महाराणा कुम्भा (हरविलास सारदा - मेवाड़ साम्राज्य के अद्वितीय विजेता, निर्माता व विद्वान्)
Maharana Kumbha: Sovereign, Soldier, Scholar by Har Bilas Sarda
हरविलास सारदा द्वारा
पृष्ठ 276, कुल 296 में से
संदर्भ में पढ़ेंAppendix.
आकुंभकर्णभुजविक्रमभीमसेन-
हिन्दूकराजगजनायक मुंच मुचं ।
इच्छुं रणेषु व्यलपन् परवीरधुर्या
यस्योरुवाणनिकराहुति भीतिचित्ताः ॥ १५२ ॥
सिंहासनासनासितातपवारणोरु-
माणिक्यमंडनचलच्चमराधिकोऽभूत् ।
आलोक्य मत्सरितमानसभूमिपाला-
नुर्व्यामशिक्षयदयं विनयं नरेन्द्रः ॥ १५३ ॥
अमूमुचच्चतुर्वेदविचारचतुराननः ।
गयां यवनकरातो ......स्तापसीमिव ॥ १५५ ॥
पात्रसादकृतमादराद्विप्रसादकृतभूयसीभुवः ।
कृष्णसादकृतमानसं नृपः शास्त्रसादकृतदृष्टिगौरवं ॥ १५६ ॥
आलोड्याखिलभारतीविलसितं संगीतराजं व्यधात्
औद्धत्यावधिरंजसा समतनोत्सूद्रप्रबन्धादिमुं ।
नानालंकृतिसंस्कृतां व्यरचयच्चंडीशतव्याकृतिं
वागीशो जगतीतलं कलयति श्रीकुंभदंभात्किल ॥ १५७ ॥
येनाकारि मुरारि संगतिर सप्रस्यंदिनी नन्दिनी
वृत्तिव्याकृति चातुरीभिरतुला श्रीगीतगोविंदके ।
श्रीकर्णाटकमेदपाटसुमहाराष्ट्रादिके योदय-
द्वाणीगुंफमयं चतुष्टयमयं सन्नाटकानां व्यधात् ॥ १५८ ॥
श्रीकुंभकर्णरचितामवलोक्य वाचं
माधुर्यधुर्यमपि गेयममुष्य मत्वा ।
......न्महीपतिरनंतगुणोत्युदारां
............गिरमाद्रियते न कश्चित् ॥ १५६ ॥
सकलकविनृपाली मौलिमाणिक्यरोचि-
र्मधुररणितवीणावाद्यवै शद्यचिह्नुः ।
मधुकरकुललीलाहारि......रसालो
जयति जयति कुंभो भूरिशौर्यांशुमाली ॥ १६० ॥
219