सामग्री पर जाएँ
सर्वकोश
मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

Malla Purana: Ancient Indian Wrestling & Martial Arts

ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा

DevanagariSanskritpublished141 पृष्ठ

पृष्ठ 129, कुल 141 में से

संदर्भ में पढ़ें
पृष्ठ 129

८४ मल्लपुराणे
मल्लानामपि सर्वेषां विप्राणां चैव शृण्वताम् ।
ततः कृष्णेन संतोषादुक्तं मधुरया गिरा ॥ २४ ॥
सोमेश्वर त्वया भ्राता पातितो ह्यचिरादयम् ।
असाध्या श्रवणेनापि मल्लविद्या वशीकृता ॥ २५ ॥
फलमस्मात्त्वयावाप्तं समग्रं च विनिश्चितम् ।
ततश्चाहं प्रसन्नोस्मि वाञ्छितं च वरं शृणु ॥ २६ ॥
सोमेश्वर उवाच—
यदि संतुष्टोसि भगवन् वरं देहि यथेप्सितम् ।
श्रमं च भवता सार्द्धं कर्तुमिच्छामि सांप्रतम् ॥ २७ ॥
भवतः शरीरसंस्पर्शात्पवित्रोऽहं जगत्त्रये ।
एवमस्त्विति कृष्णेन समुद्दिष्टं सुदर्शनम् ॥ २८ ॥
ततः सोमेश्वरः कृष्णो दत्त्वा स्फालनकं ततः ।
प्रभावयुक्तं विज्ञाय आत्मानं समदर्शयत् ॥ २९ ॥
बलं चाप्रमितं दत्त्वा शरीरस्य प्रभावतः ।
प्रकारं मल्लविद्याया दत्त्वा पुनर्जगाद ह ॥ ३० ॥
श्रीकृष्ण उवाच—
त्वया यद्यत् कृतं किंचित्सोमेश्वर तदुत्तमम् ।
सोमेश्वर भवेत्सत्यं समस्तैर्ब्राह्मणैः सह ॥ ३१ ॥
चातुर्वर्ण्यस्य मध्ये तु त्वं प्रधानो भविष्यति(सि) ।
सोमेश्वर उवाच—
स्वामिन् त्वयाऽहं स्वर्गमस्मान् कः पालयिष्यति ॥ ३२ ॥
श्रीकृष्ण उवाच—
कायेषु बलदा नित्यं मल्लानां च जयप्रदा ।
इत्युक्तो भगवान् कृष्णो योगमायामनुस्मरन् ॥ ३३ ॥
ऊर्ध्वदर्शक्षणा देवी निम्बवृक्षे स्थिता दधौ ।
तेजोमण्डलमध्यस्था भ्राजमानाऽमितप्रभा ॥ ३४ ॥