सामग्री पर जाएँ
सर्वकोश
मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

Malla Purana: Ancient Indian Wrestling & Martial Arts

ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा

DevanagariSanskritpublished141 पृष्ठ

पृष्ठ 53, कुल 141 में से

संदर्भ में पढ़ें
पृष्ठ 53

अन्ये च बहवो दैत्या अशुभविघ्नकारकाः ।
विष्णुना निहताः संख्ये तेन द्वेषो मयाऽभवत् ॥ ३२ ॥
पितरं वसुदेवं च मातरं देवकीं च मे ।
निगृह्य निगडैर्बध्ध्वा कारागेहेऽरुणद् बलात् ॥ ३३ ॥
वधोपायाः कृतास्तेन मयि गोकुलवासिनि ।
विनाशिता मया सर्वे पूतनादिसर्वदानवाः ॥ ३४ ॥
कंसो भीतः स्वयं दृष्ट्वा विफलानुद्यमान् बहून् ।
मन्त्रं चक्रे च दुर्बुद्धिर्दुष्टं दानवमन्त्रिभिः ॥ ३५ ॥
मल्लयुद्धेन घातव्यो नान्यथा घात्यते बली ।
एवं विचार्यमाणं तमक्रूरं समनोदयत् ॥ ३६ ॥
अक्रूरोऽपि रथे कृत्वा मां [ च ] भद्रं च गोपकान् ।
मथुरामिनयत्कंसं निवेद्य च गृहं गतः ॥ ३७ ॥
रङ्गमण्डपमञ्चादीन् निर्माय मल्लकान् बहून् ।
चाणूरादीनाचार्यान्समाहूय समादिशत् ॥ ३८ ॥
कृष्णोऽयं बलिनां श्रेष्ठो रामोऽपि बलसत्तमः ।
मल्लविद्यां समासाद्य घातनीयौ नृभिर्बलात् ॥ ३९ ॥
इत्यादिष्टास्तु कंसेन चाणूरादिसर्वयोधिनः ।
मल्लाः समाविशँन् रङ्गं मन्दाः प्रोचुः प्रभर्त्सनैः ॥ ४० ॥
अहं च बलभद्रश्च मल्लौ चाणूरमुष्टिकौ ।
समासाद्य स्थितौ युद्धे मल्लमुष्टिप्रघातिनौ ॥ ४१ ॥
हस्तेन गृहीतहस्तोयं पद्भ्यां मे बलपादयोः ।
आकर्षितोऽयं चाणूरो निपपात महीतले ॥ ४२ ॥
परिभ्रामणनिक्षेपे( क्षेप )परिरम्भावपातनैः ।
उत्सर्जनानुगमनै रुन्धितः स मयाऽद्भुतम् ॥ ४३ ॥