मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 100, कुल 377 में से
संदर्भ में पढ़ें९४ मालतीमाधवे
माधवः — कथं प्रमुग्ध एव । भगवति, परित्रायस्व माम् ।
कामन्दकी — वत्स, अतिकातरोऽसि । नन्वेहि, पश्यावस्तावत् ।
(इति निष्क्रान्ताः सर्वे ।)
इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे तृतीयोऽङ्कः ।
माधवः । कथं मकरन्दः प्रमुग्धो मोहं प्राप्त एव । भगवति, परित्रायस्वेति ।
मित्रव्यसनात्स्वयमपि प्रमुग्ध इव भवन्नेवं वदतीति ज्ञेयम् ॥ कामन्दकी ।
अतिकातरोऽसि । किमर्थमेतावत्तैव बिभेषि । नन्वित्यामन्त्रणम् । एहि मकरन्दं
पश्यावः । कथं वर्तत इति द्रक्ष्याव इत्यर्थः । इदं चाङ्कावतरणमुत्तराङ्कार्थस्य
पूर्वाङ्कान्ते निपातनात् । अङ्कद्वयस्य संगतार्थत्वात् । यथा — 'अङ्कावतारस्त्वङ्कान्ते
पातोऽङ्कस्याविभागतः । पूर्वाङ्कस्यावसानोक्तकथाविच्छेदपूर्वकम् । प्रवेशो भावि-
नोऽङ्कस्य सोऽङ्कावतर इष्यते ॥' इति ॥
भवभूतिवचोगुम्फरसास्वादनचातुरी ।
यदि विद्येत केषांचिद्विरलानां विपश्चिताम् ॥
इति श्रीमद्भारद्वाजकुलतिलकपर्वतनाथयायजूकनन्दनत्रिपुरारि-
सूरिविरचितायां मालतीमाधवभावप्रदीपिकायां
तृतीयाङ्कविवरणम् ॥