महाराणा कुम्भा (हरविलास सारदा - मेवाड़ साम्राज्य के अद्वितीय विजेता, निर्माता व विद्वान्)
Maharana Kumbha: Sovereign, Soldier, Scholar by Har Bilas Sarda
हरविलास सारदा द्वारा
पृष्ठ 274, कुल 296 में से
संदर्भ में पढ़ेंAppendix.
संनिधेस्य कुम्भनृपतिःसरोद्भुतं निरमापयत् शशिकलोज्जवलोदकं ।
नरकिंनरासुरसुरांगनाजनो जलकेलये श्रयति यत्समंततः ॥ १३१ ॥
कनकवरणः प्रौढो नीलोत्पलद्युतिरंजित-
स्तरणिकिरणप्रौढतेजःप्रभारुणितांबरः ।
जलदपटलीदीर्घोत्तुंगांचितो यदधित्यका
सुरपतिधनुर्लेखाल्डर्मीं विभर्त्ति समंततः ॥ १३२ ॥
आशापेट्तकृतोरुगोपुरमुखः सद्योगपट्टोपमः
प्रोदंचद्धरणः कमंडलुगलद्गंगः सरोवारिभिः ।
रम्यस्फेटिकहर्म्यरश्मिपटलीकूर्चो विरंचिश्चिरं
शंके दुर्ग(मिषा)दमुत्र सकलां स्वीयां कृतिं पश्यति ॥ १३३ ॥
मन्येस्फेटिकहर्म्यरश्मिपटलैर्दीर्घोरुकूर्चायितं
वप्रेणापि सुमेरुसुंदररुचा यद्योगपट्टायितं ।
आशापेक्षकृतोच्चगोपुरवरैस्तस्योरुवक्त्रायितं
दुर्गेणापि विलोकितुं वसुमतीं ब्रह्मायितं चारुणा ॥ १३४ ॥
भुजवलयचतुष्टयी······खचितमणिनिचयाचतुभुजस्य ।
चतस्रषु विशिखाचतुष्टयोयं स्फुरति(हरित्सु)च यत्र दुर्गवर्ये ॥१३५॥
चतुरर्णवमेखलैक दुर्गे चतुरंभोधिगतोरुरत्नराशिः ।
प्रतिदिग्महतीर्व्यधत्त रथ्याः नृपतिर्ग्राहयितुं निजप्रतापैः ॥ १३६ ॥
दृष्टुं नालं समंतात्सकलनिजकृतिं द्वीपपाथोधिचेला
विच्छिन्नां भूतधात्रीं सुरंगृहभुजगागारलीलामितीव ।
कुंभक्षोणींद्ररूपावतरणमधुनाश्रित्यमन्ये विधाता
सर्वामृद्धिदिदृक्षुः प्रमुदितहृदयः कुंभमेरुं व्यधत्त ॥ १३७ ॥
जंबूद्वीपालं कृतौ कुंभमेरौ मेरौ स्तिष्ठन्कर्णिकाकारचारौ ।
श्रीमत्कुंभक्ष्मापतिः पद्पनेत्रो मन्येधत्ते नव्यपद्मासनत्वं ॥ १३८ ॥
कर्णिकाकृतिधरस्यसुमेरो·········कुंभमाश्रितास्त्रयः ।
श्वेतनीलगिरिश्रृंगिपर्वता भांति सेवितुमुपागता नृपं ॥ १३६ ॥
विभ्राजी विपुलश्चात्र भ्राजते पश्चिमाथितः ।
अर्बुदाद्रिनिरीक्षार्थमागताविव बांधवौ ॥ १४० ॥
217