताम् ॥
निर्वापितारोपितवत् ज्वालैक्यप्रत्ययस्थले ।
सादृश्यसाद्देश्यमुखदोषाणां संभवो यथा ॥
अयःपिण्डस्थलेऽन्योन्यव्यतिहारधियामपि ।
हेतुर्विलक्षणो योगः यथा स्यात्प्रकृते तथा ॥
साद्देश्यसंसर्गमुखदोषसद्भावशङ्कया ।
स्यादभेदप्रत्ययोऽप्रामाण्यशङ्काकलङ्कितः ॥
तथा भेदप्रत्ययोऽपि शिलापुत्रस्य देहवत् ।
राहोश्शिरोवदैक्यस्याग्रहणाद्वा भवेदिति ॥
तादृशाप्रामाण्यशङ्काकलङ्कान्न विमुच्यते ।
घटस्यात्मेत्यादिवत्तु ममात्मेत्यन्यथा भवेत् ॥
2 एवंच नित्यशास्त्रोत्थसंप्रदायानुसारतः ।
भेदधीः प्रबला नान्येत्याहुश्शास्त्रैकलोचनाः ॥
यथा चन्द्रे यथा सूर्ये परिमाणाल्पविभ्रमः ।
दिङ्मोहादिभ्रमश्चैव तलमालिन्यविभ्रमः ॥
एवंलक्षणकस्सर्वश्शास्त्रेणैव निवार्यते ।
तथा शास्त्रानुग्रहेण बलाबलविनिर्णयः ॥
156 मानमेयरहस्यश्लोकवार्त्तिके
ततः स्वतो वा युक्त्या वा योगदर्शनतोऽपिवा ।
आत्मनः सिद्धिरित्याहुः इति देहात्मसंग्रहः ॥
(37) आर्हतात्मा.
1 आर्हतानामात्मतत्त्वं प्रागेव सुनिरूपितम् ।
तदेवचात्माऽध्यायेऽस्मिन् अन्यूनत्वाय चिन्त्यते
देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः ।
स्वयंप्रकाशप्रत्यक्षसिद्ध आत्मेति निर्णयः ॥
आत्मा चैतन्यरूपस्स्यात्परिणामी करोति च ।
साक्षाद्भोक्ता स्वीयदेहसमानपरिमाणवान् ॥
प्रतिक्षेत्रं विभिन्नश्च विचित्रश्चाप्यनन्तकः ।
स च पौद्गलिकादृष्टसंयुतः पुरुषार्थभाक् ॥
आत्मतत्त्वं तु सहजचिद्रूपपरिणामवत् ।
आवृतिप्रक्षयादेषः सार्वज्ञ्यैकरसः स्वयम् ॥
ज्ञानाद्भिन्नो नचाभिन्नः भिन्नाभिन्नः कथंचन ।
ज्ञानं पूर्वापरीभूतं सोऽयमात्मेति कीर्तितः ॥
उपादेयं परं ज्योतिरुपयोगैकलक्षणः ।
उपयोगः कर्मणैकीभूतस्यास्य विवेचनम् ॥
2 औदयश्चौपशमिकः क्षायिकः पारिणामिकः ।
एते जीवस्य चत्वारः भावाः पर्यायलक्षणाः ॥
आर्हतात्मा 157
स स्यादौदयिको भावः यः कर्मोदयलक्षणः ।
स चौपशमिको भावः यः कर्मोपशमात्मकः ॥
स एव क्षायिको भावः यस्स्यात् मोक्षपदाभिधः ।
स पारिणामिको भावः सहजः चित्स्वभावता ॥
समनस्कोऽमनस्कश्च स जीवो द्विविधो मतः ।
संज्ञिनस्समनस्काः स्युः अमनस्काः त्रसाः स्थिराः
गुणपर्यायवद्द्रव्यं तत्रस्थाः निर्गुणाः गुणाः ।
चैतन्यसुखदुःखाद्याः पर्यायगुणलक्षणाः ॥
3 सत्कर्मपुद्गलाः पुण्यं पापं तस्य विपर्ययः ।
पूरयन्ति गलन्तीति पुद्गला इति निर्णयः ॥
धर्मः प्रवृत्तिहेतुः स्यादधर्मः स्थितिकारणम् ।
अधर्मे गलिते धर्मः स्यादूर्ध्वगतिसाधनम् ॥
आत्मनश्चलनं योगः तेन कर्म पुमानयम् ।
आदत्ते सलिलं विष्वक् तप्तायःपिण्डवत् सदा ॥
तदेव पौरुषं ज्योतिः इन्द्रियेभ्यस्स्रवत्सदा ।
स्पृशच्च विषयान् तद्धीरूपेण परिणाम्यदः ॥
स चास्रवः, तस्य धीरैः कर्तव्यस्संवरस्सदा ।
आस्रवस्स्रोतसो द्वारं संवृणोतीति संवरः ॥
इति मानमेयरहस्यश्लोकवार्तिके प्रमेयकाण्डे
प्रथमः परिच्छेदः
अथ प्रमेयकाण्ड द्वितीय परिच्छेद प्रारम्भः.
