महाराणा कुम्भा (हरविलास सारदा - मेवाड़ साम्राज्य के अद्वितीय विजेता, निर्माता व विद्वान्)
Maharana Kumbha: Sovereign, Soldier, Scholar by Har Bilas Sarda
हरविलास सारदा द्वारा
पृष्ठ 271, कुल 296 में से
संदर्भ में पढ़ेंMaharana Kumbha.
शेषस्यातिधरः क्षमाभरभृतो यस्योरुशौर्योभुजः
शेषं नागपुरं निपात्य च कथाशेषं व्यधाद्भूपतिः ॥ १८ ॥
शकाधिपानां व्रजतामधस्ताद्दर्शयन्नागपुरस्य मार्गं ।
प्रज्वाल्य फेरोजमशीतिमुचां निपात्य तन्नागपुरं प्रवीरः ॥ १६ ॥
निपात्य दुर्गं परिखां प्रपूर्य गजान् गृहीत्वा यवनीश्च बध्वा ।
अदंडयद्यो यवनानतान् विडंवयन् गुर्जरभूमिभर्तुः ॥ २० ॥
लक्षाणि च द्वादश गोमवल्लीरमोचयद्दुर्यवनानलेभ्यः ।
तं गोचरं नागपुरं विधाय चिराय यो ब्राह्मणसादकार्षीत् ॥ २१ ॥
मूलं नागपुरं महच्छुकतरोरुन्मूल्य नूनं मही-
नाथोयं पुनरच्छिदत्समदहत्पश्चान्मशीत्यासह ।
तस्मात्म्लानिंमवाप्य दूरमपतत् शाखाश्चपत्राण्यहो
सत्यं याति न को विनाशमधिकं मूलस्य नाशे सति ॥ २२ ॥
अग्रहीदमितरत्नसंचयं कोशलः समसखानभूपतेः ।
जांगलस्थलमगाहाताहवे कुम्भकर्णधरणीपुरंदरः ॥ २३ ॥
······समुद्भासितवान् कासिलीं सहसाजयत् ।
यस्य दुन्दुभिनिध्वानो धुंखराद्रि जयोद्भवः ॥ २४ ॥
आकर्णाकृष्टदलितचापविनिर्गतोरु-
बाणावलीविदलितारिबलो नृपालः ।
खंडेळखंडनविधिं व्यतनोदुतुच्छ-
सैन्योच्छलद्वहलरेणुविलुप्तभानुः ॥ २५ ॥
असौ शिरोमंडनचंद्रतारं विचित्रकूटं किल चित्रकूटं ।
स्वरा·········मकरोन्महींद्रो महामहाभानुरिवोदयाद्रिं ॥ २६ ॥
सरांसि यत्रातितरान्महंति वहंति नीलारुणसारसाली ।
विभांति तीरागतमानिनीनां मुखारविन्दप्रतिमाभिवात्र ॥ २७ ॥
कलाशाचलसुंदरं हिमगिरिप्रख्यं च सर्वंकषं
नानाहेमघटावतंसकिरणैमेर्रोर्हसंतं श्रियं ।
सर्वोर्वीतिलकोपमं मुकुटवच्छ्रीचित्रकूटाचले
कुंभस्वामिन आलयं व्यरचयच्छ्रीकुंभकर्णो नृपः ॥ २८ ॥
214