मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)
Malla Purana: Ancient Indian Wrestling & Martial Arts
ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा
पृष्ठ 131, कुल 141 में से
संदर्भ में पढ़ें८६ मल्लपुराणे
गुरोरभाषणं ये वै कुर्वन्ते वैऽधमास्ततः ।
भेदं कृत्वा च युध्येत उपायैर्विविधैरपि ॥ ४६ ॥
निन्दां यः कुरुते नित्यं विघ्नं तस्य प्रजायते ।
अन्योपि मल्लविद्यायां यः करिष्यत्परं दरम् ॥ ४७ ॥
प्रसहस्तेन पापेन स नरो भयरो(दो) भवेत् ।
मया ग्रामोद्य प्रक्षन्ति मल्लविप्रेभ्य एव च ॥ ४८ ॥
पञ्चोत्तरं पञ्चत्तरं पञ्चशतं सर्वेभ्यो धर्मनिमित्तानि ।
दत्त्वा द्वादश गोत्राणि स्थिरीकृतानि सदा मया ॥ ४९ ॥
प्रथमं गर्गगोत्रं स्याद्वितीयं पिप्पलायनम् ।
१ ॐ ह्रीं निम्बजायै जयद्धायै नमः ।
तृतीयं भार्गवं विद्यात्तद्वौपेतं चतुर्थकम् ॥ ५० ॥
पञ्चमं गौतमं चैव षष्ठं चैव तु तैत्तिरम् ।
सप्तमं चैव वासिष्ठं शाण्डिल्यं चाष्टमं स्मृतम् ॥ ५१ ॥
घृताशि नवमं प्रोक्तं छायाशि दशमं स्मृतम् ।
भारद्वाजमेकादशं काश्यपं द्वादशं स्मृतम् ॥ ५२ ॥
उदीचिज्ञातिसंभूतं गोत्रं काश्यपमेव च ।
बाडोतं गर्गगोत्रं स्याद्धूपा च पिपलायनम् ॥ ५३ ॥
आपस्तम्भं च केलातं भार्गवं वैहलं तथा ।
ठाकरियं गौतमं च वदेरा तैत्तिरं तथा ॥ ५४ ॥
ब्राह्मणीया वासिष्ठं च मण्डेणा माडल्यं तथा ।
नवरङ्गा शाण्डिल्यं च चमाला घृताशि तथा ॥ ५५ ॥
स्थापिता पुरा देवेन मल्लानां गुरवः स्मृताः ।
यावन्मही सागराश्च यावच्चन्द्रदिवाकरौ ॥ ५६ ॥
तावत्तिष्ठन्ति मेदिन्यां पालनीया महात्मभिः ।
मया च दत्तवान्मौनान्मायादेवालयाः स्मृतः ॥ ५७ ॥