(38) धर्मधर्मिभाववादः.
1 अथ मीमांस्यते धर्मधर्मिभावे विदां मतम् ।
सर्वेषां च विवादानां प्रायशोऽत्रैव विश्रमः ॥
सदसत्कार्यवादो वा नित्यानित्यविकल्पना ।
क्षणास्थिरविवादश्च सृष्टिप्रळयकल्पना ॥
द्वैताद्वैतविवादश्च मोक्षवादोऽपि तादृशः ।
तदुपायविवादो वा वादेऽस्मिन् पर्यवस्यति ॥
अद्रव्यवादिनः केचित्केचिद्द्रव्यैकवादिनः ।
तदैक्यवादिनः केचित् केचित्तद्भेदवादिनः ॥
भेदाभेदं वदन्त्यन्ये केचित्सन्मात्रवादिनः ।
असन्मात्रविदः केचित् तेषां भावोऽवमृश्यताम् ।
2 स्पर्शादीन् जगतो धातून् पञ्च वैभाषिका विदुः
शब्दात्मनश्चतुर्ष्वेव केचिदित्यपरेऽब्रुवन् ॥
स्पर्शाद्येकद्वित्रिचतुस्स्वभावानपरे विदुः ।
निर्धर्मका निराधाराः न चेत्स्यादनवस्थितिः ॥
धर्मोपकारशक्तीनां भेदे तास्तस्य किं यदि ।
नोपकारस्ततस्तासां, तथा स्यादनवस्थितिः ॥
158
धर्मधर्मिभाववादः 159
नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मनो ग्रहे ।
सर्वात्मनोपकार्यस्य को भेदस्स्यादनिश्चितः ॥
एकोपकारके ग्राह्ये नोपकारास्ततोऽपरे ।
दृष्टे तस्मिन्नदृष्टेऽपि तद्ग्रहे सकलग्रहः ॥
त्वगाद्येकैकेन्द्रियस्य ग्राह्या इत्यपि तत्स्थितिः ।
तेषां पुञ्जः प्रपञ्चोऽयं संबन्धस्यानवस्थितेः ॥
क्षीणानि चक्षुरादीनि रूपादिष्वेव पञ्चसु ।
न षष्ठमिन्द्रियं द्रव्यग्राहकं विद्यते बहिः ॥
तत्र धर्मातिरेकेण धर्मिणोऽनुपलम्भनात् ।
संघातमात्र एवायं गवादिस्स्यादनादिवत् ॥
सिद्धे ज्ञानसुखादीनां गुणत्वे गुणिकल्पना ।
न तु तत्सिद्धमस्माकं तावन्मात्रोपपत्तितः ॥
एत एव विशेषैकवादिनोऽद्रव्यवादिनः ।
प्रायो वैभाषिका एते यथाच वनवादिनः ॥
३ अथ केचन सन्मात्रं विदुः तत्तु स्वलक्षणम् ।
तदेतत्सर्वसामान्यसहमित्यपि तैः स्मृतम् ॥
द्रव्यं गुणः कर्म जातिः नाम चेत्यपि पञ्चधा ।
विकल्प्यते वासनया वस्तुभावेन तद्यथा ॥
गोविन्दो वेणुमान् श्यामः गोपोऽयं गायतीत्यपि ।
प्रतीतिर्व्यवहारश्च वर्तते न तु वस्तुतः ॥
60 मानमेयरहस्यश्लोकवार्तिके
एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतस्स्वयम् ।
कोऽन्यो न दृष्टो भागस्स्यात् यः प्रमाणैः परीक्ष्यते॥
स्वलक्षणः स प्रत्यक्षः निर्विकल्पकगोचरः ।
इत्याहुस्ते हि सन्मात्रवादिनः धर्मिवादिनः ॥
सामान्यवादिनश्चापि तथैवापोहवादिनः ।
बाह्याद्वैतिन इत्येवं कथ्यन्ते बहुरूपतः ॥
भेदे धर्मिस्वरूपे तु भ्रमः क्वापि न संभवेत् ।
धर्मरूपेऽनवस्था स्यात् अन्योन्याश्रयताऽपि वा ॥
भेदकाग्रहणे भेदो न गृह्येत कथंचन ।
तस्य चाग्रहणे सोऽपि न गृह्येतेति संग्रहः ॥
अभावस्य यथा देशकालाद्यैः सिद्धिरन्यथा ।
