मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)
Malla Purana: Ancient Indian Wrestling & Martial Arts
ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा
पृष्ठ 130, कुल 141 में से
संदर्भ में पढ़ेंअष्टादशोऽध्यायः । ८५
चतुर्भुजायुधैः पूर्णा सिंहवाहनसंयुता ।
सोमेश्वर इमां पश्य निम्बवृक्षसमाश्रिताम् ॥ ३५ ॥
इयं मदीया शक्तिर्निम्बजा इति नामतः ।
अस्याः स्थानं प्रकर्तव्यं रम्यं विचित्रधातुभिः ॥ ३६ ॥
मनोहरं च लोकानां प्रेक्षणीयं महाद्भुतम् ।
स्थापनीया प्रयत्नेन स्थानेस्मिन् निम्बजा सदा ॥ ३७ ॥
जयदा सर्वमल्लैस्तु पूजनीया त्वहर्निशम् ।
श्रमकाले च संग्रामे रङ्गभूमौ विशेषतः ॥ ३८ ॥
आषाढकेऽन्यसंयोगे शक्तिं तु निम्बजां स्मरन् ।
जयं लभेन्न संदेहो यथाशक्ति यथामति ॥ ३९ ॥
जयः प्रसादं दशांशेन शक्तिः सेव्या प्रयत्नतः ।
वलिपूजोपहारैश्च होमैर्धूपैः सपुष्पकैः ॥ ४० ॥
सेव्या च प्रत्यहं तस्याः कार्यं मल्लैश्च दर्शनम् ।
नमस्कारस्तुतिश्चैव कार्या वादित्रसंयुता ॥ ४१ ॥
शक्तिरेषा सदा लोके जयदा बलदा भवेत् ।
रक्षणं सर्वविघ्नेभ्यः करिष्यति न संशयः ॥ ४२ ॥
सोमेश्वर उवाच—
लोके भवन्त्यधमाश्च मल्लान् ब्रूहि ममाग्रतः ।
श्रीकृष्ण उवाच—
निम्बजां च गुरुं चैव मल्लान् वा उत्तमांस्तथा ॥ ४३ ॥
ते भवन्त्ये(न्यु)तमा मल्ला नात्र कार्या विचारणा ।
न भजन्ति द्विषन्ति च न कुर्वन्ति द्विजास्तथा ॥ ४४ ॥
गुरवश्चैव ते मल्ला गुणदोषविवर्जिताः ।
निम्बजां नैव मन्यन्ते मल्लानिन्दन्ति तत्पथः ॥ ४५ ॥