मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)
Malla Purana: Ancient Indian Wrestling & Martial Arts
ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा
पृष्ठ 132, कुल 141 में से
संदर्भ में पढ़ेंअष्टादशोऽध्यायः । ८७
तस्य चैते भविष्यन्ति दोषा नामविचारणात् ।
शौर्यवीर्ये सत्यशौचे बलविक्रमैश्च युतम् ॥ ५८ ॥
यशस्वी लभते विद्यां साध्यते निरन्तरम् ।
राज्ञश्च पात्रतामेति माननीयश्च राजभिः ॥ ५९ ॥
अङ्गसङ्गस्य कर्ता च निरन्तरात्मकार्यवान् ।
यथा च यो भवत्येव लिपिबलसमन्वितः ॥ ६० ॥
कलाभिश्चन्द्रवन्मल्लो वर्द्धते च दिनं प्रति ।
बलेन वर्धते कायो संग्रामे विजयी भवेत् ॥ ६१ ॥
मन्दाधमाः कर्णल्यास्त्रीभिर्ये च निरन्तरम् ।
मल्लाः सर्वे पतिष्यन्ति पातिताः स्मरस्या(शा)सने ॥ ६२ ॥ .
आत्मत्राणमविज्ञाय विक्रमं कुरुते तु यो ।
स पराभवमाप्नोति मल्लो रंभासमो हि सः ॥ ६३ ॥
सर्वकार्याणि संत्यज्य मल्लविद्याचयो भवेत् ।
न पराभूयते विघ्नैः संग्रामे विजयी भवेत् ॥ ६४ ॥
वनान्तरे च संचारात् विलासरससंयुतम् ।
आत्मानं ये न पश्यन्ति ते मल्लास्तु बहिष्कृताः ॥ ६५ ॥
मल्लविद्या विनश्यन्ति दुर्मदेन यथा श्रियः ।
तस्मान्मल्लैः प्रमादेन च(न) स्थातव्यं कदाचन ॥ ६६ ॥
कृष्णोक्तादानरता ये मल्ला भुवनभूषणाः ।
क्रोधलोभभयालस्यरहिता मानवाः शुभाः ॥ ६७ ॥
नित्यं बह्वादयो लोका मल्लैर्मधुरया गिरा ।
तदा सौभाग्यवान् सेव्यो जगतोऽपि प्रियो भवेत् ॥ ६८ ॥
प्रियमेव विधातव्यं रिपौ मित्रं(त्रे) च सर्वदा ।
अतिश्रमाद्विनश्यन्ति श्रमत्यागे तथा पुनः ॥ ६९ ॥