तथा रूपादिवस्तूनां किं न स्यात्सिद्धिरन्यथा ॥
साधारणोऽथान्यथा वा संबन्धो धर्मधर्मिणोः ।
आद्ये सकलसांकर्यं अन्त्ये भेदो न सिद्ध्यति ॥
आधाराधेयभावोऽपि न भेदे व्यवतिष्ठते ।
स्वभावात्रियमश्चेत्स्यात् स्वभावादेव चैकता ॥
4 सौत्रान्तिकानां सिद्धान्तः प्रायेणायमिति स्थितः।
द्रव्याद्रव्यैक्यसिद्धान्तस्त्वथ कापिलसम्मतः ॥
वस्तुजातं प्रतीत्यैव व्यवस्थाप्यं हि सर्वशः ।
धर्मी धर्मः प्रतीयेते नातोऽन्यतरनिह्नवः ॥
धर्मधर्मिभाववादः 1
कार्यकारणयोर्द्रव्यगुणयोः कर्मकर्मिणोः ।
जातिव्यक्त्योरभेदोऽयं सम्मतोऽयुतसिद्धयोः ॥
धर्मत्वादथ कार्यत्वात् संयोगाप्राप्त्यसंभवात् ।
संवित्त्युत्पत्तिसत्तानां भेदेनानवभासनात् ॥
धर्मोऽसौ धर्म्यभिन्नस्स्यादिति सांख्यव्यवस्थिति
कथंचिदाश्रितत्वादिः स्यात्तु भेदविवक्षया ॥
यथेह कानने सन्ति तिलका इति गीस्तथा ।
5 वैशेषिकादयः केचिद्भेदमेकान्ततो विदुः ॥
प्रतीतिं व्यवहारं च प्रमाणं तेऽपि मन्वते ।
दर्शनस्पर्शनाभ्यां चाप्येकार्थग्रहणादिति ॥
अबाधिता प्रत्यभिज्ञा धर्म्यभावे हि दुर्घटा ।
धर्माभावः पट्वपटुप्रत्ययानुपपत्तितः ॥
पीतशङ्खभ्रमादेश्चाप्ययोगान्न हि संभवी ।
स एवच तदैवान्यैः शुक्लत्वेनोपलभ्यते ॥
अधिष्ठानस्य कार्त्स्न्येन भानेऽभाने च न भ्रमः
भाताभाताकृतिर्भिदा कथं निर्धर्मके भवेत् ॥
आविर्भावतिरोभावधर्मकेष्वनुयायि यत् ।
तद्धर्मि यत्र वा ज्ञानं प्राग्धर्मग्रहणाद्भवेत् ॥
ग्राह्यभेदे ग्राहकाणां भेदस्स्यादन्यथापुनः ।
अन्योन्यसंश्रयापत्त्या विजयी मध्यमागमः ॥
M.R. 21
162 मानमेयरहस्यश्लोकवार्तिके
वेद्यहेतुफलाकारैः भिन्नैरेका समेति धीः ।
तथा बाह्येऽपि दृष्टत्वात् युगपत्क्रमशोऽपिवा ॥
प्रतिसंबन्ध्यनेकत्वं यथा नैकस्य बाधकम् ।
तथा संबन्ध्यनेकत्वं नाश्रयैकत्वबाधकम् ॥
अनादाविह संसारे पूर्वपूर्वोपदॆशतः ।
शिक्ष्यमाणाः पुनर्बालाः व्युत्पद्यन्ते तथातथा ॥
सर्वोऽपि भेदो युगपत्सहसैवोपलभ्यते ।
सेनावनसभातारामण्डलादिविभागवत् ॥
आगन्तुकोऽथवाऽवस्था धर्मो मिथ्येति न क्षमः ।
जननादेश्च मिथ्यात्वे नित्यत्वं वाऽथ तुच्छता ॥
नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् ।
अपेक्षातो हि भावानां कादाचित्कत्वसंभवः ॥
अस्तीहीति प्रतिज्ञाने नास्तीहीत्युत्तरं क्षमम् ।
प्रवृत्तिभिर्विशिष्टार्था बालमूकादिधीरपि ॥
6 ननु निर्धर्मको धर्मः उत वा स्यात्सधर्मकः ।
आद्येऽभिलपनं न स्यात् अन्त्ये स्यादनवस्थितिः॥
केचिद्धर्माः धर्मिणः स्युः स्वान्यनिर्वाहकाः परे ।
गोत्वादिनिष्कर्षशब्दे धर्मी धर्मविशेषकः॥
सत्त्वं प्रामाणिकत्वाख्यं प्रमेयत्वं च वाच्यता ।
