सामग्री पर जाएँ
सर्वकोश
मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

Malla Purana: Ancient Indian Wrestling & Martial Arts

ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा

DevanagariSanskritpublished141 पृष्ठ

पृष्ठ 125, कुल 141 में से

संदर्भ में पढ़ें
पृष्ठ 125

८० मल्लपुराणे

उत्तानकरयोश्चैव प्रथमं परिकीर्तितम् ।
शिछड एते कृष्णेन त्रयोदश प्रकीर्तिताः ॥ ३५ ॥
तथा बाहुचलनं च प्रज्ञानं परमं मतम् ।
अद्धाङ्गबाहुचलनं कृष्णेन विनिवेशितः ॥ ३६ ॥
जङ्घाबाहुचलनं च परं विज्ञानमुत्तमम् ।
उत्तरबाहुचलनं तथैव परमं मतम् ॥ ३७ ॥
उत्तरेङ्गे करे चैव बाहुचलनमुत्तमम् ।
उत्तरबाहुचलनं कृष्णेन रचितं पुरा ॥ ३८ ॥
उत्तानचालनं चैव विज्ञानं परमं मतम् ।
करपादढोकरेण बाहोश्चालनमिष्यते ॥ ३९ ॥
एवं बुद्धैर्द्वादशधा संख्यायाः परिकीर्तितम् ।
विज्ञानं बाहुचलनं मल्लानां हितकाम्यया ॥ ४० ॥
शिरसो मुहडाश्चैव हस्तयोर्मुहडस्तथा ।
तथैवोदरमुहडं बहिर्मुहडमुच्यते ॥ ४१ ॥
उदरलम्मुहडं द्विविधं मुहडं तथा ।
शुद्धगण्डं तथैवादौ स्थितिविज्ञानमुत्तमम् ॥ ४२ ॥
क्षाले चैव हि विज्ञेयं गण्डरादित्यमेव च ।
उदरं गण्डशब्दं च तृतीयमिह लक्ष्यते ॥ ४३ ॥
कूष्माण्डं पुनरादित्यं चतुर्थमपरं मतम् ।
पृष्ठगण्डरा(मया)दित्यं पञ्चमं परिकीर्तितम् ॥ ४४ ॥
विज्ञानमुत्तमं चैव कृष्णेन रचितं पुरा ।
प्रथमं चलपादं च बाहोश्चलनमिष्यते ॥ ४५ ॥
करतलयोश्चालनं च कृष्णेन कथितं शुभम् ।
कक्षाफणापि विदिता विज्ञानं परमार्हतः ॥ ४६ ॥

११