मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)
Malla Purana: Ancient Indian Wrestling & Martial Arts
ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा
पृष्ठ 55, कुल 141 में से
संदर्भ में पढ़ेंतृतीयोऽध्यायः ।
ब्रह्मोवाच ।
इति कृष्णवचः श्रुत्वा सोमेश्वरपुरःसराः ।
ज्योतिर्विदं समाहूय मुहूर्त्तं स्थापयन्ति ते ॥ १ ॥
अक्रूरैः सुखदैर्वारैः सुभगायां तिथावपि ।
विद्यारम्भस्य नक्षत्रैर्ग्रहैश्चापि शुभप्रदैः ॥ २ ॥
ततस्ते मण्डपं रम्यं रङ्गभूमौ प्रकल्पितम् ।
पताकाभिस्तोरणैश्च स्वस्तिकैश्च विचित्रितम् ॥ ३ ॥
चतुर्द्वारिषु द्वौ द्वौ च कलशौ राजवारकौ ।
होमकुण्डसमोपेतं विस्तीर्णकृतवेदिकम् ॥ ४ ॥
तत्र ते ब्राह्मणाः सर्वे शुभे लग्ने समागताः ।
कृष्णं च बलभद्रं च पुरस्कृत्य कृतोत्सवाः ॥ ५ ॥
शुभासने चोपविष्टौ तत्र तौ परमेश्वरौ ।
कारयन्तौ शुभं होमं द्विजेभ्यो दानमुत्तमम् ॥ ६ ॥
ऋग्यजुःसामवेदैश्च कृतस्वस्त्य[य]नौ ततः ।
कृताञ्जलिपुटो भूत्वा द्विजस्तत्र तयोः पुरः ॥ ७ ॥
ततः सोमेश्वरः कृष्णं प्रणम्य इदमब्रवीत् ।
सोमेश्वर उवाच ।
देव देव कृपालुस्त्वं सर्वविप्रगणाधिप ॥ ८ ॥
प्रथमं मल्लविद्यायां विधानमुपदिश्यताम् ।
ब्रह्मोवाच ।
पश्चाद्विधाने विज्ञाते कर्तव्योभिनवः सुखम् ॥ ९ ॥
एवमस्त्विति कृष्णेन-स च प्रत्यभिनन्दितः ।
प्रारब्धमुपदेशं तु संप्रदातुं मनो दधे ॥ १० ॥