सामग्री पर जाएँ
सर्वकोश
मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

Malla Purana: Ancient Indian Wrestling & Martial Arts

ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा

DevanagariSanskritpublished141 पृष्ठ

पृष्ठ 134, कुल 141 में से

संदर्भ में पढ़ें
पृष्ठ 134

अष्टादशोऽध्यायः । ८९
सोमेश्वर मया प्रोक्तं पुराणं धारयेत्सदा ।
मद्भक्त्या च युतो विप्रः पूज्यो भवति नित्यशः ॥ ८२ ॥
ज्येष्ठी तथान्तरज्येष्ठी चान्ये मल्लास्तु नित्यशः ।
पुराणं मल्लसंज्ञं हि शृणुयात् पूजयेच्च तत् ॥ ८३ ॥
श्रुतं भवति येनेदं श्रुतं तेन चराचरम् ।
अष्टादश पुराणानि श्रुतानि नात्र संशयः ॥ ८४ ॥
किं वर्ण्यते मयाऽद्भुता पुस्तकस्य फलश्रुतिः ।
मल्लवंशोद्भवेनेदं श्रोतव्यं च पुनः पुनः ॥ ८५ ॥
मातेव रक्षति ह्माशु पितेव हितकारकम् ।
तस्मान्मल्लैर्नहि त्याज्यं पुराणं मल्लसंज्ञितम् ॥ ८६ ॥
इति श्रीमल्लपुराणे श्रीकृष्णसोमेश्वरसंवादे पुराणफलप्रशंसा पञ्चदशोऽध्यायः [ अष्टादशोऽध्यायः ] ।
इति मल्लपुराणम् ।