मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 24, कुल 111 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः । २१
विवादे दर्शयिष्यामि क्रियासंक्रान्तिमात्मनः ।
यदि मां नानुजानासि परित्यक्तोऽस्म्यहं त्वया ॥ १९ ॥
(आसनादुत्थातुमिच्छति ।)
देवी—(स्वगतम् ।) का गई ! (प्रकाशम् ।) पहवदि आअरिओ
सिस्सजणस्स ।
गणदासः—चिरमपदे शङ्कितोऽस्मि । (राजानमवलोक्य ।) अनु-
ज्ञातं देव्या । तदाज्ञापयतु देवः कस्मिन्नभिनयवस्तुन्युपदेशं दर्श-
यिष्यामि ।
राजा—यदादिशति भगवती ।
परिव्राजिका—किमपि देव्या मनसि वर्तते । ततः शङ्कितासि ।
देवी—भेण वीसद्धं । पहवदि पहू अत्तणो परिअणस्स ।
राजा—मम चेति ब्रूहि ।
देवी—भंअवदि, भणेदाणीम् ।
परिव्राजिका—देव, शर्मिष्ठायाः कृतिं चतुष्पदोत्थं छलिकं
दुष्प्रयोज्यमुदाहरन्ति । तत्रैकार्थसंश्रयमुभयोः प्रयोगं पश्यामि ।
तावता ज्ञायत एवात्रभवतोरुपदेशान्तरम् ।
आचार्यौ—यदाज्ञापयति भगवती ।
विदूषकः—तेणं हि दुवेवि वग्गा पेक्खाघरे संगीदरअणं करिअ
तत्तभवदो दूर्द पेसअह । अहवा मुदङ्गसद्दो एब णो उत्थावइस्यदि ।
१. का गतिः । प्रभवत्याचार्यः शिष्यजनस्य ।
२. भण विस्रब्धम् । प्रभवति प्रभुरात्मनः परिजनस्य ।
३. भगवति, भणेदानीम् ।
४. तेन हि द्वावपि वर्गौ प्रेक्षागृहे संगीतरचनां कृत्वा तत्रभवतो दूतं
प्रेषयतम् । अथवा मृदङ्गशब्द एव न उत्थापयिष्यति ।
संधेयम् ॥ विवाद इत्यादि । स्पष्टोऽर्थः ॥ का गतिः प्रभवत्याचार्यः शिष्यजनस्य ॥
भण विस्रब्धम् । प्रभवति प्रभुश्चात्मनः परिजनस्य ॥ भगवति, भणेदानीम् ॥ तेन हि
द्वावपि वर्गौ प्रेक्षागृहे संगीतरचनां कृत्वा तत्रभवतो दूतं प्रेषयतम्। अथवा मृदङ्गशब्द