पदार्थत्वादिकं सर्वैः स्वस्ववृत्तीति सम्मतम् ॥
धर्मधर्मिभाववादः 163
घटकुड्यवदन्यत्वेऽनन्यत्वे तु स्वरूपवत् ।
न गुणस्य गुणत्वं स्यादित्यसत्त्वोक्तिबाधतः ॥
दृष्यादन्यदनन्यद्वा दूषणं नतु दूषणम् ।
गर्दभादिवदन्यत्वे,ऽनन्यत्वे दूषणीयवत् ॥
सामान्यं वा विशेषं वा वादी नाङ्गीकरोति चेत् ।
भ्रान्तिबाधौ हि न स्यातां कुत्र किं केन साध्यते ॥
द्रव्यं सत्त्वमथाद्रव्यमसत्त्वमिति शाब्दिकम् ।
असत्त्वेन मृषात्वं स्यादद्रव्यस्येति चेन्न तत् ॥
असत्त्वं सत्त्वभिन्नत्वं द्योतकत्वादि तन्मतम् ।
नतु तुच्छं यतश्चार्थक्रियाकारित्वमिष्यते ॥
7 भेदाभेदे हेतवो ये कीर्तिताः धर्मधर्मिणोः ।
अभेदधीः प्राक्, परतश्चैकशब्दानुविद्धधीः ॥
सामानाधिकरण्यं च मत्वर्थीयविनाकृतम् ।
सहोपलम्भनियमः इत्याद्याः, तत्र चोच्यते ॥
नाभेदधीः प्राग्वैशिष्ट्यात् धर्म्यैक्यादेकतामतिः ।
मत्वर्थीयः पृथक्सिद्धे सहभावोऽपि भेदकः ॥
तदिहाभिन्नधीर्भिन्ने भ्रान्तिः ज्वालैक्यबुद्धिवत् ।
अभिन्ने भेदधीश्चैवं स्याच्चन्द्रद्वित्वबुद्धिवत् ॥
धर्मधर्मिस्वरूपैक्ये स्यान्नान्यतरधीः क्वचित् ।
सहधीश्च क्वचिन्न स्यात् सम्मतैक्ये यथा घटे ॥
सहस्रशस्सुप्रयोगास्सन्त्येव ह्यौपचारिकाः ।
तत्त्वं विनिश्चाययितुं अज्ञानां तैर्न शक्यते ॥
भेदाग्रहादिकारित्वात् धर्मत्वाद्देशसाम्यतः ।
परिमाणैक्यतश्चेत्याद्यसारं सांख्यकल्पितम् ॥
बाधासिद्ध्यन्यथासिद्धिर्व्यभिचारादिविप्लुताः ।
हेतवस्तद्विदामेव जुगुप्सामात्रहेतवः ॥
यत्तु भेदे स्वरूपादिविकल्पः तत्र कथ्यते ।
यद्बुद्धौ यत्र यद्भ्रान्तिः न स्यात्, सा तत्र तद्विदा ॥
अभेदेऽपि स्वरूपादिविकल्पानुपपत्तयः ।
भेदे यथा तथैव स्युः समाधिश्चोभयोस्समः ॥
8 तस्माद्धर्मश्च धर्मी च निरपेक्षौ परस्परम् ।
विवादानवकाशस्स्यादभावे धर्मधर्मिणोः ॥
क्व वा विधीयते किंवा साध्यं किं किंच साधनम् ।
कः पक्षः कश्च दृष्टान्तः सर्वं खल्विह दुर्घटम् ॥
इदमित्थंत्वयो किंचिद्यदि केनापि भज्यते ।
इदं नास्तीति वाचोऽपि भङ्गोऽन्यतरभङ्गतः ॥
विसंवादादिसाध्येषु विकल्पत्वादिहेतवः ।
व्याकुलाः पक्षहेत्वादिबाधाबाधविकल्पतः ॥
व्यवहारो हि जगतो भवत्यालम्बने क्वचित् ।
न तत्सामान्यतो नास्ति कथंता तु परीक्ष्यते ॥
धर्मधर्मिभाववादः 165
सामान्यनिश्चितार्थेन विशेषे तु बुभुत्सिते ।
परीक्षा वर्तते स्वेष्टप्रमाणोत्पादनात्मिका ॥
संबन्धेऽनुपपत्तिर्या वृत्तित्वे याऽपि तादृशी ।
स्वीयकार्यविरोधेन सा नात्रोत्प्रेक्षितुं क्षमा ॥
वासनावशतस्सर्वनिर्वाहे शून्यता वरम् ।
इष्टप्रसक्तिरितिचेदनिष्टं तेऽस्तिवा नवा ॥
