मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 221, कुल 377 में से
संदर्भ में पढ़ेंनवमोऽङ्कः । २१७
काम्पिल्यकप्रसवपाटल गण्डपालि-
पाकारुणस्फुटितदाडिमकान्ति वक्त्रम् ॥ ३१ ॥
अयं च रोहिणानोकहस्कन्धविश्रान्तकण्ठः करी । कथमत्राप्य-
नवसरः ।
कण्डुकुञ्चलितेक्षणां सहचरीं दन्तस्य कोट्या लिख-
न्पर्यायव्यतिकीर्णकर्णपवनैराह्लादिभिर्वीजयन् ।
जग्धार्धैर्नवसह्रकीकिसलयैस्तस्याः स्थितिं कल्पय-
न्नन्यो वन्यमतङ्गजः परिचयप्रागल्भ्यमभ्यस्यति ॥ ३२ ॥
(अन्यतो विलोक्य ।) अयं तु
नान्तर्वर्धयति ध्वनत्सु जलदेष्वामन्द्रमुद्गर्जितं
नासन्नात्सरसः करोति कवलानावर्जितैः शैवलैः ।
दानज्यानिविषादमूकमधुपव्यासङ्गदीनाननो
नूनं प्राणसमावियोगविधुरः स्तम्बेरमस्ताम्यति ॥ ३३ ॥
अलमनेनाप्यायासितेन । (सानन्दम् ।) एष सानन्दसहचरीसमाक-
माह—अधरारुणिम्ना रक्तीकृता कमनीया दन्तपङ्क्तिर्यत्र वदने तत्तादृक् । तथा
रोचनिकाफलवत्पाटला कपोलपालिर्यत्र तत्तथा । पाकेनारुणं बीजोच्छ्वासेन
स्फुटितं यद्दाडिमं तस्यैव कान्तिर्यत्र वक्त्रे तत्तादृगित्यर्थः ॥ ३१ ॥ एष करी
तिष्ठतीति शेषः । रोहिणतरुमूले विश्रान्तग्रीवः । रोहिणो वटः । अनवसरो
मद्वचनस्य । कण्डुकुञ्चलितेति । अन्यः कोऽप्ययं वनगजः कान्तातुष्ट्यतिप-
रिचये प्रौढिमभ्यस्यति । किंकुर्वन्नित्यपेक्षायां कण्डूयनेन मुकुलितनयनां प्रियां
दन्तस्य कोट्या लिखन् । तथा पर्यायेण क्रमेण व्यतिकीर्णौ विक्षिप्तौ कर्णौ तत्पव-
नैराह्लादिभिः सुखजनकैरनुचरीं वीजयन् । तथा भुक्तार्धैः प्रत्यग्रसल्लकीपल्लवैः
सह्याः करिण्या वृत्तिं समर्पयन्निति ॥ ३२ ॥ नान्तरिति । अयमन्यः । नूनं
शङ्के । प्राणसमा प्रिया तद्वियोगेन विधुरः स्तम्बेरमो गजस्ताम्यति । यतो गर्जत्सु
मेघेषु तद्गर्जितं न वर्धयति नाविष्करोति । तथासन्नान्निकटात्सरोवरादावर्जितैः
शैवलैः कवलान्न करोति । तथा मदस्य या ज्यानिर्हानिस्तया मदपाताभावेन यो
विषादस्तेन निःशब्दा ये मधुपास्तेषां यो व्यासङ्गो विशेषासक्तिर्मदनस्यानास्वा-
दनाय निश्चलतया लयरूपस्तेन दीनमप्रहृष्टं वदनं यस्य तादृक् ॥ ३३ ॥ मत्स-
मानव्यसनोऽयम्, तदलमनैन संलापद्वारायासितेन । एषोऽपरो यूथनाथः संला-
पयोग्यो इत्याशयः । अस्य विशेषणम्—सानन्देति । सानन्दा या प्रियतमा तया
समाकर्ण्यमानो विशिष्टध्वनिर्यस्य । सरोवरं कर्मतापन्नमवगाह्य विहरतीत्यन्वयः ।