सामग्री पर जाएँ
सर्वकोश
मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

Malla Purana: Ancient Indian Wrestling & Martial Arts

ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा

DevanagariSanskritpublished141 पृष्ठ

पृष्ठ 127, कुल 141 में से

संदर्भ में पढ़ें
पृष्ठ 127

अष्टादशोऽध्यायः ।
कथितान्यङ्गस्थानानि षडेवाङ्गे भवन्ति हि ।
मुखग्रीवाकरो( र )युग्मं चरणाग्रे तथैव च ॥ १ ॥
षट्प्रकाराणि कथ्यन्ते विज्ञानानि यथा शृणु ।
विज्ञानैश्च प्रवर्धन्ते पौरुषं विभवो गुणाः ॥ २ ॥
क्वचिदोजयविज्ञानं क्वचिद् वह्निणा भवेत् ।
क्वचित्प्राणेन विज्ञानं ओजो वह्णिजा भवेत् ॥ ३ ॥
क्वचिदोजसा प्राणेन विज्ञानं जायते क्वचित् ।
षट्प्रकारेण विज्ञानं रक्षणीयं प्रयत्नतः ॥ ४ ॥
प्रवर्द्धते येन यशो लभ्यन्ते विपुलाः श्रियः ।
क्वचिदोजस्य विज्ञानं रक्षणीयं प्रयत्नतः ॥ ५ ॥
प्रवर्धते येन यशो जयो भवति सर्वदा ।
क्वचिद्वह्णिना ज्ञानं क्वचित्प्राणेन संततम् ॥ ६ ॥
ओजो वह्निणा वापि ओजो प्राणेन वा क्वचित् ।
ओजो प्राणवह्निणा क्वचिज्ज्ञानं समादिशेत् ॥ ७ ॥
सोमेश्वर यथा शक्त्या कुरु युद्धमनेकधा ।
सार्द्धं देवेन हरिणा मल्लाः पश्यन्ति पार्श्वगाः ॥ ८ ॥
ततो युद्धं समारब्धं ताभ्यां तु विधिपूर्वकम् ।
जटाबन्धनमादौ च ततो चातनकग्रहम् ॥ ९ ॥
कच्छाबन्धपरस्वं च ततो रञ्जनमस्त्रियाम् ॥ १० ॥
समं चास्फोटनं तत्र ततो बलप्रवर्धनम् ।
समोन्नतं च लीनं च चलस्थानं चतुर्विधम् ॥ ११ ॥