नास्ति चेन्नैव दूष्योऽन्योऽप्यस्ति चेत्तत्प्रसज्यते ।
इष्टानिष्टाविभागस्तु तिरश्चामपि दुर्वचः ॥
भेदमात्रापह्नवस्तु स्वक्रियायां विरुध्यते ।
न विरोधस्य संत्यागी लौकिको नाप्यलौकिकः ॥
९ अथ भेदाभेदवादसारांशोऽत्रावधार्यताम् ।
अर्हत्पातञ्जलकुमारिलप्रभृतिसम्मतः ॥
यदि ह्येकान्ततो भिन्नं विशेष्यात्स्याद्विशेषणम् ।
स्वानुरूपां सदा बुद्धिं विशेष्ये जनयेत्कथम् ॥
स्फटिकादौ तु लाक्षादिस्वरूपा या मतिर्भवेत् ।
अव्युत्पन्नस्य सा मिथ्या व्युत्पन्नानां हि भेदधीः ॥
न तु जात्यादिनिर्मुक्तं वस्तु दृष्टं कदाचन ।
तद्विवेकेन वा तानि लाक्षादिस्फटिकादिवत् ॥
तत्रापि चेन्न दृश्येत भेदः कैश्चित्कदाचन ।
रक्तादिबुद्धिसम्यक्त्वं विनिवार्येत केन वा ॥
166 | मानमेयरहस्यश्लोकवार्तिके
नानिष्पन्नस्य संबन्धो निष्पत्तौ युतसिद्धता ।
तथाच सति संबन्धे हेतुः कश्चिन्न विद्यते ॥
समवायवियोगाच्च विश्लेषस्स्यात्परस्परम् ।
तत्कॢप्तावव्यवस्था स्यात्तस्यतस्यान्यसंगतेः ॥
अथ तस्यात्मरूपत्वान्नान्यसंबन्धकल्पना ।
अभेदात्समवायोऽस्तु स्वरूपं धर्मधर्मिणोः ॥
अतो जात्यादिरूपेण धर्मी यद्गृह्यते नरैः ।
पाररूप्यं न तस्यास्तीत्यप्रामाण्यं न युज्यते ॥
यो ह्यन्यरूपसंवेद्यः संवेद्येतान्यथापुनः ।
स मिथ्या नतु तेनैव यो नित्यमवभासते ॥
अत्यन्तभिन्नताऽस्माभिः नैव कस्यचिदिष्यते ।
सर्वे हि वस्तु रूपेण भिद्यते न परस्परम् ॥
सर्ववस्तुषु बुद्धिश्च व्यावृत्यनुगमात्मिका ।
तेन नात्यन्तभेदोऽपि स्यात्सामान्यविशेषयोः ॥
तस्मात्सास्नादिमत्स्वेव गोत्वं यस्मात्तदात्मकम् ।
तादात्म्यमस्य कस्माच्चेत्स्वभावादिति गम्यताम् ॥
स्वरूपसत्त्वमात्रेण नच किंचिद्विशेषणम् ।
स्वबुद्ध्या रज्यते येन विशेष्यं तद्विशेषणम् ॥
अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्विकल्पकम् ।
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥
धर्मधर्मिभाववादः 167
व्यावृत्तिरनुवृत्तिर्वा तदानीं नानुभूयते ।
तयोराधारभूता तु व्यक्तिरेवावसीयते ॥
महासामान्यमन्यैस्तु द्रव्यं सदिति चोच्यते ।
सामान्यविषयत्वं च प्रत्यक्षस्यैवमाश्रितम् ॥
विशेषास्तु प्रतीयन्ते सविकल्पकबुद्धिभिः ।
ते च केचित्प्रतिद्रव्यं केचिद्बहुषु संश्रिताः ॥
पूर्वोक्तादेव तु न्यायात्सिद्धयेदत्रावयव्यपि ।
तस्याप्यत्यन्तभिन्नत्वं न स्यादवयवैस्सह ॥
व्यक्तिभ्यो जातिवच्चैष न निष्कृष्टः प्रतीयते ।
कैश्चिदव्यतिरिक्तत्वं कैश्चिच्च व्यतिरिक्तता ॥
दूषिता साधिता वापि नच तत्र बलाबलम् ।
कदाचिन्निश्चितं कैश्चित् तस्मान्मध्यस्थता वरम् ॥
ततोऽन्यानन्यते तस्य स्तो न स्तश्चेति कीर्त्यते ।
