मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 101, कुल 377 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः ।
(ततः प्रविशतो मदयन्तिकामालतीभ्यामवलम्ब्यमानौ मुग्धौ मकरन्दमाधवौ
संभ्रान्ता कामन्दकी बुद्धरक्षिता लवङ्गिका च ।)
मदयन्तिका—पसीद भअवदि, परित्ताहि मदयन्तिआणि-
मित्तं संसइदजीविदं विपण्णणुकम्पिणं महाभाअं ।
इतराः—हद्धि । किं दाणिं एत्थ पेक्खिदव्वं अम्हेहिं ।
कामन्दकी—(उभौ कमण्डलूदकेन सिक्त्वा ।) ननु भवत्यः पटाञ्च-
लैर्वीजयध्वम् ।
(मालत्यादयस्तथा कुर्वन्ति ।)
मकरन्दः—(समाश्वस्यावलोक्य च ।) वयस्य, अतिकातरोऽसि ।
किमेतत् । ननु स्वस्थ एवासि ।
मदयन्तिका—अह्महे, दाणिं पडिबुद्धं मअरन्दपुण्णचन्देण ।
१. प्रसीद भगवति, परित्रायस्व मदयन्तिकानिमित्तं संशयितजीवितं वि-
पन्नानुकम्पिनं महाभागम् ।
२. हा धिक् । किमिदानीमत्र प्रेक्षितव्यमस्माभिः ।
३. अहो, इदानीं प्रतिबुद्धं मकरन्दपूर्णचन्द्रेण ।
नमामि मदनानन्दविधानविहितादराम् ।
शंभुवामाङ्गवामाक्षीं कामाक्षीं कामिताप्तये ॥
कविरिदानीमङ्कावतारेणैव पूर्वमङ्कान्ते निवेदितानामदृष्टपात्रप्रवेशकतद्वृत्तान्तस्य
सूचितत्वादङ्कमेवारभते—तत इत्यादि । माधवस्यापि मित्रव्यसनेन प्रमुग्ध-
त्वान्मालत्या संनिहितयावलम्बनं द्रष्टव्यम् ॥ मदयन्तिका । प्रसीद भगवति,
परित्रायस्व मदयन्तिकानिमित्तं संशयितजीवितं विपन्नानुकम्पिनं महाभागम् ।
मदयन्तिकानिमित्तमित्यर्थान्तरसंक्रमितवाच्यो ध्वनिः । लोकोत्तरपुरुषधौरेयजी-
वितापहारलक्षणापयशसोभाजनकत्वं द्योत्यते ॥ इतराः । हा धिक् । किमिदानी-
मत्र प्रेक्षितव्यमस्माभिः ॥ मकरन्दः । वयस्य, अतिकातरोऽसि । किमेतत् धीर-
स्यापि तेऽयुक्तमित्यर्थः । नन्वित्यामन्त्रणे । स्वस्थ एवाहमस्मि न प्रमुग्धः ॥ मद-
यन्तिका । अहो, प्रतिबुद्धमिदानीं मकरन्दपूर्णचन्द्रेण । पूर्णचन्द्रत्वारोपेण स्व-