सामग्री पर जाएँ
सर्वकोश
महाराणा कुम्भा (हरविलास सारदा - मेवाड़ साम्राज्य के अद्वितीय विजेता, निर्माता व विद्वान्)

महाराणा कुम्भा (हरविलास सारदा - मेवाड़ साम्राज्य के अद्वितीय विजेता, निर्माता व विद्वान्)

Maharana Kumbha: Sovereign, Soldier, Scholar by Har Bilas Sarda

हरविलास सारदा द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 272, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 272

Appendix.
कैलाशस्य प्रतिनिधिरिदं शंकरस्याट्टहास
ज्योत्स्नाराशिः किमु हिमवतः कर्णिका भूधरस्य ।
इत्थं नानाविषयविषयं चित्रकूटस्य शृंगे
रम्यं हर्म्यं व्यरचयदिलाधीशवरश्चक्रपाणेः ॥ २६ ॥
तदांतिके देवगृहान्महोच्चानलंकृतान् हेमघटावतंसैः ।
अकारयच्चादिवराहगेहमनेकधाश्रीमरणस्य मूर्तिः ॥ ३१ ॥
रामकुण्डममराधिपचापप्राज्यदीधितिमनोहरगेहं ।
दीर्घिकाश्च जलयंत्रदर्शनव्यग्रनागरिकदत्तकौतुकाः ॥ ३२ ॥
कीर्तिस्तंभमकारयत्सरणधीरभ्रंलिहाग्रं समा-
धीशा सर्वसुपर्वराजहरिति क्रीडानिवासं श्रियः ।
यत्रागत्यसुरांगनाः सकलभूसाम्राज्यलीलानिधे-
रस्येंद्रस्य नितंबिनीजनकतान् पश्यंति लीलारसान् ॥ ३३ ॥
भानुः स्वं रथमेकचक्रमकरोन्मेरोस्तटे पर्यटन्
नवासौ रथचक्रयुग्मसरणिं कर्तुं समर्थोभवत् ।
उच्चैर्मेरुगिरेर्नवोदिनकरः श्रीचित्रकूटाचले
भव्यां सद्रथपद्धतिं जनसुखायाचूलमूलं व्यधात् ॥ ३४ ॥
रामः सरामो विरथो महोच्चै पद्भ्यामगच्छत्किल चित्रकूटे ।
इतीव कुंभेन महीधरेण किमत्र रामाः सरथानियुक्ताः ॥ ३५ ॥
शाखामृगार्थं किल सेतु ....................... रघुनन्दनोपि ।
इतीव दुर्गे खलु रामरथ्यां स सेतुबंधामकरोन्महीन्द्रः ॥ ३६ ॥
दृष्ट्वैकं किल चित्रकूटमचलं सन्मेदिनीलोचनं
धात्रा निर्मितमत्रविस्मृतिमपि ज्ञात्वा विधातुर्नृपः ।
मन्येत्रापि कनीनिकामिवसरी नेत्रोदरव्यापिनीं
निर्मायापरगाधिनन्दन इव स्रष्टा नवीनोभवत् ॥ ३७ ॥
किमेतत्कैलाशः सिततरशिलाशेखरशिरा
हिमाद्रेर्वा शृंगं नृपहितभवानीप्रणिहितं ।
यदालोक्याल्हादं भजति नितरां कौतुकिजनो
हनूमान्नामांकं व्यरचयदसौ गोपुरमिह ॥ ३८ ॥
215