सामग्री पर जाएँ
सर्वकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 211, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 211

द्रव्यवादः 169
तुच्छं विवर्त्तमपरेऽथानिर्वाच्यं विदुः परे ।
अन्यथात्वं विदुः केचित् साधारण्यं विदुः परे ॥
२ ख्यातिवादे पुनस्तत्त्वमेतस्य स्फुटमग्रतः ।
द्रव्यं नित्यं ब्रह्म तत्त्वं परमार्थं च सन्मतम् ॥
इति ब्रह्मविदः प्राहुः अत्रच श्लोकवार्तिकम् ।
महासामान्यमन्यैस्तु द्रव्यं सदिति भाषितम् ॥
शब्दाद्वैतविदः शब्दं द्रव्यमित्यभिमन्वते ।
कालाद्वैतविदः कालं द्रव्यमेकमुदैरयन् ॥
स्याद्वादिनां तु सिद्धान्ते त्वेतत्स्याद्द्रव्यलक्षणम् ।
अनागतपरिणामावस्थं द्रव्यमितीर्यते ॥
तद्वर्त्तमानपर्यायं भाव इत्याभिधीयते ।
द्रूयन्ते यानि पर्यायैः पर्यायैर्वा द्रवन्त्यपि ॥
द्रव्याणि तानि निर्दिष्टान्यद्रव्याणि द्विधा पुनः ।
आगन्तवः स्युः पर्यायाः सहजास्स्युर्गुणा इति ॥
सांख्यानां सकलं द्रव्यं अनेकान्तविदामपि ।
वैशेषिकादिसिद्धान्ते द्रव्यं धर्मितया स्थितम् ॥
गुणकर्मादिधर्माणामिति पूर्वं निरूपितम् ।
मूर्तं द्रव्यं विदुः केचित् परिणामीति केचन ॥
द्रव्यं शक्तिमदित्येके ह्यद्रव्यं नहि शक्तिमत् ।
यथा शक्तिरशक्तैवं अद्रव्यं स्वान्यसाधकम् ॥
M.R. 22