तस्मात्स्याच्चित्रवत्सर्वं मृषैव त्वेकरूपता ॥
तदभिन्नादभिन्नस्य तदभेदो न हीष्यते ।
रसरूपादिभेदस्य विनिपातः प्रसज्यते ॥
वस्त्वनेकान्तवादाच्च न संदिग्धाप्रमाणता ।
ज्ञानं संदिह्यते यत्र तत्र न स्यात्प्रमाणता ॥
इहानेकान्तिकं वस्त्वित्येवं ज्ञानं सुनिश्चितम् ।
संदिग्धैकान्तवादो हि स्यात्क्लैब्यैकनिबन्धनः ॥
इदं कौमारिलमतमुक्तं तादात्म्यलक्षणम् ।
पातञ्जलार्हदादीनां सिद्धान्तोऽप्ययमेव हि ॥
अत्रैव च क्वचित्कांचिद्विशेषं परिगृह्य ये ।
प्रवृत्ता मतभेदास्ते सन्ति वेदान्तिनामपि ॥
सत्यासत्यविभागेनाविरोधं केचिदूचिरे ।
प्रतीत्यैव विरोधस्य पराहतिरितीतरे ॥
परे विप्रतिपद्यन्ते प्रतीतावेव तादृशि ।
तत्त्वं देवो विजानाति चित्रा मानुषशेमुषी ॥
(३९) द्रव्यवादः.
1 द्रव्यादिव्यवहारेषु विकल्पोऽथ प्रदर्श्यते ।
न द्रव्यं नाम वस्त्वस्ति वस्तुत्वेऽपि गुणादितः ॥
नातिरिक्तं पृथक्त्वेऽपि न प्रत्यक्षं तदिष्यते ।
प्रत्यक्षेऽपि विकल्पोऽयमिति वादः प्रवर्तते ॥
उपलम्भे विश्रमोऽतः तत्रापि शपथोक्तयः ।
एवं प्रकारस्सर्वत्र विचारः सौगताहृतः ॥
गुणे कर्मणि सामान्ये विशेषादौ प्रवर्तते ।
विवर्तवासना काचिन्महती तैस्समाश्रिता ॥
तामेवाश्रित्य कतिचित् स्वंस्वं सिद्धान्तमभ्यधुः ।
तद्विवर्तपदार्थेऽपि विकल्पो विविधोऽस्ति हि ॥
द्रव्यवादः 169
तुच्छं विवर्त्तमपरेऽथानिर्वाच्यं विदुः परे ।
अन्यथात्वं विदुः केचित् साधारण्यं विदुः परे ॥
२ ख्यातिवादे पुनस्तत्त्वमेतस्य स्फुटमग्रतः ।
द्रव्यं नित्यं ब्रह्म तत्त्वं परमार्थं च सन्मतम् ॥
इति ब्रह्मविदः प्राहुः अत्रच श्लोकवार्तिकम् ।
महासामान्यमन्यैस्तु द्रव्यं सदिति भाषितम् ॥
शब्दाद्वैतविदः शब्दं द्रव्यमित्यभिमन्वते ।
कालाद्वैतविदः कालं द्रव्यमेकमुदैरयन् ॥
स्याद्वादिनां तु सिद्धान्ते त्वेतत्स्याद्द्रव्यलक्षणम् ।
अनागतपरिणामावस्थं द्रव्यमितीर्यते ॥
तद्वर्त्तमानपर्यायं भाव इत्याभिधीयते ।
द्रूयन्ते यानि पर्यायैः पर्यायैर्वा द्रवन्त्यपि ॥
द्रव्याणि तानि निर्दिष्टान्यद्रव्याणि द्विधा पुनः ।
आगन्तवः स्युः पर्यायाः सहजास्स्युर्गुणा इति ॥
सांख्यानां सकलं द्रव्यं अनेकान्तविदामपि ।
वैशेषिकादिसिद्धान्ते द्रव्यं धर्मितया स्थितम् ॥
गुणकर्मादिधर्माणामिति पूर्वं निरूपितम् ।
मूर्तं द्रव्यं विदुः केचित् परिणामीति केचन ॥
द्रव्यं शक्तिमदित्येके ह्यद्रव्यं नहि शक्तिमत् ।
यथा शक्तिरशक्तैवं अद्रव्यं स्वान्यसाधकम् ॥
M.R. 22
अवस्थाधारता द्रव्यमिति स्वायंभुवादयः ।
आगन्तुकापृथक्सिद्धधर्मोऽवस्थेति कीर्त्यते ॥
स्फुरद्द्रव्यमिळद्धर्मोऽवस्थेत्येके विदुर्बुधाः ।
