मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)
Malla Purana: Ancient Indian Wrestling & Martial Arts
ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा
पृष्ठ 126, कुल 141 में से
संदर्भ में पढ़ेंसप्तदशोऽध्यायः ।
तथैव चलफणाच त्रिमुखला फणापि च ।
संधिफणा ग्रन्थिना च नवधा कथिता फणा ॥ ४७ ॥
कृष्णेन च ततो मल्लैर्बोद्धव्या विजयार्थिभिः ।
लोभी पापी च विज्ञेयो तथा च जलपाच्यपि ॥ ४८ ॥
करचरणतृतीयो मल्लानां च जयप्रदः ।
दृग्भङ्गो मध्यमभङ्गश्च पृष्ठभङ्गस्तृतीयकः ॥ ४९ ॥
बहिर्भङ्गश्चतुर्थोपि चतुर्धा भङ्गलक्षणम् ।
उरोदेशमुष्टिरियं नाम्नाथ सुभगा पुरा ॥ ५० ॥
पृष्टिधनुरापि द्वन्द्वैव कथिता च मयाऽधुना ।
गलकर्तरी प्रथमा द्वितीया हस्तकर्तरी ॥ ५१ ॥
रागकर्तरी तृतीया चतुर्थी बाहिःकर्तरी ।
करयोः पीडनं प्रोक्तं प्रकोष्ठपीडनं तथा ॥ ५२ ॥
ग्रीवायाः पीडनं चैव विज्ञानं भुजमुत्तमम् ।
उरोभारबहिर्भारमङ्गभारस्तथा परः ॥ ५३ ॥
गजार्गलमिति ख्यातो वेगः करतलस्य च ।
उरोगण्डगुला चैव ऊर्ध्वगण्डगुला परः ॥ ५४ ॥
चाणूरकः परमोर्थारिष्टकक्ष्थ परः स्मृतः ।
मुष्टिकारख्यो सुरस्तेहगगनानापरस्तथा ॥ ५५ ॥
नदीबिन्दुपरो गुप्तः कथितः पुंगवोपि च ।
कृष्णश्च सर्वमल्लाश्च पश्यन्ति विधिपूर्वकम् ।
विज्ञानानि दर्शनानि चतुःषष्ट्यधिकं शतम् ॥ ५६ ॥
इति श्रीमल्लपुराणे विज्ञानप्रकरणं नाम चतुर्दशोऽध्यायः (सप्तदशोऽध्यायः) ।
११