मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 99, कुल 377 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः । ९३
सर्वाः—हाँ मदअन्तिए ।
कामन्दकीमाधवौ—(सहर्षाकूतम् ।)
कथं तदवपातितादधिगतायुधः संभ्रमात् ।
कुतोऽपि मकरन्द एत्य सहसैव मध्ये स्थितः
इतराः—सौहु, महाभाअ, साहु ।
कामन्दकीमाधवौ—
दृढं च पशुना हतो व्यसुरसौ कृतश्चामुना ॥ १८ ॥
इतराः—अच्चाहिदं ।
कामन्दकी—(साकूतम् ।) कथं व्यालनखरप्रहारनिःसृतरक्तनि-
वहः क्षितितलविषक्तखड्गलतावष्टम्भनिश्चलः संभ्रान्तमदयन्तिकावल-
म्बितस्ताम्यति वत्सो मकरन्दः ।
इतराः—हँद्धि, गाढप्पहागदाए, किलम्मदि महाभाओ ।
१. मदयन्तिके ।
२. साधु महाभाग, साधु ।
३. अत्याहितम् ।
४. हा धिक्, गाढप्रहारतया क्लाम्यति महाभागः ।
तु पशोः क्रमगता । एकेनैव पदविन्यासेन लभ्यदेशे वर्तत इत्यर्थः । हाशब्द
इष्टजनविपत्तिद्योतकः । माधवस्य सहर्षत्वं व्याघ्रहननाद्दयिताजीवनाच्च । कामन्द-
क्याः साकूतत्वं मकरन्देन मदयन्तिकाप्राणरक्षणोपकारस्य तदुभयसंघटनोपयो-
गित्वादिति । कथं मकरन्दः सहसैव संभ्रमादेत्य तदवपातितात्तेन शार्दूलेनावपा-
तितान्निहतात् । कस्माच्चिदायुधहस्तात्पुरुषादित्यध्याहारः । अधिगतं प्राप्तमायुधं
येन सः । तन्निहतभटहस्तगतमाहृत्येत्यर्थः । मध्ये व्याघ्रमदयन्तिकयोरन्तरे
स्थितोऽतर्कितोपनतोऽसावस्या आलम्बनं जात इत्यर्थः ॥ इतराः । साधु ।
पौरुषं महत्कृतमिति शेषः । दृढमिति । दृढं यथा स्यात्तथा मकरन्दः पशुना
हतोऽभिहतः । अमुना मकरन्देन चासौ पशुर्व्यसुर्विगतप्राणः कृतश्च । प्रमथितश्च ।
'दंष्ट्रायुधः' इति कचित्पाठः । खण्डितः । व्याघ्र इत्यर्थः ॥ १८ ॥ इतराः । अत्या-
हितं महाभीतिः । उपस्थितमिति शेषः ॥ कामन्दकी । साकूतत्वे हेतुरुक्तः ।
व्यालः क्रूरजन्तुः । क्षितितले विषक्तआलम्बनयष्टिरिव संलग्नैककोटिर्या खड्गलता
तदवष्टम्भेन तदवलम्बनेन निश्चलो महाशूरतया बलवत्प्रहृतोऽपि स्वायुधमेवाव-
ष्टभ्य स्थितः, न तु पतित इत्यर्थः । संभ्रान्तयोद्विग्नया मदयन्तिकयावलम्बितो
दत्तहस्तावलम्बः ॥ इतराः । हा धिक् । गाढप्रहारतया क्लाम्यति महाभागः ॥