सामग्री पर जाएँ
सर्वकोश
महाराणा कुम्भा (हरविलास सारदा - मेवाड़ साम्राज्य के अद्वितीय विजेता, निर्माता व विद्वान्)

महाराणा कुम्भा (हरविलास सारदा - मेवाड़ साम्राज्य के अद्वितीय विजेता, निर्माता व विद्वान्)

Maharana Kumbha: Sovereign, Soldier, Scholar by Har Bilas Sarda

हरविलास सारदा द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 275, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 275

Maharana Kumbha.
हिमवान् हेमकूटश्च निषधोगंधमादनः ।
यस्य दक्षिणदिग्भागं श्रयतीव महानतः ॥ १४१ ॥
पूर्वतोवसति यस्य मंदरो मंदरा......सुन्दरः ।
इंदिराचरणपंकजामलन्यासपूतशिखरो महीधरः ॥ १४२ ॥
वृदावनं चैत्ररथं च नंदनं मनोज्ञभृगं ध्वनिंगंधमादनं ।
नृपाललीलाकृतवाटिकाभिपाङ्संत्यमून्यत्र समेत्य भूधरे ॥ १४३ ॥
अनल्पनेत्र......वैजयंतो महीमहेन्द्रः खलु कुंभकर्णः ।
समाश्रितः कुंभलमेरुदुर्गं सुराधिराजं हसतीव मन्ये ॥ १४४ ॥
अप्येकमीनध्वजमप्यनेकमीनध्वजं भाति नरेन्द्रदुर्गं ।
अनेकचंद्रोपमपि स्फुटैकचंद्रप्रभोद्भासितसौधभागं ॥ १४५ ॥
आनयद्द्विरदवक्रमादरादुद्धतप्रतिनृपालदुर्गतः ।
दुर्गवर्यशिखरे निजे तथा स्थापयत्कृतमहोत्सवो नृपः ॥ १४६ ॥
समकरोदचलेश्वरसन्निधावचलदुर्गमसौ जगतीपतिः ।
यवनवारवधादिव तोषितो मुकुटमर्बुदभूमिभृतो व्यधात् ॥ १४७ ॥
योयं राजगुरूश्चदानगुरुरि......प्रसिद्धश्च यो
योऽसौ शैलगुरुर्गुरुश्चपरमः प्रोद्दामभूमीभुजां ।
यो......धिक वीरवंदितपदः प्राच्यप्रतीच्योत्तर-
प्रोद्यद्दक्षिणभूपमंडनमणिः कुंभो..................॥ १४८ ॥
नरेश्वरो धृष्टमोतित्तमहीभृदुन्मूलनमूलहेतुः ।
विराजते दुर्बलभूमिपालसंस्थापनी......तया नरेन्द्रः ॥ १४६ ॥
असमसमरभूमीदारुणः कुंभकर्णः
करकलितकृपाणैर्वैरिवृंदं निहत्य ।
चलितरुधिरपूरोत्तालकल्लोलिनोभिः
शमयति पितृवैरोद्भूतरौषानलौघं ॥ १५० ॥
आजावाजौ निहतविमतानीकिनीशोणितौघे
वारं वारं समरतरलां क्षालयित्वा कृपाणीं ।
दायं दायं विविधवसुधां वृत्तयेऽसौ द्विजेभ्यो
मन्ये नव्यः प्रभवतितरां भार्गवः कुंभदंभात् ॥ १५१,॥ . .
218