मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 274, कुल 377 में से
संदर्भ में पढ़ें३६ जगद्धरकृता [ अङ्कः १
पृ० ५०
३८ ३ तां च किल राजा० । ०नाय प्रार्थयते इ० ।
४ ०तया चाहमनुरुध्यमा० । ८ ०पौरजनस्य० ।
३९ २ ०कामाभिश्वङ्ग० । ४ ०भागधेयाः कुमार्योऽन्यत्रास० ।
भाग्यार्थयोरपि' इति विश्वः । सुश्लिष्टगुणतया सुलभसूत्रत्वेन । संनिवेशो रच-
नाभेदः । कुतूहलिनी पुष्पदाम्रि कौतुकवती । भर्तृदारिकेत्यनेन कन्यालार्सनौ-
त्सुक्यमुक्तम् । यद्वा भरतेन कन्याया विश्रम्भपात्रत्वस्वीकारादिह कन्यात्वेन
तत्सूचनम् । अभिनवो लोकोत्तरो विचित्रो बहुप्रकारः । कुसुमेषु पुष्पेषु व्या-
पारो रचनाप्रबन्धः । एतेन माल्यग्रथनकुशलाद्भुतकौशलकुतूहलिनी सेत्युक्तम् ।
वैदग्ध्यस्य ग्रथनचातुर्यस्य । कृतार्थता कृतप्रयोजनता । विदग्धप्रेयसीयं प्रशंस-
येति भावः । फलतु सफलास्तु । विदग्धजनाय दानात् । सरस एवाम्लान एव
सक्संनिवेशः । महार्घतां बहुमूल्यताम् पक्षे वो युष्माकं संनिवेशः संयोगः ।
परस्परानुरूपादिना रमणीयः क्रीडार्होऽर्हणीय एव । इह व इति युष्मदो 'गुरा-
वेकेषाम्' इति गौरवे बहुवचनम् । कुतूहलिनी दूतसमाजे साकाङ्क्षा । अभिनवोऽ-
भूतपूर्वः । तदेकासक्तत्वात् । विचित्रः साधुः । विविधविकारकारित्वेनाश्चर्यज-
नको वा कुसुमेषोः कामस्य व्यापारो मोहनम् । वैदग्ध्यस्य सकलकलाभिज्ञतायाः
सार्थकत्वम् । विदग्धप्रीतिजनकत्वात् । निर्माणरमणीयता घटनसौन्दर्यम् । फल-
त्वमनुरूपजनसंसर्गात् ॥ नो चेदिदं सर्वं व्यर्थमिति भावः । सरसः शृङ्गारोऽनु-
रागो वा । कण्ठावलम्बनमालिङ्गनम् । महार्घता दुर्लभत्वम् । तदिह श्लिष्टपदेन
नायकव्युत्पत्तिमभिप्रायं च ज्ञात्वा दूतीव्यापारः प्रसरतीति ध्वनितम् ॥ मक-
रन्दः । वैदग्ध्यं श्लिष्टपदप्रयोगादिति भावः ॥ माधवः । अनुयुक्त्या पृष्ट्या ।
प्रसूतिरपत्यम् । प्रसादभूमिर्विश्वासस्थानं तस्याः । तव च प्रसादभूमिरनुकम्पा-
पात्रं मालादानात् ॥ कलहंसः । अत्र विलसितं विजृम्भितम् । अनयोरन्यो-
न्यानुरागादिति भावः ॥ मकरन्दः । बहुमानस्य गौरवस्यापर्याप्तिरनवधिक-
त्वम् ॥ अनभियोज्यत्वरक्षणत्वादियोगादिति भावः ॥ माधवः । अनुरुध्यमानो
मुहुर्याच्यमानः । असौ लवङ्गिका । अभिनिविष्टयातिशयन्निविष्टितया । विहस्त-
तया व्याकुलतया ॥ महानयं प्रसाद इति । यतो न वस्तुनि प्रेम किंतु
गुणेष्विति भावः ॥ मकरन्दः । सुश्लिष्टं निश्चितम् । दृष्टपूर्वः पूर्वं दृष्टः । ता-
दृशो महाकुलजाः । चक्षूरागानुरागायोरेकविषयत्वं भरतमतम् । अन्यदप्यनुरा-
गचिह्नमाह - अन्योन्येत्यादि । त्वयि तस्याः प्रागनुरागचिह्नं व्यक्तमेवास्ति ।
कथम् । सखीनामन्त्योन्यसंगतदृशां कसापि कोऽपीति निवेदनमेकम् । कथम-
न्यथा सखीजनस्त्वां वीक्ष्य कटाक्षयति तां कथं वा सखीजनो वदत्येवमिति भावः ।
अपरं लवङ्गिकाया व्युत्पन्नं वचनम् । कथमम्यथा कुतूहलिनीत्यादि वदतीममिति
भावः । 'संगते दारिते भिन्नः' इति विश्वः ॥ ३६ ॥ कलहंसः । अत्र येन ज-
नेनापहृतम् । यन्निबन्धनेोऽस्य कामविकार इति भावः ॥ मकरन्दः । मालत्या