मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 219, कुल 377 में से
संदर्भ में पढ़ेंनवमोऽङ्कः । २१५
मकरन्दः—(सोद्वेगम् ।) कथमिदानीमुन्मादोपराग एव माधवे-
न्दुमास्कन्दति । हा तात, हा अम्ब, हा भगवति, परित्रायस्व माम् ।
पश्य माधवस्यावस्थाम् ।
माधवः—धिक्प्रमादः ।
नवेषु लोध्रप्रसवेषु कान्ति-
र्दृशः कुरङ्गेषु गतं गजेषु ।
लतासु नम्रत्वमिति प्रमथ्य
व्यक्तं विभक्ता विपिने प्रिया मे ॥ २७ ॥
हा प्रिये मालति ।
मकरन्दः—
सुहृदि गुणनिवासे प्रेयसि प्राणनाथे
कथमिव सहपांसुक्रीडनप्रौढसख्ये ।
प्रियजनविरहाधिव्याधिखेदं दधानं
हतहृदय विदीर्य त्वं द्विधा न प्रयासि ॥ २८ ॥
माधवः—सुलभानुकारः खलु जगति वेधसो निर्माणसंनिवेशः ।
द्वियोगे लङ्घितो न जीविष्यतीत्येवंविधैर्वचनैरित्यर्थः । स एवैक आशातन्तु-
स्तस्या आयताक्ष्याः प्राणरक्षां करोति यतः । तथोक्तमन्यत्रापि—'आशाबन्धः
कुसुमसदृशः प्रायशो ह्यङ्गनानाम्' इति ॥ २६ ॥ अये, मद्वचसि कृतावधानी
मद्बल्लभान्वेषणार्थं प्रचलित इति सहर्षत्वे हेतुः, तदन्यतः संभावयामीत्यन्यत्र
संचरणमीदृक्तदन्वेषणार्थम् ॥ मकरन्दः । उन्माद एवोपरागो राहुग्रहो माधव
एवेन्दुस्तमास्कन्दत्यभिभवति । हा तातेत्यादिपितृमातृनामोच्चारणं मकरन्दस्य
बाल्यात्परं प्रथमयौवनं द्योतयति । भगवतीति कामन्दकीनामग्रहणं विपन्निरा-
सार्थम् । माधवः । धिक्प्रमादोऽनवधानमस्मदादीनाम् । नवेष्विति । यतो
मे प्रिया क्रूरैरिमैर्लोध्रप्रसवादिभिरस्मिन्वने प्रमथ्य भङ्क्त्वा व्यक्तं स्फुटं वि-
भक्ता । तथा हि तत्कान्तिर्नूतनलोध्रप्रसवेषु, तथा हरिणेषु दृशः, तथा गजेषु
गमनम्, तथा लतासु नम्रत्वम् । दृश्यत इति सर्वत्राध्याहार्यम् । इतीति
प्रकारे ॥ २७ ॥ मकरन्दः—सुहृदीति । सुहृदि मित्रे गुणवति प्रीतिविषये
प्राणनाथे येन विना प्राणान्धर्तुं न शक्यते । तथा पांसुक्रीडनादारभ्य प्रौढ-
सख्ये । प्रियावियोगजन्यो य आधिर्मनोव्यथा सैव व्याधिस्तद्वेगं बिभ्राणे सति
हतहृदय, विशीर्य विशीर्णीभूय कथं द्विधा न भवसीति ॥ २८ ॥ माधवः ।
किंचित्प्रशान्तोन्मादवेगो लोध्रप्रसवादिषु प्रिया विभक्तेति सादृश्यनिबन्धना
भ्रान्तिरिति जानातीत्यर्थः । भवत्वित्येवं तावद्भवतु । जीवतु जीवन्तीतावत्क्वापि