सामग्री पर जाएँ
सर्वकोश
मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

Malla Purana: Ancient Indian Wrestling & Martial Arts

ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा

DevanagariSanskritpublished141 पृष्ठ

पृष्ठ 133, कुल 141 में से

संदर्भ में पढ़ें
पृष्ठ 133

मल्लपुराणे
८८
अभ्यासात्सिद्धिमाप्नोति तेन सम्यक् समभ्यसेत् ।
यः शृणोति त्विदं गुह्यं मया च प्रतिपादितम् ॥ ७० ॥
तस्य शाखाः प्रवर्द्धन्ते प्रयागवासको यथा ।
इत्येवं मल्लशास्त्रं च पठ्यते रङ्गभूमिषु ॥ ७१ ॥
निर्विघ्नाः सर्वमल्लाश्च ज्येष्ठी च विजयी भवेत् ।
तस्माद्विघ्नविनाशाय श्रोतव्यं च सदा बुधैः ॥ ७२ ॥
धनायुर्वर्धते तस्य शयो(यशो) लक्ष्मीर्जयः शुभम् ।
इदं ददाति गुरवे परिखेस्यं च पुस्तकम् ॥ ७३ ॥
तस्य कुले महामल्ला जययुक्ता भवन्ति हि ।
मल्लशास्त्रं परिश्रुत्य वक्तारं न प्रपूजयेत् ॥ ७४ ॥
वंशच्छेदो महाहानिस्तस्य नित्यं प्रजायते ।
न युद्धकुशलः क्वापि न लक्ष्मीं न यशः सुखम् ॥ ७५ ॥
तस्मात्सर्वप्रकारेण मल्लः पूज्यं(तु) पुस्तकम् ।
मल्लशास्त्रधरं विप्रं काश्यपगोत्रसमुद्भवम् ॥ ७६ ॥
पूजयन्ति च ये मल्लास्तेषां लक्ष्मीर्जयः सुखम् ।
ये शृण्वन्ति त्विदं सम्यक् श्लोकं श्लोकार्धमेव च ॥ ७७ ॥
मल्लाः पापविनिर्मुक्ता भोगान् भुक्त्वा हरेः पदम् ।
प्रयान्ति सन्ततिस्तेषां वर्धते पुत्रपौत्रिकी ॥ ७८ ॥
अतो मल्लैः सदा ह्येतच्छ्रोतव्यं सर्वकामकम् ।
पूजयेत्प्रसादाद्भक्त्या श्रद्धया च फलाप्तये ॥ ७९ ॥
वस्त्रैराभरणैश्च द्रविणेन च पुस्तकम् ।
ऋतुभवैश्च पुष्पैश्चैर्द्रव्यै रत्नेरनेकशः ॥ ८० ॥
सुवर्णे रजतैर्वापि मुकुन्दप्रीतिहेतवे ।
वेदनीराजिते सम्यक् पूरणस्य फलं भवेत् ॥ ८१ ॥