मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 273, कुल 377 में से
संदर्भ में पढ़ेंअङ्कः १ ] मालतीमाधवटीका । २५
पृ० पं०
३५ १ अहो अभिषङ्गः । ५ ०प्येव यस्मात् ।
३६ २ ०लम्ब्य बालबकुलकुसु० । ४ ०एष वः सुमनसां
संनि० । ५ ०द्वारिका वर्तते । ०रण अमी० ।
७ ०णीयता विधातुः स० ।
३७ २ तथा च म० । ६ ०सिदं खु म० । ता जिदं० ।
नीयः परिच्छेदमेयत्तामतीतोऽतिक्रान्तो निर्वेतुमशक्यश्च । यः पुनरसिजन्म-
न्यनुभवपथं न गतवान्त एव परिच्छेत्तुं निर्वेतुं चाशक्य इति भावः । सांप्रतं
तदनुभवेन तद्वयं किमिति न क्रियत इत्याशङ्क्याह—विवेकप्रध्वंसात्प्रशस्तज्ञाना-
भावादुपचितमहामोहेन गहनः संकटः । तदानीं विवेकाभाव इति भावः । अ-
नेन जडता दर्शिता ॥ ३३ ॥ परिच्छेदव्यक्तिरित्यादि । संनिकृष्टेऽपि
घटादौ परिच्छेदव्यक्तिर्निर्णयाभिव्यक्तिर्न भवति । घटादिकमपि निर्णोतुं न शक्नो-
मीत्यर्थः । अनेन बाह्येन्द्रियाणां विषयव्यावृत्तिरुक्ता । अभ्यस्तेऽपि वारंवारमनु-
भूतेऽपि स्मरणमतथाभावेन खण्डस्फुटिततया विरसं वैरस्यवत् । एतेन मन-
सोऽपटुत्वमुक्तम् । इयमनुस्मृत्यवस्था । विषयवृत्त्या संतापः शीतलसेवनादपि
नापैतीत्याह—हिमसरसि शीतलसरोवरे चन्द्रमस्यमृतकरकिरणे वा मनःसंताप-
हानिः । चन्द्रमःपदं लक्षणया स्वकिरणमाह । इयमुद्वेगावस्था । यदाह—'आसने
शयने वापि न तिष्ठति न तुष्यति । औत्सुक्यं च भवेन्नित्यमुद्वेगस्थान एव च ॥'
निष्ठाशून्यं धैर्यहीनं मनो भ्रमति चपलत्वात् । किमपि मनोरथमालिखत्यालि-
खति । अनेनोन्मादावस्थोक्ता ॥ ३४ ॥ कलहंसः । अपहृतो वशीकृतः । अपिः
संभावनायाम् । नाम प्रकाशे ॥ स्वागतमिति । 'यत्तु श्राव्यं न सर्वस्य स्वगतं
तदिहोच्यते ।' इति भरतः । अभिषङ्ग आसक्तिरूपो मनःपराभवः । 'आक्रोश-
शापाभिभवेष्वभिष्वङ्गपदं विदुः' इति शाश्वतः ॥ मा मुमुहदिति । अनन्य-
जन्मा कामः खल्वर्थे मा मुमुहत् । न चित्तविप्लवसहितमजीजनत् । एवं च
ते मतिर्मलीमसविकारेण कामजेन घना निबिडा मा भूदित्यादिनिषेधवाक्यमि-
हानर्थकमेव । ननुपदमन्वये । यतः कामो जृम्भितो वलयितो गुणो ज्या यस्य
सः । जृम्भितगुण उपचितव्यापारो वा कामः । नवयौवनं च जृम्भितगुणम् ।
प्रकाशितरूपादिकमस्तीत्यर्थः । अतस्तत्पराधीनोऽयं न निषेधुं शक्य इत्यर्थः
॥ ३५ ॥ प्रकाशमिति । 'यत्तु सर्वजनश्राव्यं प्रकाशं तदिहेष्यते' इति
भरतः । अन्वयो वंशः ॥ माधवः । करेणुका हस्तिनी । अन्यतमान्या ।
स्वार्थे तमप् । यद्वा एकपर्यायोऽयमव्युत्पन्न एवान्यतमशब्दः । वारयोषित्दूतिका ।
तस्या इहकलादुपादानमिह । विलम्ब्यैकाकिनी भूत्वा । नेदीयसी निकटस्था च
भूत्वा । उभयत्र पुष्पत्रोटनक्रमेणेति योज्यम् । कुसुमापीडव्याजेन पुष्पद्दामच्छ-
लेन । अभ्यर्थनाभङ्गभयेन च्छलेन मामाहेति भावः । अथ च कुसुमेनापीडयति
कुसुमापीडः कामः । तद्व्याजेन मां प्रणम्येत्यर्थः । महाभाग महाभाग्य । 'भागो