अवस्थातद्वतोर्भेदाभेदं तु बहवो विदुः ॥
द्रव्यं नित्यमवस्थास्स्युरनित्या इति भाषितम् ।
पातञ्जले महाभाष्ये सुवर्णमकुटादिवत् ॥
३ एवं गुणपदं कर्मपदाद्यमपि दृश्यते ।
वस्तुमात्रे संप्रयुक्तं कथं तत्त्वव्यवस्थितिः ॥
तस्माद्वस्तुव्यवस्थायां व्यवहारा न चेशते ।
प्रयोगाल्पत्वभूयस्त्वनिर्णयः प्राज्ञदुश्शकः ॥
तस्माद्विरुद्धसंस्कारशिक्षितानां मनीषिणाम् ।
अन्योन्यं प्रत्यवस्थाने व्यवहारान्न निर्णयः ॥
अतएव हि शब्दानां सर्वेषां सर्वशक्तताम् ।
सर्वात्म्यवादिनः प्राहुः व्यवस्थां सहकारिभिः ॥
सहकारिविकल्पस्तु वासनामनुवर्तते ।
अतश्च वासना सर्वमिति सौगतनिर्णयः ॥
४ वासनानां तु वैचित्र्यं वस्तुवैचित्र्यमूलकम् ।
वैचित्र्यं चापि वस्तूनां स्वभावादिति तद्विदः ॥
एवंविधाऽपि काचित्स्याद्वासनेति च सौगताः ।
साऽपि बाह्यार्थनिष्ठेति विदुर्बाह्यार्थवादिनः ॥
गुणवादः 171
एवंविधविचारे तु प्रतिष्ठा कुत्र शाश्वती ।
इति संचिन्त्य मध्यस्थाः सम्प्रदायमुपाश्रयन् ॥
सर्वेऽपि हि स्वोपलम्भं वदन्त्यखिलसाक्षिकम् ।
तथाच लोकानुभवोऽप्येवमेवेति सम्भ्रमात् ॥
तेन वादी स्वोपलम्भं भ्रमबुद्ध्या त्यजेदपि ।
त्रासितोऽपि बुधैरेवं न बिभेति विशुद्धधीः ॥
भवन्ति बहवः क्लीबाः अचलो यस्स बुद्धिमान् ।
इत्यतो वादभेदोऽपि सत्त्वाशयवशानुगः ॥
(40) गुणवादः.
1 गुणाः प्रधानं सांख्यानां त्रयस्सत्त्वादिलक्षणाः ।
अप्रधानं याज्ञिकानां मतं द्रव्यादिलक्षणम् ॥
शक्त्यादयो गुणाः प्रोक्ता ह्यर्थशास्त्रविशारदैः ।
शोभादयो गुणास्त्विष्टाः काव्यालङ्कारवेदिभिः ॥
शुक्लादयो गुणाः केचित्तार्किकैः परिभाषिताः ।
दोषप्रतिद्वन्दितया गुणास्स्युस्सर्वसम्मताः ॥
रज्ज्वादिकं तु संघातं वस्त्वस्ति गुणशब्दितम् ।
तस्मात्सामान्यतो दृष्टौ वस्तुमात्रं गुणो मतः ॥
तथैव सर्वशब्दो हि वस्तुमात्रे प्रयुज्यते ।
तथापि पारिभाषिक्या वृत्त्या शास्त्रे व्यवस्थितिः॥
गुणे द्रव्यव्यपेक्षेऽपि द्रव्येऽपि गुणकाङ्क्षिणि ।
अन्योन्यनिरपेक्षे च गुणद्रव्ये प्रसिद्ध्यतः ॥
सर्वेषां वासना प्रायस्तर्कशास्त्रानुसारिणी ।
यतः पदार्थसंशुद्ध्यै शास्त्रमेतत्प्रवर्तितम् ॥
अतस्तदनुरोधेन गुणोद्देशोऽत्र गृह्यते ।
रूपं रसस्ततो गन्धस्स्पर्शस्संख्या ततः परम् ॥
परिमाणं पृथक्त्वं च संयोगस्तदनन्तरः ।
विभागश्च परत्वं चापरत्वं बुद्धिरेवच ॥
ततस्सुखं दुःखमिच्छा द्वेषो यत्नो गुरुत्वकम् ।
द्रवत्वस्नेहसंस्काराः शब्दोऽदृष्टं गुणा इमे ॥
न गुणानां पृथक्सत्ता व्याहारो द्रव्यसत्तया ।
इति केचित्तार्किकाश्च प्राहुरित्यपि दृश्यते ॥
स्वरूपमेव संबन्धः स स्वभावनिबन्धनः ।
