मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 220, कुल 377 में से
संदर्भ में पढ़ें२१६ मालतीमाधवे
भवत्वेवं तावत् । (उच्चैः।) अयमहं भोः (प्रणिपत्य ।) भूधरारण्यवा-
सिनः सत्त्वान्विज्ञापयामि । मुहूर्तमवधानदानेन मामनुगृह्णन्तु भवन्तः।
भवद्भिः सर्वाङ्गप्रकृतिरमणीया कुलवधू-
रिहस्थैर्दृष्टा वा विदितमथवास्याः किमभवत् ।
वयोऽवस्थां तस्याः शृणुत सुहृदो यत्र मदनः
प्रगल्भव्यापारश्चरति हृदि मुग्धश्च वपुषि ॥ २९ ॥
कष्टं भोः ।
केकाभिर्नीलकण्ठस्तिरयति वचनं ताण्डवादुच्छिखण्डः
कान्तामन्तःप्रमोदादभिसरति मदभ्रान्ततारश्चकोरः ।
गोलाङ्गूलः कपोलं छुरयति रजसा कौसुमेन प्रियायाः
कं याचे यत्र तत्र ध्रुवमनवसरस्त एवार्थिभावः ॥ ३० ॥
अयं च
दन्तच्छदारुणिमराजितदन्तमाल-
मुन्नम्य चुम्बति वलीवदनः प्रियायाः ।
वर्तत इत्यर्थः । उच्चैरिति । वदतीति शेषः । अयमहं प्रथमं प्रणम्य पर्वतं
वनचरान्सत्त्वान्सिंहादीन्प्राणिनो विज्ञापयामि । ते गत्वा मां मुहूर्तमनुगृह्णन्त्वव-
धानमात्रेण । न बहु किंचित्प्रार्थयामीत्यर्थः । भवद्भिरिति । इहस्थैरिह वने
स्थितिमद्भिः । कुलवधूः काचिद्दृष्टा । कुलवधूशब्देन वाराङ्गनाव्यावृत्तं साध्वी-
लिङ्गमसाधारणं सूचितम् । सर्वाङ्गप्रकृतिरमणीयेति । सर्वशरीरावयवेषु स्वभाव-
रमणीयत्वं न त्वलंकारादिकृतं रमणीयत्वमसाधारणम् । तल्लक्षणं कथितम् । अथ
न दृष्टा त्वियं तदा परं प्रामाण्येन विज्ञायते । किं तस्याः समभवदिति । कीदृशी
वयोवस्था तस्या इति ज्ञातुमिच्छास्ति चेत्तदा शृणुत । यस्यामवस्थायां हृदि
प्रौढव्यापारो मदनश्चरति वपुषि च रमणीयो मुग्ध इति तेन च प्रथमयौवनद-
शापि सूचिता । तल्लक्षणं भरते—'पीनोरुगण्डजघनमधुरं स्तनकर्कशं पतिमनो-
ज्ञम् । सुरतं प्रति सोत्साहं प्रथमं तथौवनं कामः ॥' इत्युक्तम् ॥ २९ ॥ कष्टं
भो इति प्रियाप्राप्त्युपायाभावेन नैराश्याद्दुःसहदुःखद्योतकम् । केकाभिरिति ।
कं याचे कं प्रार्थयामि । प्रियाकल्याणवार्तामिति शेषः । यथा मदीयोऽर्थिभावः
प्रार्थकत्वमेव निश्चितं सत्त्वानां मयूरादीनामनवसरेनानवकाशेन ग्रस्तो निरा-
कृतः । तथाहि नीलकण्ठस्तावत्ताण्डवादुद्धतनृत्तादुच्छिखण्ड उच्चैः कृतबर्हभारो
मदीयं वचनं तिरयति नाकणर्यति । चकोरश्च स्वकान्तामन्तःप्रमोदादभिसरति ।
न मम वचो बहुमन्यते । गोलाङ्गूलश्च कृष्णमुखो वानरविशेषः । परागेण
प्रियायाः कपोलं चर्चयति । अतोऽनवसरहेतव उक्ताः ॥ ३० ॥ दन्तेति ।
अयं वलीवदनो लोहितवक्त्रवानरः प्रियाया वक्त्रमुन्नमय्य चुम्बति । वदनविशेषण-