मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 275, कुल 377 में से
संदर्भ में पढ़ेंअङ्कः १ ] मालतीमाधवटीका । ३७
पृ० प०
४० ३ ॰केनैनन्माधवस्य प्रतिच्छन्दकमभि० । ७ ॰ते वितर्कः
८ ॰कलहंसक, कु० । १३ ॰विणोदो त्ति ।
१४ ॰स्य माधव, सर्वथा समा० ।
४१ ४ ॰द्रष्टव्यस्वरूपा० । ॰लिख्यतां मालती । ५ ॰स्याय
तदुपनेय चित्रफलकं चित्रवर्तिकाञ्च । (मकरन्द उपनयति ।)
(लि०) । ६ ॰दृशोरुद्गमं वा० १० तथापि व्यवसितो० ।
११ ॰तोऽभिष्वङ्गः ।
लिखितमित्यर्थः ॥ कलहंसः । अथ किं स्वीकारे ॥ माधवः । वितर्क ऊहः ॥
मकरन्दः । अधिगमः प्राप्तिः ॥ कलहंसः । उत्कण्ठाविनोद इति ।
माधवानुरक्ता मालती तमनुप्राप्तवती चित्रलिखितालोकनेनापि रमत इति
भावः ॥ येत्यादि । हे सखे, तत्संगमं प्रति नैव संशयोऽस्ति । भवतो नयन-
योर्या कौमुदी ज्योत्स्ना आनन्दकारित्वात् । तस्या मनोरथबन्धबन्धुरमिलाषनि-
बन्धाय प्रियः शोभनजन्मा भवानपि । ननु परस्परानुरागेऽपि विधिकामवै-
मुख्यान्न सिद्धिरत आह—यस्मिन्संगमे विधिमदनौ कृतप्रयत्नौ । चक्षुःप्रीत्या
कामः, एतद्देशानयनाद्विधिः कृताभियोग इत्यर्थः । अभियोगाच्च कन्यालाभः ।
यदाह—'अभियोगाद्धि कन्याया लाभो निश्चित एव च' ॥ ३७ ॥ चित्रेण मा-
धवचित्तानुरागमुद्दीपयति—द्रष्टव्येति । माधवः । वयस्यायेत्यत्र 'रुच्यर्थानां
प्रीयमाणः' इति संप्रदानता । अधुना मनःसङ्गे हर्षात्सात्त्विकभावमाह—वारं-
वारमित्यादि । अयं मम पाणिर्लेखाविधिषु चित्रनिर्माणेषु नितरामसमर्थ वर्तत
एव न तु लिखति । अत्र किं करोमि । यथा तथा लिखामीत्यर्थः । 'न तराम्'
इति पाठे नैव वर्तत इत्यर्थः । यतो बाष्पपूरस्तदनुध्यानादानन्दाश्रुप्रवाहो वारं-
वारं दृशोरुद्गमं प्रचारं तिरयति च्छादयति । तस्याः संकल्पेन चिन्तनेनोपहितो ज-
डिमा सर्वकार्याप्रतिपत्तिर्यस्य तद्गात्रं शरीरं स्तम्भं निश्चलत्वमभ्येति । 'हर्षरोगभय-
विस्मयविषादमददोषसंभवः स्तम्भः' इति भरतः । कीदृशः सद्यो लिखनोपक्रम-
काल एव स्विद्यन्नार्द्रीभवन् । अविरतोत्कम्पेनाधिकचलनेन लोलाङ्गुली यत्र सः ।
अङ्गुल्या लिखनहेतुतया तच्चापल्यादलिखनं सूचितम् । तदिहाश्रुस्तम्भस्वेदकम्पा
उक्ताः । रोमाञ्चादिकं च नोक्तम् । तेषां लिखनाप्रतिकूलत्वात् । सर्वमिदं सा-
त्त्विकं हर्षात् । यदाह—'क्रोधभयहर्षलज्जादुःखभ्रमरोगतापपीडाभ्यः । व्याया-
मसाध्वसादेः स्वेदः स्यात्पीडनेनापि ॥ शीतभयहर्षरोथस्पर्शजरारोगजः कम्पः ॥'
इति ॥ ३८ ॥ अधुना मालती चित्रं द्रक्ष्यतीति सानुरागोपालम्भं श्लोकं लि-
खति—जगतीत्यादि । ते ते नवेन्दुकलादयो भावाः पदार्था जयिनो मदज-
नने सर्वत्राप्रतिहताः स्वभावतो मनोज्ञा अन्ये सन्त्येव ये मनो मदयन्ति । मम
पुनर्न मदहेतवः प्रत्युत दाहहेतव एवेति भावः । अत्र जयिन इत्यनेन कालविशेषे