मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 208, कुल 672 में से
संदर्भ में पढ़ें166 | मानमेयरहस्यश्लोकवार्तिके
नानिष्पन्नस्य संबन्धो निष्पत्तौ युतसिद्धता ।
तथाच सति संबन्धे हेतुः कश्चिन्न विद्यते ॥
समवायवियोगाच्च विश्लेषस्स्यात्परस्परम् ।
तत्कॢप्तावव्यवस्था स्यात्तस्यतस्यान्यसंगतेः ॥
अथ तस्यात्मरूपत्वान्नान्यसंबन्धकल्पना ।
अभेदात्समवायोऽस्तु स्वरूपं धर्मधर्मिणोः ॥
अतो जात्यादिरूपेण धर्मी यद्गृह्यते नरैः ।
पाररूप्यं न तस्यास्तीत्यप्रामाण्यं न युज्यते ॥
यो ह्यन्यरूपसंवेद्यः संवेद्येतान्यथापुनः ।
स मिथ्या नतु तेनैव यो नित्यमवभासते ॥
अत्यन्तभिन्नताऽस्माभिः नैव कस्यचिदिष्यते ।
सर्वे हि वस्तु रूपेण भिद्यते न परस्परम् ॥
सर्ववस्तुषु बुद्धिश्च व्यावृत्यनुगमात्मिका ।
तेन नात्यन्तभेदोऽपि स्यात्सामान्यविशेषयोः ॥
तस्मात्सास्नादिमत्स्वेव गोत्वं यस्मात्तदात्मकम् ।
तादात्म्यमस्य कस्माच्चेत्स्वभावादिति गम्यताम् ॥
स्वरूपसत्त्वमात्रेण नच किंचिद्विशेषणम् ।
स्वबुद्ध्या रज्यते येन विशेष्यं तद्विशेषणम् ॥
अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्विकल्पकम् ।
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