इत्याहुर्गुणगुण्यायोस्समवायं द्विषन्ति ये ॥
विशेषसामान्यभेदात् गुणान् द्वेधा विदुर्बुधाः ।
सामान्यद्रव्यवृत्तित्वे सामान्यगुणेतेष्यते ॥
विशेषद्रव्यवृत्तित्वे तत्त्वं प्राहुः कुमारिलाः ।
रूपं गन्धो रसः स्पर्शः स्नेहस्सांसिद्धिको द्रवः ॥
बुद्ध्यादिभावनावन्ताश्च शब्दो वैशेषिका गुणाः ।
संख्यादिरपरत्वान्तः द्रवोऽसांसिद्धिकस्तथा ॥
गुणवादः 173
गुरुत्ववेगौ सामान्यगुणा इति हि तार्किकाः ।
अथ रूपादिस्तूनां विकल्पोऽप्यवधार्यताम् ॥
2 चक्षुर्ग्राह्यः गुणो रूपं तत्सप्तविधमुच्यते ।
तार्किकैरिति सिद्धान्तः सर्वेषामेव विश्रुतः ॥
चित्रं रूपं नोपयन्ति मीमांसकविपश्चितः ।
अवयव्यतिरेके तु चित्रं रूपं मतं भवेत् ॥
भेदाभेदेऽप्यभेदे वा नोपगन्तव्यमेव तत् ।
अंशैरेवान्यथासिद्धेः नव्यैरप्येवमिष्यते ॥
मन्त्रशास्त्रे तु वस्तूनां रूपादिस्स्याद्विलक्षणः ।
विलक्षणो वैद्यशास्त्रे वेदान्तेऽपि विलक्षणः ॥
प्रत्यक्षेणापि बहुधा वैलक्षण्यं समीक्ष्यते ।
निर्वाहस्तूपदेशास्स्यादिति केचित्प्रचक्षते ॥
चित्रं यद्यतिरिक्तं स्यात् स्पर्शो गन्धः तथा रसः ।
एवमाद्याः किंनु चित्रा न भवेयुरितीवरे ॥
दुरालभादिवस्तूनां स्पर्शास्सन्ति विलक्षणाः ।
कस्तूरीप्रभृतीनां तु गन्धास्सन्ति विलक्षणाः ॥
एवं रसादिभेदाश्च सर्वानुभवसाक्षिकाः ।
व्यवहाराय सामान्यात्तीर्थकृद्भिर्विभज्यते ॥
अतिरिक्तं रूपमाहुः स्निग्धत्वं वर्णलक्षणम् ।
तथैव पिच्छिलत्वं च, स्याद्गुणान्तरमन्यथा ॥
174 मानमेयरहस्यश्लोकवार्तिके
नैल्यादयो गुणा विभ्व्यः एकैकव्यक्तिलक्षणाः ।
तेषामाश्रयभेदेन भेदधीरिति शाबराः ॥
3 रसस्तु रसनाग्राह्यः स च षड्विध इष्यते ।
मधुरादिविभेदेन स्थूलदृष्ट्या बुधैरिह ॥
रसानां सूक्ष्मभेदस्तु सर्वज्ञस्यापि दुर्ग्रहः ।
इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ॥
तथापि न तदाख्यातुं सरस्वत्याऽपि शक्यते ।
इति दण्ड्यादयः प्राहुः विद्वद्रसिकशेखराः ॥
तदाश्रयविकल्पोऽपि विविधः परिदृश्यते ।
चिन्तनानलसाश्चापि सन्ति दुश्शकनिर्णयाः ॥
4 घ्राणग्राह्यो गुणोगन्धः स च द्विविध इष्यते ।
सुगन्धश्चाथ दुर्गन्धः इत्यत्र तु विचार्यते ॥
तत्तदन्यविभेदेन विभागो न हि दुश्शकः ।
सूक्ष्मभेदाविवक्षा चेत् रूपादा सा प्रसज्यते ॥
सौगतादिप्रबन्धेषु विभागोऽस्ति विलक्षणः ।
विचाररसिकानां तु केवलं दिक्प्रदर्शनम् ॥
5 स्पर्शस्त्वगिन्द्रियग्राह्यस्स च त्रिविध इष्यते ।
अनुष्णाशीतशीतोष्णभेदादिति हि तार्किकैः ॥
वह्निरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः ।
पृथिव्यपि तथैवेति सर्वैरभ्युपगम्यते ॥