मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)
Malla Purana: Ancient Indian Wrestling & Martial Arts
ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा
पृष्ठ 54, कुल 141 में से
संदर्भ में पढ़ें१० मल्लपुराणे
हस्तेन प्रपदे गृह्य भ्रामितो लुण्ठितो भुवि ।
घातितो मुष्टिघातैश्च मारितो मल्लविद्यया ॥ ४४ ॥
संनिष्पिष्टसर्वाङ्गो भग्न(ग्नो)ष्ठो भग्नमानसः ।
गलत्केशोऽपतत् भूमौ चाणूरो गतचेतनः ॥ ४५ ॥
बलेनैवं मुष्टिकोऽपि घातितो मल्लविद्यया ।
अन्येऽपि मल्लमुख्याश्च पातिताः सर्वतो भुवि ॥ ४६ ॥
कंसोऽपि निहतः संख्ये पातितो ह्यवनीतले ।
हाहाकारोऽभवत् शब्दस्तदा कंसे निपातिते ॥ ४७ ॥
अन्ये च दुद्रुवुर्भीताः प्राणरक्षणतत्पराः ।
एके विदिततत्त्वार्था मामेव शरणं गताः ॥ ४८ ॥
तस्माद् गृहात्वेनां त्वं मल्लविद्यां द्विजोत्तम ।
यया च भ्रामिताः सर्वे शत्रवो निधनं गताः ॥ ४९ ॥
इति ते कथिता ब्रह्मन् मल्लविद्या मयानघ ।
किं पृच्छसि पुनः स्वामिन् कथयामि तव प्रियाम् ॥ ५० ॥
यः शृणोति नरो भक्त्या मल्लकंसादिघातिनम् ।
क्रीडितं मम विप्रेन्द्र स याति परमं पदम् ॥ ५१ ॥
इति श्रीमल्लपुराणे सोमेश्वरकृष्णप्रश्नोत्तरं नाम प्रकरणं द्वितीयम्* ॥
*There is no colophon in P.